बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतासौनामायमिदंरूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौनामायमिदंरूप इति स एष इह प्रविष्टः । आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्ति । अकृत्स्नो हि स प्राणन्नेव प्राणो नाम भवति । वदन्वाक्पश्यंश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्मानेन ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ ७ ॥
नन्वात्मनि ज्ञाते सर्वमन्यज्ज्ञायत इति ज्ञाने प्रकृते, कथं लाभोऽप्रकृत उच्यत इति ; न, ज्ञानलाभयोरेकार्थत्वस्य विवक्षितत्वात् । आत्मनो ह्यलाभोऽज्ञानमेव ; तस्माज्ज्ञानमेवात्मनो लाभः ; न अनात्मलाभवत् अप्राप्तप्राप्तिलक्षण आत्मलाभः, लब्धृलब्धव्ययोर्भेदाभावात् । यत्र ह्यात्मनोऽनात्मा लब्धव्यो भवति, तत्रात्मा लब्धा, लब्धव्योऽनात्मा । स चाप्राप्तः उत्पाद्यादिक्रियाव्यवहितः, कारकविशेषोपादानेन क्रियाविशेषमुत्पाद्य लब्धव्यः । स त्वप्राप्तप्राप्तिलक्षणोऽनित्यः, मिथ्याज्ञानजनितकामक्रियाप्रभवत्वात् — स्वप्ने पुत्रादिलाभवत् । अयं तु तद्विपरीत आत्मा । आत्मत्वादेव नोत्पाद्यादिक्रियाव्यवहितः । नित्यलब्धस्वरूपत्वेऽपि अविद्यामात्रं व्यवधानम् । यथा गृह्यमाणाया अपि शुक्तिकाया विपर्ययेण रजताभासाया अग्रहणं विपरीतज्ञानव्यवधानमात्रम् , तथा ग्रहणं ज्ञानमात्रमेव, विपरीतज्ञानव्यवधानापोहार्थत्वाज्ज्ञानस्य ; एवमिहाप्यात्मनोऽलाभः अविद्यामात्रव्यवधानम् ; तस्माद्विद्यया तदपोहनमात्रमेव लाभः, नान्यः कदाचिदप्युपपद्यते । तस्मादात्मलाभे ज्ञानादर्थान्तरसाधनस्य आनर्थक्यं वक्ष्यामः । तस्मान्निराशङ्कमेव ज्ञानलाभयोरेकार्थत्वं विवक्षन्नाह — ज्ञानं प्रकृत्य — ‘अनुविन्देत्’ इति ; विन्दतेर्लाभार्थत्वात् ॥

अनेनेत्यत्र वेदेति ज्ञानेनोपक्रम्यानुविन्देदिति लाभमुक्त्वा कीर्तिमित्यादिश्रुतौ पुनर्ज्ञानार्थेन विदिनोपसंहारादनुविन्देदिति श्रुतेरुपक्रमोपसंहारविरोधः स्यादिति शङ्कते —

नन्विति ।

शङ्कितं विरोधं निराकरोति —

नेति ।

कथं तयोरैकार्थ्यं ग्रामादौ तदेकत्वाप्रसिद्धेरित्याशङ्क्याऽऽह —

आत्मन इति ।

ग्रामादावप्राप्ते प्राप्तिरेव लाभो न ज्ञानमात्रं तथाऽत्रापि किं न स्यादित्याशङ्क्याऽऽह —

नेत्यादिना ।

ज्ञानलाभशब्दयोरर्थभेदस्तर्हि कुत्रेत्याशङ्क्याऽऽह —

यत्र हीति ।

अनात्मनि लब्धृलब्धव्ययोर्ज्ञातृज्ञेययोश्च भेदे क्रियाभेदात्फलभेदसिद्धिरित्यर्थः ।

नन्वात्मलाभोऽपि ज्ञानाद्भिद्यते लाभत्वादनात्मलाभवदित्याशङ्क्य ज्ञानहेतुमात्रानधीनत्वमुपाधिरित्याह —

स चेति ।

अप्राप्तत्वं व्यक्तीकरोति —

उत्पाद्येति ।

तद्व्यवधानमेव साधयति —

कारकेति ।

किञ्चानात्मलाभोऽविद्याकल्पितः कादाचित्कत्वात्सम्मतवदित्याह —

स त्विति ।

किञ्चासावविद्याकल्पितोऽप्रामाणिकत्वात्संप्रतिपन्नवदित्याह —

मिथ्येति ।

प्रकृते विशेषं दर्शयति —

अयं त्विति ।

वैपरीत्यमेव स्फोरयति —

आत्मत्वादिति ।

आत्मनस्तर्हि नित्यलब्धत्वान्न तत्रालब्धत्वबुद्धिः स्यादित्याशङ्क्याऽऽह —

नित्येति ।

आत्मन्यलाभोऽज्ञानं लाभस्तु ज्ञानमित्येतद्दृष्टान्तेन स्पष्टयति —

यथेत्यादिना ।

शुक्तिकायाः स्वरूपेण गृह्यमाणाया अपीति योजना ।

आत्मलाभोऽविद्यानिवृत्तिरेवेत्यत्रोक्तं वक्ष्यमाणं च गमकं दर्शयति —

तस्मादिति ।

अविरोधमुपसंहरति —

तस्मादित्यादिना ।

तयोरेकार्थत्वेऽपि कथमनुविन्देति मध्ये प्रयुज्यते —

तत्राऽऽह –

विन्दतेरिति ।