अनेनेत्यत्र वेदेति ज्ञानेनोपक्रम्यानुविन्देदिति लाभमुक्त्वा कीर्तिमित्यादिश्रुतौ पुनर्ज्ञानार्थेन विदिनोपसंहारादनुविन्देदिति श्रुतेरुपक्रमोपसंहारविरोधः स्यादिति शङ्कते —
नन्विति ।
शङ्कितं विरोधं निराकरोति —
नेति ।
कथं तयोरैकार्थ्यं ग्रामादौ तदेकत्वाप्रसिद्धेरित्याशङ्क्याऽऽह —
आत्मन इति ।
ग्रामादावप्राप्ते प्राप्तिरेव लाभो न ज्ञानमात्रं तथाऽत्रापि किं न स्यादित्याशङ्क्याऽऽह —
नेत्यादिना ।
ज्ञानलाभशब्दयोरर्थभेदस्तर्हि कुत्रेत्याशङ्क्याऽऽह —
यत्र हीति ।
अनात्मनि लब्धृलब्धव्ययोर्ज्ञातृज्ञेययोश्च भेदे क्रियाभेदात्फलभेदसिद्धिरित्यर्थः ।
नन्वात्मलाभोऽपि ज्ञानाद्भिद्यते लाभत्वादनात्मलाभवदित्याशङ्क्य ज्ञानहेतुमात्रानधीनत्वमुपाधिरित्याह —
स चेति ।
अप्राप्तत्वं व्यक्तीकरोति —
उत्पाद्येति ।
तद्व्यवधानमेव साधयति —
कारकेति ।
किञ्चानात्मलाभोऽविद्याकल्पितः कादाचित्कत्वात्सम्मतवदित्याह —
स त्विति ।
किञ्चासावविद्याकल्पितोऽप्रामाणिकत्वात्संप्रतिपन्नवदित्याह —
मिथ्येति ।
प्रकृते विशेषं दर्शयति —
अयं त्विति ।
वैपरीत्यमेव स्फोरयति —
आत्मत्वादिति ।
आत्मनस्तर्हि नित्यलब्धत्वान्न तत्रालब्धत्वबुद्धिः स्यादित्याशङ्क्याऽऽह —
नित्येति ।
आत्मन्यलाभोऽज्ञानं लाभस्तु ज्ञानमित्येतद्दृष्टान्तेन स्पष्टयति —
यथेत्यादिना ।
शुक्तिकायाः स्वरूपेण गृह्यमाणाया अपीति योजना ।
आत्मलाभोऽविद्यानिवृत्तिरेवेत्यत्रोक्तं वक्ष्यमाणं च गमकं दर्शयति —
तस्मादिति ।
अविरोधमुपसंहरति —
तस्मादित्यादिना ।
तयोरेकार्थत्वेऽपि कथमनुविन्देति मध्ये प्रयुज्यते —
तत्राऽऽह –
विन्दतेरिति ।