बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥
‘पुण्यो वै पुण्येन कर्मणा भवति’ (बृ. उ. ३ । २ । १३) ‘तं विद्याकर्मणी समन्वारभेते’ (बृ. उ. ४ । ४ । २) ‘मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः’ (प्र. उ. ४ । ९) इत्येवमादिश्रुतिस्मृतिन्यायेभ्यः परस्माद्विलक्षणोऽन्यः संसार्यवगम्यते ; तद्विलक्षणश्च परः ‘स एष नेति नेति’ (बृ. उ. २ । ३ । ६) ‘अशनायाद्यत्येति’ (बृ. उ. ३ । ५ । १) ‘य आत्मापहतपाप्मा विजरो विमृत्युः’ (छा. उ. ८ । ७ । १) ‘एतस्य वा अक्षरस्य प्रशासने’ (बृ. उ. ३ । ८ । ९) इत्यादिश्रुतिभ्यः ; कणादाक्षपादादितर्कशास्त्रेषु च संसारिविलक्षण ईश्वर उपपत्तितः साध्यते ; संसारदुःखापनयार्थित्वप्रवृत्तिदर्शनात् स्फुटमन्यत्वम् ईश्वरात् संसारिणोऽवगम्यते ; ‘अवाक्यनादरः’ (छा. उ. ३ । ४ । २) ‘न मे पार्थास्ति’ (भ. गी. ३ । ३२) इति श्रुतिस्मृतिभ्यः ; ‘सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ (छा. उ. ८ । ७ । १) ‘तं विदित्वा न लिप्यते’ (बृ. उ. ४ । ४ । २३) ‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) ‘एकधैवानुद्रष्टव्यमेतत्’ (बृ. उ. ४ । ४ । २०) ‘यो वा एतदक्षरं गार्ग्यविदित्वा’ (बृ. उ. ३ । ८ । १०) ‘तमेव धीरो विज्ञाय’ (बृ. उ. ४ । ४ । २१) ‘प्रणवो धनुः, शरो ह्यात्मा, ब्रह्म तल्लक्ष्यमुच्यते’ (मु. उ. २ । २ । ४) इत्यादिकर्मकर्तृनिर्देशाच्च ; मुमुक्षोश्च गतिमार्गविशेषदेशोपदेशात् ; असति भेदे कस्य कुतो गतिः स्यात् ? तदभावे च दक्षिणोत्तरमार्गविशेषानुपपत्तिः गन्तव्यदेशानुपपत्तिश्चेति ; भिन्नस्य तु परस्मात् आत्मनः सर्वमेतदुपपन्नम् ; कर्मज्ञानसाधनोपदेशाच्च — भिन्नश्चेद्ब्रह्मणः संसारी स्यात् , युक्तस्तं प्रत्यभ्युदयनिःश्रेयससाधनयोः कर्मज्ञानयोरुपदेशः, नेश्वरस्य आप्तकामत्वात् ; तस्माद्युक्तं ब्रह्मेति ब्रह्मभावी पुरुष उच्यत इति चेत् — न, ब्रह्मोपदेशानर्थक्यप्रसङ्गात् — संसारी चेद्ब्रह्मभावी अब्रह्म सन् , विदित्वात्मानमेव अहं ब्रह्मास्मीति, सर्वमभवत् ; तस्य संसार्यात्मविज्ञानादेव सर्वात्मभावस्य फलस्य सिद्धत्वात्परब्रह्मोपदेशस्य ध्रुवमानर्थक्यं प्राप्तम् । तद्विज्ञानस्य क्वचित्पुरुषार्थसाधनेऽविनियोगात्संसारिण एव — अहं ब्रह्मास्मीति — ब्रह्मत्वसम्पादनार्थ उपदेश इति चेत् — अनिर्ज्ञाते हि ब्रह्मस्वरूपे किं सम्पादयेत् — अहं ब्रह्मास्मीति ? निर्ज्ञातलक्षणे हि ब्रह्मणि शक्या सम्पत्कर्तुम् — न ‘अयमात्मा ब्रह्म’ (बृ. उ. २ । ५ । १९) ‘यत्साक्षादपरोक्षाद्ब्रह्म’‘य आत्मा’ (बृ. उ. ३ । ४ । १) ‘तत्सत्यं स आत्मा’ (छा. उ. ६ । ८ । ७) ‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) इति प्रकृत्य ‘तस्माद्वा एतस्मादात्मनः’ (तै. उ. २ । १ । १) इति सहस्रशो ब्रह्मात्मशब्दयोः