बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥
मनुष्याधिकाराद्वा तद्भावी ब्राह्मणः स्यात् ; ‘सर्वं भविष्यन्तो मनुष्या मन्यन्ते’ इति हि मनुष्याः प्रकृताः ; तेषां च अभ्युदयनिःश्रेयससाधने विशेषतोऽधिकार इत्युक्तम् , न परस्य ब्रह्मणो नाप्यपरस्य प्रजापतेः ; अतो द्वैतैकत्वापरब्रह्मविद्यया कर्मसहितया अपरब्रह्मभावमुपसम्पन्नो भोज्यादपावृत्तः सर्वप्राप्त्योच्छिन्नकामकर्मबन्धनः परब्रह्मभावी ब्रह्मविद्याहेतोर्ब्रह्मेत्यभिधीयते ; दृष्टश्च लोके भाविनीं वृत्तिमाश्रित्य शब्दप्रयोगः — यथा ‘ओदनं पचति’ इति, शास्त्रे च — ‘परिव्राजकः सर्वभूताभयदक्षिणाम्’ ( ? ) इत्यादि, तथा इह - इति केचित् — ब्रह्म ब्रह्मभावी पुरुषो ब्राह्मणः इति व्याचक्षते ॥

हिरण्यगर्भस्य नोपदेशजन्यज्ञानाद्ब्रह्मभावः ‘सहसिद्धं चतुष्ट्यम्’ इति स्मृतेः । स्वाभाविकज्ञानवत्त्वात्तस्मात्तत्सर्वमभवदिति चोपदेशाधीनधीसाध्योऽसौ श्रुतौ । न चाऽऽसीदित्यतीतकालावच्छेदस्त्रिकाले तस्मिन्युज्यते । समवर्ततेति च जन्ममात्रं श्रूयते । कालात्मके तत्संबन्धस्य स्वाश्रयपराहतत्वान्मनुष्याणां प्रकृतत्वाच्च नापरं ब्रह्मेह ब्रह्मशब्दमित्यपरितोषाद्वृत्तिकारमतं हित्वा ब्रह्मेति ब्रह्मभावी पुरुषो निर्दिश्यत इति भर्तृप्रपञ्चोक्तिमाश्रित्य तन्मतमाह —

मनुष्येति ।

तदेव प्रपञ्चयति —

सर्वमित्यादिना ।

द्वैतकत्वं सर्वजगदात्मकमपरं हिरण्यगर्भाख्यं ब्रह्म तस्मिन्विद्या हिरण्यगर्भोऽहमित्यहङ्ग्रहोपास्तिस्तस्या समुच्चितया तद्भावमिहैवोपगतो हिरण्यगर्भपदे यद्भोज्यं ततोऽपि दोषदर्शनाद्विरक्तः सर्वकर्मफलप्राप्त्या निवृत्तिकामादिनिगडः साध्यान्तराभावाद्विद्यामेवार्थयमानस्तद्वशाद्ब्रह्मभावी जीवोऽस्मिन्वाक्ये ब्रह्मशब्दार्थ इति फलितमाह —

अत इति ।

कथं ब्रह्मभाविनि जीवे ब्रह्मशब्दस्य प्रवृत्तिरित्याशङ्क्याऽऽह —

दृष्टश्चेति ।

आदिशब्देन “गृहस्थः सदृशीं भार्यां विन्देते”(गौ.ध.सू.१.४.३)त्यादि गृह्यते । इहेति प्रकृतवाक्यकथनम् ।