आत्मैव ज्ञातव्यो नानात्मेति प्रतिज्ञायामत्र हीत्यादिना हेतुरुक्तः संप्रति तदेतत्पदनीयमित्यादिवाक्यापोह्यं चोद्यमुत्थापयति —
अनिर्ज्ञातत्वेति ।
उत्तरमाह —
अत्रेति ।
निर्धारणमेव स्फोरयति —
अस्मिन्निति ।
नान्यदित्युक्तत्वादनात्मनो विज्ञातव्यत्वाभावश्चेदनेन हीत्यादिशेषविरोधः स्यादिति शङ्कते —
किं नेति ।
तस्याज्ञेयत्वं निषेधति —
नेति ।
तस्यापि ज्ञातव्यत्वे नान्यदिति वचनमनवकाशमित्याह —
किं तर्हीति ।
तस्य सावकाशत्वं दर्शयति —
ज्ञातव्यत्वेऽपीति ।
आत्मनः सकाशादनात्मनोऽर्थान्तरत्वात्तस्याऽऽत्मज्ञानाज्ज्ञातव्यत्वायोगाज्ज्ञातव्यत्वे ज्ञानान्तरमपेक्षितव्यमेवेति शङ्कते —
कस्मदिति ।
उत्तरवाक्येनोत्तरमाह —
अनेनेति ।
आत्मन्यानात्मजातस्य कल्पितत्वात्तस्य तदतिरिक्तस्वरूपाभावात्तज्ज्ञानेनैव ज्ञातत्वसिद्धेर्नास्ति ज्ञानान्तरापेक्षेत्यर्थः ।
लोकदृष्टिमाश्रित्यानेनेत्यादिवाक्यार्थमाक्षिपति —
नन्विति ।
आत्मकार्यत्वादनात्मनस्तस्मिन्नन्तर्भावात्तज्ज्ञानेन ज्ञानमुचितमिति परिहरति —
अस्येति ।
सत्योपायाभावादात्मतत्त्वस्य पदनीयत्वासिद्धिरिति शङ्कते —
कथमिति ।
असत्यस्यापि श्रुत्याचार्यादेरर्थक्रियाकारित्वसंभवादात्मतत्त्वस्य पदनीयत्वोपपत्तिरित्याह —
उच्यत इति ।
विवित्सितं लब्धुमिष्टम् । अन्वेषणोपायत्वं दर्शयितुं पदेनेति पुनरुक्तिः ।