बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतासौनामायमिदंरूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौनामायमिदंरूप इति स एष इह प्रविष्टः । आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्ति । अकृत्स्नो हि स प्राणन्नेव प्राणो नाम भवति । वदन्वाक्पश्यंश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्मानेन ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ ७ ॥
अनिर्ज्ञातत्वसामान्यात् आत्मा ज्ञातव्यः, अनात्मा च । तत्र कस्मादात्मोपासन एव यत्न आस्थीयते — ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) इति, नेतरविज्ञाने इति ; अत्रोच्यते — तदेतदेव प्रकृतम् , पदनीयं गमनीयम् , नान्यत् ; अस्य सर्वस्येति निर्धारणार्था षष्ठी ; अस्मिन्सर्वस्मिन्नित्यर्थः ; यदयमात्मा यदेतदात्मतत्त्वम् ; किं न विज्ञातव्यमेवान्यत् ? न ; किं तर्हि, ज्ञातव्यत्वेऽपि न पृथग्ज्ञानान्तरमपेक्षते आत्मज्ञानात् ; कस्मात् ? अनेनात्मना ज्ञातेन, हि यस्मात् , एतत्सर्वमनात्मजातम् अन्यद्यत् तत्सर्वं समस्तम् , वेद जानाति । नन्वन्यज्ञानेनान्यन्न ज्ञायत इति ; अस्य परिहारं दुन्दुभ्यादिग्रन्थेन वक्ष्यामः । कथं पुनरेतत्पदनीयमिति, उच्यते — यथा ह वै लोके, पदेन — गवादिखुराङ्कितो देशः पदमित्युच्यते, तेन पदेन — नष्टं विवित्सितं पशुं पदेनान्वेषमाणः अनुविन्देत् लभेत ; एवमात्मनि लब्धे सर्वमनुलभते इत्यर्थः ॥

आत्मैव ज्ञातव्यो नानात्मेति प्रतिज्ञायामत्र हीत्यादिना हेतुरुक्तः संप्रति तदेतत्पदनीयमित्यादिवाक्यापोह्यं चोद्यमुत्थापयति —

अनिर्ज्ञातत्वेति ।

उत्तरमाह —

अत्रेति ।

निर्धारणमेव स्फोरयति —

अस्मिन्निति ।

नान्यदित्युक्तत्वादनात्मनो विज्ञातव्यत्वाभावश्चेदनेन हीत्यादिशेषविरोधः स्यादिति शङ्कते —

किं नेति ।

तस्याज्ञेयत्वं निषेधति —

नेति ।

तस्यापि ज्ञातव्यत्वे नान्यदिति वचनमनवकाशमित्याह —

किं तर्हीति ।

तस्य सावकाशत्वं दर्शयति —

ज्ञातव्यत्वेऽपीति ।

आत्मनः सकाशादनात्मनोऽर्थान्तरत्वात्तस्याऽऽत्मज्ञानाज्ज्ञातव्यत्वायोगाज्ज्ञातव्यत्वे ज्ञानान्तरमपेक्षितव्यमेवेति शङ्कते —

कस्मदिति ।

उत्तरवाक्येनोत्तरमाह —

अनेनेति ।

आत्मन्यानात्मजातस्य कल्पितत्वात्तस्य तदतिरिक्तस्वरूपाभावात्तज्ज्ञानेनैव ज्ञातत्वसिद्धेर्नास्ति ज्ञानान्तरापेक्षेत्यर्थः ।

लोकदृष्टिमाश्रित्यानेनेत्यादिवाक्यार्थमाक्षिपति —

नन्विति ।

आत्मकार्यत्वादनात्मनस्तस्मिन्नन्तर्भावात्तज्ज्ञानेन ज्ञानमुचितमिति परिहरति —

अस्येति ।

सत्योपायाभावादात्मतत्त्वस्य पदनीयत्वासिद्धिरिति शङ्कते —

कथमिति ।

असत्यस्यापि श्रुत्याचार्यादेरर्थक्रियाकारित्वसंभवादात्मतत्त्वस्य पदनीयत्वोपपत्तिरित्याह —

उच्यत इति ।

विवित्सितं लब्धुमिष्टम् । अन्वेषणोपायत्वं दर्शयितुं पदेनेति पुनरुक्तिः ।