सामानाधिकरण्यात् एकार्थत्वमेवेत्यवगम्यते ; अन्यस्य वै अन्यत्र सम्पत् क्रियते, नैकत्वे ; ‘इदं सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६) इति च प्रकृतस्यैव द्रष्टव्यस्यात्मन एकत्वं दर्शयति ; तस्मान्नात्मनो ब्रह्मत्वसम्पदुपपत्तिः । न चाप्यन्यत्प्रयोजनं ब्रह्मोपदेशस्य गम्यते ; ‘ब्रह्म वेद ब्रह्मैव भवति’ (मु. उ. ३ । २ । ९) ‘अभयं हि जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४) ‘अभयं हि वै ब्रह्म भवति’ (बृ. उ. ४ । ४ । २५) इति च तदापत्तिश्रवणात् । सम्पत्तिश्चेत् , तदापत्तिर्न स्यात् । न ह्यन्यस्यान्यभाव उपपद्यते । वचनात् , सम्पत्तेरपि तद्भावापत्तिः स्यादिति चेत् , न, सम्पत्तेः प्रत्ययमात्रत्वात् । विज्ञानस्य च मिथ्याज्ञाननिवर्तकत्वव्यतिरेकेणाकारकत्वमित्यवोचाम । न च वचनं वस्तुनः सामर्थ्यजनकम् । ज्ञापकं हि शास्त्रं न कारकमिति स्थितिः । ‘स एष इह प्रविष्टः’ (बृ. उ. १ । ४ । ७) इत्यादिवाक्येषु च परस्यैव प्रवेश इति स्थितम् । तस्माद्ब्रह्मेति न ब्रह्मभाविपुरुषकल्पना साध्वी । इष्टार्थबाधनाच्च — सैन्धवघनवदनन्तरमबाह्यमेकरसं ब्रह्म - इति विज्ञानं सर्वस्यामुपनिषदि प्रतिपिपादयिषितार्थः — काण्डद्वयेऽप्यन्तेऽवधारणात् — अवगम्यते — ‘इत्यनुशासनम्’ (बृ. उ. २ । ५ । १९) ‘एतावदरे खल्वमृतत्वम्’ (बृ. उ. ४ । ५ । १५) इति ; तथा सर्वशाखोपनिषत्सु च ब्रह्मैकत्वविज्ञानं निश्चितोऽर्थः ; तत्र यदि संसारी ब्रह्मणोऽन्य आत्मानमेवावेत् — इति कल्प्येत, इष्टस्यार्थस्य बाधनं स्यात् , तथा च शास्त्रमुपक्रमोपसंहारयोर्विरोधादसमञ्जसं कल्पितं स्यात् । व्यपदेशानुपपत्तेश्च — यदि च ‘आत्मानमेवावेत्’ इति संसारी कल्प्येत, ‘ब्रह्मविद्या’ इति व्यपदेशो न स्यात् आत्मानमेवावेदिति, संसारिण एव वेद्यत्वोपपत्तेः । ‘आत्मा’ इति वेत्तुरन्यदुच्यत इति चेत् , न, ‘अहं ब्रह्मास्मि’ इति विशेषणात् ; अन्यश्चेद्वेद्यः स्यात् , ‘अयमसौ’ इति वा विशेष्येत, न तु ‘अहमस्मि’ इति । ‘अहमस्मि’ इति विशेषणात् ‘आत्मानमेवावेत्’ इति च अवधारणात् निश्चितम् आत्मैव ब्रह्मेति अवगम्यते ; तथा च सति उपपन्नो ब्रह्मविद्याव्यपदेशः, नान्यथा ; संसारिविद्या ह्यन्यथा स्यात् ; न च ब्रह्मत्वाब्रह्मत्वे ह्येकस्योपपन्ने परमार्थतः तमःप्रकाशाविव भानोः विरुद्धत्वात् ; न चोभयनिमित्तत्वे ब्रह्मविद्येति निश्चितो व्यपदेशो युक्तः, तदा ब्रह्मविद्या संसारिविद्या च स्यात् ; न च वस्तुनोऽर्धजरतीयत्वं कल्पयितुं युक्तं तत्त्वज्ञानविवक्षायाम् , श्रोतुः संशयो हि तथा स्यात् ; निश्चितं च ज्ञानं पुरुषार्थसाधनमिष्यते — ‘यस्य स्यादद्धा न विचिकित्सास्ति’ (छा. उ. ३ । १४ । ४) ‘संशयात्मा विनश्यति’ (भ. गी. ४ । ४०) इति श्रुतिस्मृतिभ्याम् । अतो न संशयितो वाक्यार्थो वाच्यः परहितार्थिना ॥

