पक्षद्वये प्राप्ते प्रथमपक्षं प्रत्याह —
नार्थान्तराभावादिति ।
तत्र नञर्थमेव स्वयं व्याचष्टे —
न चेति ।
शाब्दज्ञानवतो विषयाभावान्न विधिः संभवत्यविद्यातत्कार्यनिवृत्तौ स्वयं फलावस्थत्वाच्चेत्यर्थः ।
हेतुभागं प्रश्नपूर्वकं विवृणोति —
कस्मादित्यादिना ।
आत्मोपदेशेनानात्मनिषेधद्वारा वाक्योत्थज्ञानातिरेकेणेति यावत् ।
कर्तव्यान्तराभावेऽपि वाक्यजन्यविज्ञानमेव विधेयं स्यादित्याशङ्क्याऽऽह —
तत्र हीति ।
दृष्टान्तेऽपि वाक्योत्थज्ञानातिरेकेण पुरुषप्रवृत्तिरसिद्धेत्याशङ्क्याऽऽह —
न हीति ।
तदनुष्ठानं तर्हि वाक्यार्थज्ञानाधीनमिति व्यर्थो विधिस्तत्राऽऽह —
तच्चेति ।
अधिकारो विधिपुरुषसंबन्धस्तत्कृतज्ञानापेक्षमनुष्ठानमित्यर्थवान्विधिरित्यर्थः ।
तर्हि प्रकृतेऽपि वाक्योत्थज्ञानव्यतिरेकेण पुरुषव्यापारसंभवाद्विधिसाफल्यमित्याशङ्क्याऽऽह —
नत्विति ।
अथ विमतं प्रवर्तकं वैदिकज्ञानत्वाद्विधिवाक्योत्थज्ञानवदित्याशङ्क्य प्रवर्तकविषयत्वमुपाधिरित्याह —
नहीति ।
मिथ्याज्ञानानिवर्तकत्वमुपाध्यन्तरमाह —
अब्रह्मेति ।
वाक्योत्थज्ञानस्य तन्निवर्तकत्वेऽपि प्रवर्तकत्वं किं न स्यादित्याशङ्क्याऽऽह —
न चेति ।
द्वितीयोपाधेः साधनव्याप्तिं शङ्कते —
वाक्येति ।
ब्रह्मात्मैक्यधीपरवाक्योत्थविज्ञानस्याज्ञानतत्कार्यध्वंसित्वध्रौव्यान्न साधनव्याप्तिरित्याह —
नेत्यादिना ।
तद्वादित्वाद्वस्तुपरत्वादिति यावत् ।
उक्तानां वाक्यानां विध्यपेक्षितार्थसमर्पकत्वेन तच्छेषत्वं शङ्क्तितमनुभाषते —
द्रष्टव्येति ।
सिद्धान्तोपक्रमेण समाहितमेतदित्याह —
नेति ।
तदेव स्पष्टयति —
आत्मेति ।
परोक्तमुद्भावयति —
आत्मस्वरूपेति ।
कुत्र तर्हि विधिरात्मज्ञाने वा वाक्यश्रवणे वा तदर्थज्ञानस्मृतिसन्ताने वा चित्तवृत्तिनिरोधे वा ? नाऽऽद्य इत्याह —
नाऽऽत्मवादीति ।
द्वितीयं शङ्कते —
तच्छ्रवणेऽपीति ।
अनिष्टार्थवादिवाक्यस्यासत्यादिलक्षणस्य विधिं विना श्रवणात्तत्त्वमादेरपि तस्मादृते श्रवणमविरुद्धमित्यभिसन्धाय दोषान्तरमाह —
नेत्यादिना ।
तत्त्वमादिश्रवणप्रयोजको विधिरात्मनोऽपि प्रयुङ्क्ते श्रवणमिति चेन्नैवं स खल्वध्ययनविधिरन्यो वा ? आद्ये तदपेक्षया श्रुतस्य तत्त्वमस्यादेः स्वार्थबोधित्वं कर्मवाक्यवदिति स्वार्थनिष्ठत्वाविशेषः, द्वितीये तस्याप्रमाणत्वात्तदीयस्वपरनिर्वाहकत्वं दूरोत्सारितमित्यभिप्रेत्यानवस्थां विवृणोति —
यथेत्यादिना ।
तृतीयमाशङ्कते —
वाक्यजनितेति ।
ततः सा विधेयेति शेषः ।
तस्या विधेयत्वं दूषयति —
