हिरण्यगर्भस्य नोपदेशजन्यज्ञानाद्ब्रह्मभावः ‘सहसिद्धं चतुष्ट्यम्’ इति स्मृतेः । स्वाभाविकज्ञानवत्त्वात्तस्मात्तत्सर्वमभवदिति चोपदेशाधीनधीसाध्योऽसौ श्रुतौ । न चाऽऽसीदित्यतीतकालावच्छेदस्त्रिकाले तस्मिन्युज्यते । समवर्ततेति च जन्ममात्रं श्रूयते । कालात्मके तत्संबन्धस्य स्वाश्रयपराहतत्वान्मनुष्याणां प्रकृतत्वाच्च नापरं ब्रह्मेह ब्रह्मशब्दमित्यपरितोषाद्वृत्तिकारमतं हित्वा ब्रह्मेति ब्रह्मभावी पुरुषो निर्दिश्यत इति भर्तृप्रपञ्चोक्तिमाश्रित्य तन्मतमाह —
मनुष्येति ।
तदेव प्रपञ्चयति —
सर्वमित्यादिना ।
द्वैतकत्वं सर्वजगदात्मकमपरं हिरण्यगर्भाख्यं ब्रह्म तस्मिन्विद्या हिरण्यगर्भोऽहमित्यहङ्ग्रहोपास्तिस्तस्या समुच्चितया तद्भावमिहैवोपगतो हिरण्यगर्भपदे यद्भोज्यं ततोऽपि दोषदर्शनाद्विरक्तः सर्वकर्मफलप्राप्त्या निवृत्तिकामादिनिगडः साध्यान्तराभावाद्विद्यामेवार्थयमानस्तद्वशाद्ब्रह्मभावी जीवोऽस्मिन्वाक्ये ब्रह्मशब्दार्थ इति फलितमाह —
अत इति ।
कथं ब्रह्मभाविनि जीवे ब्रह्मशब्दस्य प्रवृत्तिरित्याशङ्क्याऽऽह —
दृष्टश्चेति ।
आदिशब्देन “गृहस्थः सदृशीं भार्यां विन्देते”(गौ.ध.सू.१.४.३)त्यादि गृह्यते । इहेति प्रकृतवाक्यकथनम् ।