भर्तृप्रपञ्चव्याख्यानं दूषयति —
तन्नेति ।
ब्रह्मशब्देन परस्मादर्थान्तरस्य ग्रहे तस्य सर्वभावापत्तेः साध्यत्वादनित्यत्वापत्तेर्न तन्मतमुचितमित्यर्थः ।
साध्यस्यापि मोक्षस्य नित्यत्वमाशङ्क्य यत्कृतकं तदनित्यमिति न्यायमाश्रित्याऽऽह —
न हीति ।
सामान्यन्यायं प्रकृते योजयति —
तथेति ।
भवतु सर्वभावापत्तेरनित्यत्वं का हानिस्तत्राऽऽह —
अनित्यत्वे चेति ।
किञ्च जीवस्याब्रह्मत्वं तवाविद्याकृतं पारमार्थिकं वेति विकल्प्याऽऽद्यमनूद्य दूषयति —
अविद्याकृतेति ।
तत्रानुवादभागं विभजते —
प्रागित्यादिना ।
ब्रह्मभाविपुरुषकल्पना व्यर्थेत्युक्तं व्यक्तीकरोति —
तदेति ।
तस्मिन्पक्षे यद्ब्रह्मज्ञानात्पूर्वमपि परमार्थतः परं ब्रह्माऽऽसीत्तदेव प्रकृते वाक्ये ब्रह्मशब्देनोच्यत इति युक्तं वक्तुं तद्धि ब्रह्मशब्दस्य मुख्यमालम्बनमिति योजना ।
गौर्बाहीक इतिवदमुख्यार्थोऽपि ब्रह्मशब्दो निर्वहतीत्याशङ्क्याऽऽह —
यथेति ।
निरतिशयमहत्त्वसंपन्नं वस्तु ब्रह्मशब्देन श्रुतमश्रुतस्तु ब्रह्मभावी पुरुषः श्रुतहान्या चाश्रुतकल्पना न न्यायवती तस्मात्तत्कल्पना न युक्तेतिव्यावर्त्यमाह —
नत्विति ।
अग्निरधीतेऽनुवाकमित्यादौ श्रुतहान्याऽश्रुतोपादानं दृष्टमित्याशङ्क्याऽऽह —
महत्तर इति ।
तत्राग्निशब्दस्य मुख्यार्थत्वे सत्यन्विताभिधानानुपपत्त्या वाक्यार्थासिद्धेस्तज्ज्ञाने प्रयोजने श्रुतमपि हित्वाऽश्रुतं गृह्यते प्रकृते त्वसति प्रयोजनविशेषे श्रुतहान्यादिर्न युक्तिमतीत्यर्थः । मनुष्याधिकारं निर्वोढुं ब्रह्मभाविपुरुषकल्पनेत्याशङ्क्य महत्तरविशेषणम् । यद्ब्रह्मविद्ययेति परस्यापि तुल्यमधिकृतत्वं तस्य चाविद्याद्वाराऽधिकारित्वमविरुद्धमित्यग्रे स्फुटीभविष्यतीति भावः ।
द्वितीयं कल्पमुत्थापयति —
अविद्येति ।
ब्रह्मविद्यावैयर्थ्यप्रसंगान्मैवमिति दूषयति —
न तस्येति ।
अनुपपत्तिमेव साधयति —
न हीति ।
साक्षादारोपमन्तरेणेति यावत् । वस्तुधर्मस्य परमार्थभूतस्य पदार्थस्येत्यर्थः ।
विद्यायास्तर्हि कथमर्थवत्त्वं साधयति —
न हीति ।
साक्षादारोपमन्तरेणेति यावत् । वस्तुधर्मस्य परमार्थभूतस्य पदार्थस्येत्यर्थः ।
विद्यायास्तर्हि कथमर्थवत्त्वं तत्राऽऽह —
अविद्यायास्त्विति ।
सर्वत्र शुक्त्यादाविति यावत् ।
विमतमविद्यात्मकं विद्यानिवर्त्यत्वाद्रजतादिवदित्यभिप्रेत्य दार्ष्टान्तिकमाह —
तथेति ।
विमतं न कारकं विद्यात्वाच्छुक्तिविद्यावदित्याशयेनाऽऽह —
न त्विति ।
अब्रह्मत्वादेर्वास्तवत्वायोगादयुक्ता ब्रह्मभाविपुरुषकल्पनेत्युपसंहरति —
तस्मादिति ।