नेति ।
अर्थप्राप्तिं विवृणोति —
यदैवेति ।
अनात्मस्मृतिहेत्वज्ञाननिवृत्तौ तत्कार्यस्मृत्यनुपपत्तेः स्वभावबलप्राप्तैवाऽऽत्मस्मृतिरित्युक्तमिदानीमनात्मस्मृतेरनर्थत्वस्यान्वयव्यतिरेकसिद्धत्वाच्चाऽऽत्मस्मृतिः स्वभावप्राप्तेत्याह —
अनर्थत्वेति ।
अनात्मनोऽनर्थत्वनिश्चयाच्च तदीयस्मृत्यनुपपत्तावितरस्मृतिरर्थप्राप्तेत्याह —
आत्मावगताविति ।
आत्मनश्च परमेष्टत्वावगमादर्थप्राप्ता तदीयस्मृतिरित्याह —
आत्मवस्तुनश्चेति ।
अर्थप्राप्त्या विधेयत्वाभावमुपसंहरति —
तस्मादिति ।
अनात्मस्मृतिहेत्वज्ञानाभावादिस्तच्छब्दार्थः । अर्थतः चिदेकरसात्मस्वभावबलादिति यावत् ।
दृष्टफलत्वाच्चाऽत्मस्मृतिर्न विधेयेत्याह —
शोकेति ।
मिथ्याज्ञानमेव सा निवर्तयति न शोकादीत्याशङ्क्याऽऽह —
विपरीतेति ।
आत्मस्मृतेः शोकादिनिवर्तकत्वे मानमाह —
तथा चेति ।
चतुर्थमुत्थापयति —
निरोधस्तर्हीति ।
यदि वाक्योत्थज्ञानादेरविधेयत्वं तर्हि चित्तवृत्तिनिरोधो मुक्तिसाधनत्वेन विधीयतां तस्योक्तज्ञानादेरर्थान्तरत्वादित्यर्थः ।
चोद्यमेव विवृणोति —
अथापीति ।
अर्थान्तरत्वात्तस्य विधेयतेति शेषः ।
तस्य मुक्तिहेतुत्वेन विधेयत्वे योगशास्त्रं संवादयति —
तन्त्रान्तरेष्विति ।
’अथ योगानुशासनमि’ति निःश्रेयसहेतुः समाधिः सूत्रितस्तस्य च लक्षणमुक्तं ‘योगश्चित्तवृत्तिनिरोध’(यो.सू.१-२) इति । तन्निरोधावस्थायां चाऽऽत्मनः स्वरूपप्रतिष्ठत्वं कैवल्यमाख्यातं तदा द्रष्टुः स्वरूपेऽवस्थानमित्येवं योगशास्त्रे मुक्तिहेतुत्वेनेष्टो निरोधविधिरित्यर्थः ।
योगशास्त्रादपि बलवतीं श्रुतिमाश्रित्योत्तरमाह —
नेत्यादिना ।
चित्तवृत्तिनिरोधस्य मुक्तिहेतुत्वेऽपि न विधेयत्वं विधिं विना तत्सिद्धेरित्याह —
अनन्येति ।
न तावद्यथाकथञ्चिन्निरोधो विधेयः सर्वस्यापि तत्संभवाद्विधिवैयर्थ्यान्नापि सर्वात्मना तन्निरोधो विधेयो ज्ञानादेव तत्सिद्धेर्विध्यानर्थक्यादित्यर्थः ।
’नान्यः पन्था विद्यते’ ‘ज्ञानादेव तु कैवल्यमि’त्यादिशास्त्रमनुसरन्नुपेत्यवादं त्यजति —
अभ्युपगम्येति ।
निरोधस्य मुक्तिहेतुत्वमिदमा परामृष्टम् । योगशास्त्रमपि श्रुतिस्मृतिविरोधे न प्रमाणम् । ‘एतेन योगः प्रयुक्त’(ब्र. सू. २.१.३) इति न्यायादिति भावः ।
वेदान्तेषु विधेयाभावोक्त्या विधिर्निरस्तः संप्रत्यंशत्रयवती भावना तेष्वस्तीत्युक्तं दूषयति —
आकाङ्क्षेति ।
तदेव स्फुटयितुमुक्तमनुवदति —
यदुक्तमिति ।
आगमावष्टम्भेन निराचष्टे —
तदसदिति ।
