आदिमध्यावसानानामविरोधमुक्त्वा कीर्तिमित्यादिवाक्यमवतार्य व्याकरोति —
गुणेत्यादिना ।
इतिशब्दादुपरिष्टाद्यथेत्यस्य संबन्धः । ज्ञानस्तुतिश्चात्र विवक्षिता ज्ञानिनामीदृक्फलस्यानभिलषितत्वादिति द्रष्टव्यम् ॥७॥