बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तदाहुर्यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते । किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति ॥ ९ ॥
सूत्रिता ब्रह्मविद्या — ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) इति, यदर्थोपनिषत्कृत्स्नापि ; तस्यैतस्य सूत्रस्य व्याचिख्यासुः प्रयोजनाभिधित्सयोपोज्जिघांसति — तदिति वक्ष्यमाणमनन्तरवाक्येऽवद्योत्यं वस्तु - आहुः — ब्राह्मणाः ब्रह्म विविदिषवः जन्मजरामरणप्रबन्धचक्रभ्रमणकृतायासदुःखोदकापारमहोदधिप्लवभूतं गुरुमासाद्य तत्तीरमुत्तितीर्षवः धर्माधर्मसाधनतत्फललक्षणात्साध्यसाधनरूपान्निर्विण्णाः तद्विलक्षणनित्यनिरतिशयश्रेयःप्रतिपित्सवः ; किमाहुरित्याह — यद्ब्रह्मविद्यया ; ब्रह्म परमात्मा, तत् यया वेद्यते सा ब्रह्मविद्या तया ब्रह्मविद्यया, सर्वं निरवशेषम् , भविष्यन्तः भविष्याम इत्येवम् , मनुष्या यत् मन्यन्ते ; मनुष्यग्रहणं विशेषतोऽधिकारज्ञापनार्थम् ; मनुष्या एव हि विशेषतोऽभ्युदयनिःश्रेयससाधनेऽधिकृता इत्यभिप्रायः ; यथा कर्मविषये फलप्राप्तिं ध्रुवां कर्मभ्यो मन्यन्ते, तथा ब्रह्मविद्यायाः सर्वात्मभावफलप्राप्तिं ध्रुवामेव मन्यन्ते, वेदप्रामाण्यस्योभयत्राविशेषात् ; तत्र विप्रतिषिद्धं वस्तु लक्ष्यते ; अतः पृच्छामः — किमु तद्ब्रह्म, यस्य विज्ञानात्सर्वं भविष्यन्तो मनुष्या मन्यन्ते ? तत्किमवेत् , यस्माद्विज्ञानात्तद्ब्रह्म सर्वमभवत् ? ब्रह्म च सर्वमिति श्रूयते, तत् यदि अविज्ञाय किञ्चित्सर्वमभवत् , तथान्येषामप्यस्तु ; किं ब्रह्मविद्यया ? अथ विज्ञाय सर्वमभवत् , विज्ञानसाध्यत्वात्कर्मफलेन तुल्यमेवेत्यनित्यत्वप्रसङ्गः सर्वभावस्य ब्रह्मविद्याफलस्य ; अनवस्थादोषश्च - तदप्यन्यद्विज्ञाय सर्वमभवत् , ततः पूर्वमप्यन्यद्विज्ञायेति । न तावदविज्ञाय सर्वमभवत् , शास्त्रार्थवैरूप्यदोषात् । फलानित्यत्वदोषस्तर्हि ? नैकोऽपि दोषः, अर्थविशेषोपपत्तेः ॥

तदाहुरित्यादेर्गतेन ग्रन्थेन संबन्धं वक्तुं वृत्तं कीर्तयति —

सूत्रितेति ।

तस्यां प्रमाणमाह —

यदर्थेति ।

तर्हि सूत्रव्याख्यानेनैव सर्वोपनिषदर्थसिद्धेस्तदाहुरित्यादि वृथेत्याशङ्क्याऽऽह —

तस्येति ।

विद्यासूत्रं व्याख्यातुमिच्छन्ती श्रुतिः सूत्रितविद्याविवक्षितप्रयोजनाभिधानायोपोद्घातं चिकीर्षति । प्रतिपाद्यमर्थं बुद्धौ संगृह्य तादर्थ्येनार्थान्तरोपवर्णनस्य तथात्वाच्चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं प्रचक्षत इति न्यायादित्यर्थः ।

यद्ब्रह्मविद्ययेत्यादिवाक्यप्रकाश्यं चोद्यं तच्छब्देनोच्यते प्रकृतसंबन्धासंभवादित्याह —

तदितीति ।

ब्राह्मणमात्रस्य चोद्यकर्तृत्वं व्यावर्तयति —

ब्रह्मेति ।

उत्प्रेक्षया ब्रह्मवेदनेच्छावत्त्वं व्यावर्तयितुं तदेव विशेषणं विभजते —

जन्मेति ।

जन्म च जरा च मरणञ्च तेषां प्रबन्धे प्रवाहे चक्रवदनवरतं भ्रमणेन कृतं यदायासात्मकं दुःखं तदेवोदकं यस्मिन्नपारे संसाराख्ये महोदधौ तत्र प्लवभूतं तरणसाधनमिति यावत् । तत्तीरं तस्य संसारसमुद्रस्य तीरं परं ब्रह्मेत्यर्थः ।