विधिमन्तरेण वाक्यार्थज्ञाने प्रवृत्त्ययोगाद्वैधमेव ज्ञानं सर्वाकाङ्क्षानिवर्तकमित्याशङ्क्याऽऽह —
न चेति ।
यथा कर्मकाण्डे स्वाध्यायविधेरर्थावबोधपर्यन्तत्वेन ज्योतिष्टोमादिविध्यर्थज्ञाने विध्यन्तरं नापेक्षते तथा ज्ञानकाण्डेऽपि स्यादित्यर्थः ।
तत्रापि वेदः कृत्स्नोऽधिगन्तव्य इति विध्यन्तरप्रयुक्तमेव वाक्यार्थज्ञानमित्याशङ्क्याऽऽह —
विध्यन्तरेति ।
श्रुतहान्यश्रुतकल्पनाप्रसंगाच्च न विधिशेषत्वं वेदान्तानामित्याह —
न चेति ।
वेदान्तः स्वार्थे न मानं सिद्धार्थवाक्यत्वात्सोऽरोदीदित्यादिवदित्यनुमानात्तेषां विधिशेषत्वं प्रामाण्यार्थमेष्टव्यमिति शङ्कते —
वस्तुस्वरूपेति ।
तदेवानुमानं प्रपञ्चयति —
अथापीति ।
विधेरश्रुतत्वेऽपीति यावत् ।
फलवन्निश्चितज्ञानाजनकत्वमुपाधिरिति मन्वानः समाधत्ते —
न विशेषादिति ।
नञर्थं स्पष्टयति —
न वाक्यस्येति ।
विशेषं व्याचष्टे —
किं तर्हीति ।
तस्य प्रामाण्यप्रयोजकत्वमन्वयव्यतिरेकाभ्यां दर्शयति —
तद्यत्रेति ।
सामान्यन्यायं प्रकृते योजयन्पृच्छति —
किञ्चेति ।
किं तेषु तादृग्ज्ञानमुत्पद्यते न वेति प्रश्नार्थः ।
द्वितीयेऽनुभवविरोधः स्यादिति मत्वा पक्षान्तरमनूद्य प्रत्याह —
उत्पद्यते चेदिति ।
प्रामाण्ये हेतुसद्भावान्नाप्रामाण्यमित्यर्थः ।
निश्चितज्ञानजनकत्वेऽपि फलवत्त्वविशेषणमसिद्धमित्याशङ्क्याऽऽह —
किंवेति ।
विद्वदनुभवफलश्रुतिसिद्धं विशेषणमिति भावः ।
दृष्टान्तं विघटयितुं प्रश्नान्तरं प्रस्तौति —
एवमिति ।
वेदान्तेष्विवेति यावत् । किं वा नेति शेषः ।
आद्ये साध्यवैकल्यं मत्वा द्वितीयं दूषयति —
न चेदिति ।
तर्हि तद्दृष्टान्तेन तत्त्वमस्यादेरपि स्यादप्रामाण्यमित्याशङ्क्याऽऽह —
तदप्रामाण्य इति ।
विमतं स्वार्थे मानं यथोक्तज्ञानजनकत्वाद्दर्शादिवाक्यवदिति भावः ।
विपक्षे दोषमाह —
तदप्रामाण्ये चेति ।
प्रवर्तकज्ञानजनकत्वमुपाधिरिति शङ्कते —
नन्विति ।
साधनव्याप्तिं धुनीते —
आत्मेति ।
प्रवर्तकधीजनकत्वं धर्मिणि नास्तीत्यङ्गीकरोति —
सत्यमिति ।
तर्हि यथोक्तोपाधिसद्भावादनुमानानुत्थानमित्याशङ्क्याऽऽह —
नैष दोष इति ।
न हि प्रवर्तकधीजनकत्वं प्रामाण्ये कारणं निषेधवाक्येष्वप्रामाण्यप्रसंगात् । न च निवर्तकधीजनकत्वमपि तथा; विधावप्रामाण्यप्रसंगात् । नोभयं प्रत्येकमुभयकारणत्वाभावेनाप्रामाण्यादिति भावः ।
वेदान्तेषु प्रवर्तकधीजनकत्वाभावो न केवलमदोषः किन्तु गुण इत्याह —
अलङ्कारश्चेति ।
