बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियतासौनामायमिदंरूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौनामायमिदंरूप इति स एष इह प्रविष्टः । आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्ति । अकृत्स्नो हि स प्राणन्नेव प्राणो नाम भवति । वदन्वाक्पश्यंश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव । स योऽत एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति । तदेतत्पदनीयमस्य सर्वस्य यदयमात्मानेन ह्येतत्सर्वं वेद । यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ ७ ॥
गुणविज्ञानफलमिदमुच्यते — यथा — अयमात्मा नामरूपानुप्रवेशेन ख्यातिं गतः आत्मेत्यादिनामरूपाभ्याम् , प्राणादिसंहतिं च श्लोकं प्राप्तवान् - इति — एवम् , यो वेद ; सः कीर्तिं ख्यातिम् , श्लोकं च सङ्घातमिष्टैः सह, विन्दते लभते । यद्वा यथोक्तं वस्तु यो वेद ; मुमुक्षूणामपेक्षितं कीर्तिशब्दितमैक्यज्ञानम् , तत्फलं श्लोकशब्दितां मुक्तिमाप्नोति — इति मुख्यमेव फलम् ॥

आदिमध्यावसानानामविरोधमुक्त्वा कीर्तिमित्यादिवाक्यमवतार्य व्याकरोति —

गुणेत्यादिना ।

इतिशब्दादुपरिष्टाद्यथेत्यस्य संबन्धः । ज्ञानस्तुतिश्चात्र विवक्षिता ज्ञानिनामीदृक्फलस्यानभिलषितत्वादिति द्रष्टव्यम् ॥७॥