तेषां विविदिषायाः साफल्यार्थं तत्प्रत्यनीके संसारे वैराग्यं दर्शयति —

धर्मेति ।

निर्वेदस्य निरङ्कुशत्वं वारयति —

तद्विलक्षणेति ।

उत्तरवाक्यमवतार्य व्याचष्टे —

किमित्यादिना ।

अथ परा यया तदक्षरमधिगम्यत इति श्रुत्यन्तरमाश्रित्याऽऽह —

यद्ययेति ।

मनुष्या यन्मन्यन्ते तत्र विरुद्धं वस्तु भातीति शेषः ।

मनुष्यग्रहणस्य कृत्यमाह —

मनुष्येति ।

ननु देवादीनामपि विद्याधिकारो देवताधिकरणन्यायेन वक्ष्यते तत्कुतो मनुष्याणामेवाधिकारज्ञापनमित्यत आह —

मनुष्या इति ।

विशेषतः सर्वाविसंवादेनेति यावत् ।

तथाऽपि किमिति ते ज्ञानान्मुक्तिं सिद्धवद्ब्रुवन्तीत्याशङ्क्याऽऽह —

यथेति ।

उभयत्र कर्मब्रह्मणोरिति यावत् ।

उत्तरवाक्यमुपादत्ते —

तत्रेति ।

मनुष्याणां मतं तच्छब्दार्थः । वस्तुशब्देन ज्ञानात्फलमुच्यते । आक्षेपगर्भस्य चोद्यस्य प्रवृत्तौ विरोधप्रतिभासो हेतुरित्यतः शब्दार्थः ।

तद्ब्रह्म परिच्छिन्नमपरिच्छिन्नं वेति कुतो ब्रह्मणि चोद्यते तत्राऽह —

यस्येति ।

प्रश्नान्तरं करोति —

तत्किमिति ।

ब्रह्म स्वात्मानमज्ञासीदतिरिक्तं वेतिप्रश्नस्य प्रसंगं दर्शयति —

यस्मादिति ।

सर्वस्य व्यतिरिक्तविषये ज्ञानं प्रसिद्धं तत्किं विचारेणेत्याशङ्क्याऽऽह —

ब्रह्म चेति ।

सर्वं खल्विदं ब्रह्मेत्यादौ ब्रह्मणः सर्वात्मत्वश्रवणादतिरिक्तविषयाभावादात्मानमेवावेदिति पक्षस्य सावकाशतेत्यर्थः ।

किंशब्दस्य प्रश्नार्थत्वमुक्त्वाऽऽक्षेपार्थमाह —

तद्यदीति ।

ब्रह्म हि किञ्चिदज्ञात्वा सर्वमभवज्ज्ञात्वा वा ? नाऽऽद्यो ब्रह्मविद्यानर्थक्यादित्युक्त्वा द्वितीयमनुवदति —

अथेति ।

स्वरूपमन्यद्वा ज्ञात्वा ब्रह्मणः सर्वापत्तिरिति विकल्प्योभयत्र साधारणं दूषणमाह —

विज्ञानेति ।

द्वितीये दोषान्तरमाह —

अनवस्थेति ।

बहिरेवाऽऽक्षेपं परिहरति —

न तावदिति ।

अज्ञात्वैव ब्रह्मणः सर्वभावोऽस्मदादेस्तु ज्ञानादिति शास्त्रार्थे वैरूप्यम् । न चास्मदादेरपि तदन्तरेण तद्भावः शास्त्रानर्थक्यात् ।

ज्ञानाद्ब्रह्मणः सर्वभावापक्षे स्वोक्तं दोषमाक्षेप्ता स्मारयति —

फलेति ।

स्वतोऽपरिच्छिन्नं ब्रह्माविद्यातत्कार्यसंबन्धात्परिच्छिन्नवद्भाति तन्निवृत्त्यौपाधिकं सर्वभावस्य साध्यत्वं न चानवस्था ज्ञेयान्तरानङ्गीकारान्नापि[स्व]क्रियाविरोधो विषयत्वमन्तरेण वाक्यीयबुद्धिवृत्तौ स्फुरणादिति परिहरति —

नैकोऽपीति ।

एतेन विद्यावैयर्थ्यमपि परिहृतमित्याह —

अर्थेति ।

यद्यपि ब्रह्मापरिच्छिन्नं नित्यसिद्धं तथाऽपि तत्राविद्यातत्कार्यध्वंसरूपस्यार्थविशेषस्य ज्ञानादुपपत्तेर्न तद्वैयर्थ्यमित्यर्थः ॥९॥