’आत्मानं चेदि’त्यादिश्रुते’रेतद्बुध्वे’त्यादिस्मृतेश्चाऽऽत्मज्ञानं कृतकृत्यतानिदानम् । न च ज्ञानस्य प्रवर्तकत्वे तद्युक्तं प्रवृत्तीनां क्लेशाक्षेपकत्वादतो यथोक्तज्ञानजनकत्वं वाक्यानां भूषणमेवेत्यर्थः ।
शब्दोत्थं ज्ञानं विधेयमिति प्रतिक्षिप्य पूर्वोक्तपक्षान्तरमनुवदति —
यत्तूक्तमिति ।
उपासनार्थत्वमित्यात्मोपासनेन तत्साक्षात्कारं भावयेदित्येवमर्थत्वमित्यर्थः ।
अभ्युपगमवादेन परिहरति —
सत्यमिति ।
यथोक्तेषु वाक्येष्वात्मोपासनं तत्साक्षात्कारमुद्दिश्य विधीयते चेत्प्रकृतेऽपि वाक्ये तत्संभवान्नापूर्वविधिरिति प्रक्रमो भज्येतेत्याशङ्क्याऽऽह —
किन्त्विति ।
कथं तर्हि विध्यङ्गीकारवाचोयुक्तिरित्याशङ्क्याऽऽह —
पक्ष इति ।
यथा पक्षे प्राप्तस्यावघातस्य व्रीहीनवहन्तीति नियमरूपो विधिरङ्गीकृतस्तथाऽऽत्मोपासनस्यापि पक्षे प्राप्तस्य तदेव कर्तव्यं नानात्मोपासनमिति यो नियमस्तदर्थता प्रकृतवाक्यस्येति न प्रक्रमविरोधोऽस्तीत्यर्थः ।
पाक्षिकीं प्राप्तिमुक्तामाक्षिपति —
कथमिति ।
का पुनरत्रानुपपत्तिरित्याशङ्क्याऽऽह —
यावतेति ।
आत्मनि वाक्योत्थे विज्ञाने सत्यनात्मस्मृतिहेतूनां मिथ्याज्ञानादीनामपनीतत्वाद्धेत्वभावे फलाभाव इति न्यायेन तासामसंभवादात्मस्मृतिसन्ततिरेव पुनः सदा स्यात्प्रकारान्तरायोगादिति सिद्धान्तिनोक्तत्वान्नाऽऽत्मोपासनस्य पक्षे प्राप्तिरित्यर्थः ।
तस्य नित्यप्राप्तिमुक्तामङ्गीकरोति —
बाढमिति ।
तर्हि नियमविधिवाचोयुक्तिरयुक्तेत्याशङ्क्याऽऽह —
यद्यपीति ।
आत्मनि नित्यापरोक्षसंविदेकताने स्मरणं विस्मरणं वा यद्यपि नोपपद्यते तथाऽपि तयोस्तस्मिन्ननुभवसिद्धत्वान्नियमविधेः सावकाशत्वमित्याशयेनाऽऽह —
शरीरेति ।
अथाऽऽरब्धफलस्यापि कर्मणः सम्यग्ज्ञानान्निवृत्तेर्न विदुषो वागादीनां प्रवृत्तिरत आह —
लब्धेति ।
यथा मुक्तस्येषुपाषाणादेरप्रतिबन्धाद्यावद्वेगं प्रवृत्तिरवश्यम्भाविनी तथा प्रवृत्तफलस्य कर्मणो ज्ञानेनोपजीव्यतया ततो बलवत्त्वात्तद्वशाद्विदुषोऽपि यावद्भोगं वागादिप्रवृत्तिध्रौव्यमित्यर्थः ।
आरब्धकर्मप्राबल्ये फलितमाह —
तेनेति ।
आरब्धस्य कर्मणो यथोक्तेन न्यायेन प्राबल्ये तद्वशात्क्षुधादिदोषो यदोद्भवति तदाऽऽत्मनि विस्मरणादिसंभवात्तज्ज्ञानप्राप्तेः पाक्षिकत्वादवश्यम्भाविकर्मापेक्षया तद्दौर्बल्यं स्यादित्यर्थः ।
तथाऽपि नियमविध्यङ्गीकारस्य किमायातं तदाह —
तस्मादिति ।
ज्ञानस्य पक्षे प्राप्तत्वं तच्छब्दार्थः । आदिपदं ब्रह्मचर्यशमदमादिसंग्रहार्थम् ।
विज्ञायेत्यादिवाक्यानां नियमविध्यर्थत्वमुपसंहरति —
तस्मादिति ।
आदिपदेन प्रकृतमपि वाक्यं संगृह्यते ।
