परस्य प्रवेशे प्राप्तां दोषपरम्परां पराकृत्य तत्प्रवेशस्वरूपं निरूपयति —
जलेति ।
यथा जले सूर्यादेः प्रतिबिम्बलक्षणः प्रवेशो दृश्यते तथाऽऽत्मनोऽपि सृष्टे कार्ये काल्पनिकः प्रवेश इत्यर्थः ।
अनवच्छिन्नाद्वयचिद्धातोर्वस्त्वन्तरेण सन्निकर्षासंभवान्न प्रतिबिम्बाख्यप्रवेशः संभवतीत्याशङ्क्य वस्त्वन्तरकल्पनया कल्पितसन्निकर्षाद्यादाय प्रतिबिम्बपक्षं साधयति —
आत्मेति ।
तदेव प्रपञ्चयति —
प्रागुत्पत्तेरित्यादिना ।
स्वाभिप्रेतं प्रवेशं प्रतिपाद्य परेष्टं पराचष्टे —
न त्विति ।
कुतश्चिद्दिशो देशात्कालाच्चापक्रमणेन दिगन्तरे देशान्तरे कालान्तरे च प्राप्तिलक्षण इति यावत् ।
यत्तु परस्मादन्यस्य प्रवेष्टृत्वमिति तत्राऽऽह —
न चेति ।
अथेदं प्रवेशादि वस्तुतो विद्यमानमस्तु किमित्याविद्यं कल्प्यते तत्राऽऽह —
उपलब्धीति ।
आत्मज्ञानार्थत्वेन प्रवेशादीनां कल्पितत्वात्तद्वाक्यानां न स्वार्थे पर्यवसानमित्यर्थः ।
फलवत्सन्निधावफलं तदङ्गमिति न्यायमाश्रित्योक्तमेव प्रपञ्चयति —
उपलब्धेरित्यादिना ।
ततःशब्दो भक्तियोगपरामर्शी । तदित्यात्मज्ञानमुच्यते ।
तस्याग्र्यत्वं साधयति —
प्राप्यते हीति ।
सृष्ट्यादिवाक्यानामैक्यज्ञानार्थत्वे हेत्वन्तरमाह —
भेदेति ।
कल्पितं प्रवेशं प्रतिपादितमुपसंहरति —
तस्मादिति ।