बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतासौनामायमिदंरूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौनामायमिदंरूप इति स एष इह प्रविष्टः । आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्ति । अकृत्स्नो हि स प्राणन्नेव प्राणो नाम भवति । वदन्वाक्पश्यंश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्मानेन ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ ७ ॥
अपरे वर्णयन्ति — उपासनेनात्मविषयं विशिष्टं विज्ञानान्तरं भावयेत् ; तेनात्मा ज्ञायते ; अविद्यानिवर्तकं च तदेव, नात्मविषयं वेदवाक्यजनितं विज्ञानमिति । एतस्मिन्नर्थे वचनान्यपि — ‘विज्ञाय प्रज्ञां कुर्वीत’ (बृ. उ. ४ । ४ । २१) ‘द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’ (बृ. उ. २ । ४ । ५), (बृ. उ. ४ । ५ । ६) ‘सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ (छा. उ. ८ । ७ । १) इत्यादीनि ॥

आत्मोपासनं विधेयमिति पक्षमुक्त्वा पक्षान्तरमाह —

अपर इति ।

तस्यानुपयोगमाशङ्क्याऽऽह —

तेनेति ।

शाब्दस्य ज्ञानस्यासंस्पृष्टापरोक्षात्मविषयत्वाभावमितिशब्देन हेतूकरोति ।

ज्ञानान्तरं वेदान्तेषु विधेयमित्यत्र मानमाह —

एतस्मिन्निति ।