तच्छब्दार्थमेव स्पष्टयति —
अन्यार्थेति ।
शाब्दज्ञानादेव पुमर्थसिद्धेस्तस्य तदावृत्तेस्तृतीयज्ञानस्य वा विधेयत्वाभावाद्वेदान्ताः शुद्धे सिद्धेऽर्थे मानमित्युक्तमिदानीमितिशब्दप्रयुक्तं चोद्यमुत्थापयति —
अनात्मेति ।
आत्मशब्दादूर्ध्वमितिशब्दप्रयोगादात्मशब्दार्थस्योपास्यत्वेनाविवक्षितत्वादात्मगुणकस्यानात्मनोऽव्याकृतशब्दितस्य प्रधानस्योपासनमस्मिन्वाक्ये विवक्षितमित्यर्थः ।
उक्तमेवार्थं दृष्टान्तेन स्पष्टयति —
यथेत्यादिना ।
अनात्मोपासनमेवात्र विधित्सितमित्यत्र हेत्वन्तरमाह —
आत्मेति ।
तदेव प्रपञ्चयति —
परेणेति ।
ततो वैलक्षण्यं दर्शयति —
इह त्विति ।
वैलक्षण्यान्तरमाह —
इतिपरश्चेति ।
वैलक्षण्यफलमाह —
अत इति ।
नात्रानात्मोपासनं विवक्षितमिति परिहरति —
नेत्यादिना ।
हेत्वर्थं स्फुटयति —
अस्यैवेति ।
आत्मनश्चेदुपास्यत्वं तदा प्रक्रमविरोधः स्यादिति शङ्कते —
प्रविष्टस्येति ।
आत्मनो दर्शनप्रतिषेधं प्रकटयति —
यस्येति ।
तस्यैवेति नियमे हेतुमाह —
प्रकृतेति ।
तच्छब्दस्य प्रकृतपरामर्शित्वात्प्रविष्टस्य च प्रकृतत्वात्तस्य तेनोपादानादिति हेत्वर्थः ।
पूर्वपक्षं निगमयति —
तस्मादिति ।
प्राणनादिविशिष्टस्य परिच्छिन्नत्वात्तस्य दृष्टत्वेऽपि पूर्णस्य न दृष्टतेति निषेधश्रुतिपर्यवसानान्नोपक्रमविरोधोऽस्तीति परिहरति —
नेत्यादिना ।
तदेव विशदयति —
दर्शनेति ।
कथमयमभिप्रायभेद श्रुतेरवगम्यते तत्राऽऽह —
प्राणनादीति ।
प्राणन्नेवेत्यादिना क्रियाविशेषविशिष्टत्वेनाऽऽत्मनो विशेषणात्तस्य दृष्टत्वेऽपि नासौ परिपूर्णो दृष्टः स्यादिति श्रुतेराशयो लक्ष्यते केवलस्य तु तस्योपास्यत्वमभिसंहितमकृत्स्नत्वदोषाभावादित्यर्थः ।
उक्तमर्थं व्यतिरेकमुखेन साधयति —
आत्मनश्चेदिति ।
तस्यानुपास्यत्वार्थं तद्वचनमर्थवदित्याशङ्क्य तदुपास्यत्वनिषेधस्याऽऽत्मोपास्यत्वे पर्यवसानमभिप्रेत्याऽऽह —
अतोऽनेकैकेति ।
उपक्रमोपसंहाराभ्यामुपास्यत्वमात्मनो दर्शितमिदानीमितिशब्दप्रयोगादनात्मोपासनमिदमित्युक्तं प्रत्याह —
यस्त्विति ।
प्रयोगशब्दादुपरिष्टात्सशब्दो द्रष्टव्यः ।
इतिशब्दस्य यथोक्तार्थत्वाभावे दोषमाह —
अन्यथेति ।
न चाऽऽत्मनः स्वातन्त्र्येणानुपास्यत्वार्थमितिशब्दोऽर्थवान्पूर्वापरवाक्यविरोधादिति द्रष्टव्यम् ।
इतिशब्दमन्तरेण वाक्यप्रयोगे दोषमाह —
तथेति ।
तस्य शब्दप्रत्ययविषयत्वमिष्टमेवेति चेत्तत्राऽऽह —
तच्चेति ।
आत्मोपास्यत्ववाक्यवैलक्षण्यादनात्मोपासनमेतदित्युक्तं तद्दूषयति —
यत्त्विति ।