आत्मोपासनं विधेयमिति पक्षमुक्त्वा पक्षान्तरमाह —
अपर इति ।
तस्यानुपयोगमाशङ्क्याऽऽह —
तेनेति ।
शाब्दस्य ज्ञानस्यासंस्पृष्टापरोक्षात्मविषयत्वाभावमितिशब्देन हेतूकरोति ।
ज्ञानान्तरं वेदान्तेषु विधेयमित्यत्र मानमाह —
एतस्मिन्निति ।