आत्मनः पदनीयत्वे तस्यैवाज्ञातत्वसंभवो हेतुरुक्तोऽधुना तत्रैव हेत्वन्तरत्वेनोत्तरवाक्यमवतारयति —
कुतश्चेति ।
अन्यदनात्मेति यावत् ।
विरक्तस्य पुत्रे प्रीत्यभावात्कथमात्मनस्तत्प्रियतरत्वमित्याशङ्क्याऽऽह —
पुत्रो हीति ।
प्रियतरमात्मतत्त्वमिति शेषः ।
लोकदृष्टिमेवावष्टभ्याऽऽह —
तथेति ।
वित्तपदेन मानुषवित्तवद्दैवं वित्तमपि गृह्यते ।
विशेषाणामानन्त्यात्प्रत्येकं प्रदर्शनमशक्यमित्याशयेनाऽऽह —
तथाऽन्यस्मादिति ।
पुत्रादौ प्रीतिव्यभिचारेऽपि प्राणादौ तदव्यभिचारादात्मनो न प्रियतमत्वमिति शङ्कते —
तत्कस्मादिति ।
पदान्तरमादाय व्याकुर्वन्परिहरति —
उच्यत इत्यादिना ।
अन्तरतरत्वे प्रियतमत्वसाधने हेतुरात्मत्वमित्यभिप्रेत्य विशेष्यं व्यपदिशति —
यदयमिति ।
आत्मनो निरतिशयप्रेमास्पदत्वेऽपि कुतस्तस्यैव पदनीयत्वमित्याशङ्क्य वाक्यार्थमाह —
यो हीत्यादिना ।
पुत्रादिलाभे दारादीनां कर्तव्यत्वेन प्राप्तप्रयत्नविरोधादात्मलाभे प्रयत्नः सुकरो न भवतीत्याशङ्क्याऽऽह —
कर्तव्यतेति ।
आत्मनो निरतिशयप्रेमास्पदत्वे युक्तिं पृच्छति —
कस्मादिति ।
आत्मप्रियस्योपादानमनुसन्धानमितरस्यानात्मप्रियस्य हानमननुसन्धानम् । विपर्ययोऽनात्मनि पुत्रादावभिनिवेशेनाऽऽत्मप्रियस्याननुसन्धानमिति विभागः ।
युक्तिलेशं दर्शयितुमनन्तरवाक्यमवतारयति —
उच्यत इति ।
यः कश्चिदात्मप्रियवादी स तस्मादन्यं प्रियं ब्रुवाणं प्रति ब्रूयादिति संबन्धः ।
वक्तव्यं प्रश्नपूर्वकं प्रकटयति —
किमित्यादिना ।
आत्मप्रियवादिन्येवं वदत्यपि पुत्रादिनाशस्तद्वाक्यार्थो नियतो न सिद्ध्यतीत्याशङ्क्य परिहरति —
स कस्मादित्यादिना ।
हशब्दोऽवधारणार्थः समर्थपदादुपरि संबध्यते । तस्मादेवं वक्तीति शेषः ।
उक्तं सामर्थ्यमनूद्य फलितमाह —
यस्मादिति ।
अथाऽत्मप्रियवादिना यथोक्तं सामर्थ्यमेव कथं लब्धमित्याशङ्क्याऽऽह —
यथेति ।
’अतोऽन्यदार्तमि’त्यनात्मनो विनाशित्वाद्विनाशिनश्च दुःखात्मकत्वात्तत्प्रियत्वस्य भ्रान्तिमात्रत्वादात्मनस्तद्वैपरीत्यान्मुख्या प्रीतिस्तत्रैवानात्मन्यमुख्येति भावः ।
पक्षान्तरमनूद्य वृद्धप्रयोगाभावेन दूषयति —
ईश्वरशब्द इति ।
अनात्मन्यमुख्या प्रीतिरिति स्थिते फलितमाह —
तस्मादिति ।
उपास्तिमनूद्य तत्फलं कथयति —
स य इति ।
अनुवादद्योतको हशब्दः प्रियमात्मसुखं तस्यापि लौकिकसुखवन्नाशः सुखत्वादित्याशङ्किते तन्निरासार्थमनुवादमात्रमत्र विवक्षितमित्याह —
नित्येति ।
फलश्रुतेर्गत्यन्तरमाह —
आत्मप्रियेति ।
महद्धीदमात्मप्रियग्रहणं यत्तन्निष्ठस्य प्रियं न प्रणश्यति तस्मात्तदनुसन्धानं कर्तव्यमिति स्तुत्यर्थं फलकीर्तनमित्यर्थः ।
पक्षान्तरमाह —
प्रियगुणेति ।
यो मन्दः सन्नात्मदर्शी तस्य प्रियगुणविशिष्टात्मोपासने प्रियं प्राणादि न नश्यतीति फलं विधातुं फलवचनमित्यर्थः ।
नन्वात्मानं प्रियमुपासीनस्य प्रियं प्राणादि विद्यासामर्थ्यान्न नश्यति तथा च मन्दविशेषणं मन्दमित्याशङ्क्याऽऽह —
ताच्छील्येति ।
ताच्छील्येऽर्थे विहितस्योकञ्प्रत्ययस्य श्रुत्योपादानात्स्वभावहानायोगाच्च प्रमरणशीलत्वाभावेऽपि प्राणादेरात्यन्तिकमप्रमरणमविवक्षितमित्यर्थः ॥८॥