बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥
ब्रह्मण्यविद्यानुपपत्तिरिति चेत् , न, ब्रह्मणि विद्याविधानात् । न हि शुक्तिकायां रजताध्यारोपणेऽसति शुक्तिकात्वं ज्ञाप्यते - चक्षुर्गोचरापन्नायाम् — ‘इयं शुक्तिका न रजतम्’ इति । तथा ‘सदेवेदं सर्वम्’ (छा. उ. ६ । ८ । ७) ‘ब्रह्मैवेदं सर्वम्’ ‘आत्मैवेदं सर्वम्’ (छा. उ. ७ । २५ । २)‘नेदं द्वैतमस्त्यब्रह्म’ ( ? ) इति ब्रह्मण्येकत्वविज्ञानं न विधातव्यम् , ब्रह्मण्यविद्याध्यारोपणायामसत्याम् । न ब्रूमः — शुक्तिकायामिव ब्रह्मण्यतद्धर्माध्यारोपणा नास्तीति ; किं तर्हि न ब्रह्म स्वात्मन्यतद्धर्माध्यारोपनिमित्तम् अविद्याकर्तृ चेति - भवत्येवं नाविद्याकर्तृ भ्रान्तं च ब्रह्म । किन्तु नैव अब्रह्म अविद्यकर्ता चेतनो भ्रान्तोऽन्य इष्यते — ‘नान्योऽतोऽस्ति विज्ञाता’ (बृ. उ. ३ । ७ । २३) ‘नान्यदतोऽस्ति विज्ञातृ’ (बृ. उ. ३ । ८ । ११) ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) ‘आत्मानमेवावेत् अहं ब्रह्मास्मि’ (बृ. उ. १ । ४ । १०) ‘अन्योऽसावन्योऽहमस्मीति, न स वेद’ (बृ. उ. १ । ४ । १०) इत्यादिश्रुतिभ्यः ; स्मृतिभ्यश्च — ‘समं सर्वेषु भूतेषु’ (भ. गी. १३ । २७) ‘अहमात्मा गुडाकेश’ (भ. गी. १० । २०) ‘शुनि चैव श्वपाके च’ (भ. गी. ५ । १८) ; ‘यस्तु सर्वाणि भूतानि’ (ई. उ. ६) ‘यस्मिन्सर्वाणि भूतानि’ (ई. उ. ७) इति च मन्त्रवर्णात् । नन्वेवं शास्त्रोपदेशानर्थक्यमिति ; बाढमेवम् , अवगते अस्त्वेवानर्थक्यम् । अवगमानर्थक्यमपीति चेत् , न, अनवगमनिवृत्तेर्दृष्टत्वात् । तन्निवृत्तेरप्यनुपपत्तिरेकत्व इति चेत् , न, दृष्टविरोधात् ; दृश्यते ह्येकत्वविज्ञानादेवानवगमनिवृत्तिः ; दृश्यमानमप्यनुपपन्नमिति ब्रुवतो दृष्टविरोधः स्यात् ; न च दृष्टविरोधः केनचिदप्यभ्युपगम्यते ; न च दृष्टेऽनुपपन्नं नाम, दृष्टत्वादेव । दर्शनानुपपत्तिरिति चेत् , तत्राप्येषैव युक्तिः ॥

ब्रह्मण्यविद्यानिवृत्तिर्विद्याफलमित्यत्र चोदयति —

ब्रह्मणीति ।

न हि सर्वज्ञे प्रकाशैकरसे ब्रह्मण्यज्ञानमादित्ये तमोवदुपपन्नमिति भावः ।

तस्याज्ञातत्वमज्ञत्वं वाऽऽक्षिप्यते ? नाऽऽद्य इत्याह —

न ब्राह्मणीति ।

नहि तत्त्वमसीति विद्याविधानं विज्ञाते ब्रह्मणि युक्तं पिष्टपिष्टिप्रसंगात् । अतस्तदज्ञातमेष्टव्यमित्यर्थः ।

ब्रह्मात्मैक्यज्ञानं शास्त्रेण ज्ञाप्यते तद्विषयं च श्रवणादि विधीयते तेन तस्मिन्नज्ञातत्वमेष्टव्यमित्युक्तमर्थं दृष्टान्तेन साधयति —

न हीति ।

मिथ्याज्ञानस्याज्ञानाव्यतिरेकाद्ब्रह्मण्यविद्याध्यारोपणायां शुक्तौ रूप्यारोपणं दृष्टान्तितमिति द्रष्टव्यम् ।

कल्पान्तरमालम्बते —

न ब्रूम इति ।

ब्रह्माविद्याकर्तृ न भवतीत्यस्य यथाश्रुतो वाऽर्थस्तदन्यस्तदाश्रयोऽस्तीति वा ? तत्राऽद्यमङ्गीकरोति —

भवत्विति ।

अनादित्वादविद्यायाः कर्त्रपेक्षाभावात् विना च द्वारं ब्रह्मणि भ्रान्त्यनभ्युपगमादित्यर्थः ।

द्वितीयं प्रत्याह —

किं त्विति ।

ब्रह्मणोऽन्यश्चेतनो नास्तीत्यत्र श्रुतिस्मृतीरुदाहरति —

नान्योऽतोऽस्तीत्यादिना ।

ब्रह्मणोऽन्योऽचेतनोऽपि नास्तीत्यत्र मन्त्रद्वयं पठति —

यस्त्विति ।

ब्रह्मणोऽन्यस्याज्ञस्याभावे दोषमाशङ्कते —

नन्विति ।

किमिदमानर्थक्यमवगतेऽनवगते वा चोद्यते तत्राऽऽद्यमङ्गीकरोति —

बाढमिति ।

द्वितीये नोपदेशानर्थक्यमवगमार्थत्वादिति द्रष्टव्यम् ।

उपदेशवदवगमस्यापि स्वप्रकाशे वस्तुनि नोपयोगोऽस्तीति शङ्कते —

अवगमेति ।

अनुभवमनुसृत्य परिहरति —

न । अनवगमेति ।

सा वस्तुनो भिन्ना चेदद्वैतहानिरभिन्ना चेज्ज्ञानाधीनत्वासिद्धिरिति शङ्कते —

तन्निवृत्तेरिति ।

अनवगमनिवृत्तेर्दृश्यमानतया स्वरूपापलापायोगात्प्रकारान्तरासंभवाच्च पञ्चमप्रकारत्वमेष्टव्यमिति मत्वाऽऽह —

न दृष्टेति ।

दृष्टमपि युक्तिविरोधे त्याज्यमित्याशङ्क्याऽऽह —

दृश्यमानमिति ।

दृष्टविरुद्धमपि कुतो नेष्यते तत्राऽऽह —

न चेति ।

अनुपपन्नत्वमङ्गीकृत्योक्तम् , तदेव नास्तीत्याह —

न चेति ।

युक्तिविरोधे दृष्टिराभासीभावतीति शङ्कते —

दर्शनेति ।

दृष्टिविरोधे युक्तेरेवाऽभासत्वं स्यादिति परिहरति —

तत्रापीति ।

अनुपपन्नत्वं हि सर्वस्य दृष्टिबलादिष्टं दृष्टस्य त्वनुपपन्नत्वे न किञ्चिन्निमित्तमस्तीत्यर्थः ।