पुण्य इति ; तद्विलक्षणश्चेति ; कणादेति ; संसारेति ; अवाकीति ; सोऽन्वेष्टव्य इति ; मुमुक्षोश्चेति ; असतीति ; तदभावे चेति ; भिन्नस्येति ; कर्मेति ; भिन्नश्चेदिति ; तस्मादिति ; नेत्यादिना ; संसारी चेदिति ; तद्विज्ञानस्येति ; संसारिण इति ; अनिर्ज्ञाते हीति ; निर्ज्ञातेति ; नेत्यादिना ; अन्यस्य हीति ; इदमिति ; तस्मादिति ; न चेति ; संपत्तिश्चेदिति ; वचनादिति ; विज्ञानस्येति ; न चेति ; स एष इति ; इष्टार्थेति ; सैन्धवेति ; काण्डद्वयेऽपीति ; इत्यनुशासनमिति ; एतावदिति ; तथेति ; तत्रेति ; तथा चेति ; व्यपदेशानुपपत्तेश्चेति ; आत्मेतीति ; नाहमिति ; अन्यश्चेति ; तथा च सतीति ; संसारीति ; न चेति ; न चेति ; तदेति ; न चेति ; श्रोतुरिति ; निश्चितञ्चेति ; अत इति ;

ब्रह्मभाविपुरुषकल्पनां निराकृत्य स्वपक्षे शास्त्रस्यार्थवत्त्वमुक्तं संप्रति प्रकारान्तरेण पूर्वपक्षयति —

पुण्य इति ।

आदिशब्देन ‘योऽयं विज्ञानमयः प्राणेषु’(बृ. उ. ४ । ३ । ७) इत्याद्या श्रुतिर्गृह्यते । ‘कुरु कर्मैव तस्मात्त्वम्’ (भ. गी. ४ । १५) इत्याद्या स्मृतिः । न्यायो मिथो विरुद्धयोरेकत्वायोगः । विलक्षणत्वमन्यत्वे हेतुः ।

जीवस्य परस्मादन्यत्वेऽपि न तस्य ततोऽन्यत्वमित्याशङ्क्याऽऽह —

तद्विलक्षणश्चेति ।

परस्य तद्विलक्षणत्वं श्रुतितो दर्शयित्वा तत्रैवोपपत्तिमाह —

कणादेति ।

क्षित्यादिकमुपलद्भिमत्कर्तृकं कार्यत्वाद्घटवदित्याद्योपपत्तिः ।

तयोर्मिथो भेदे हेत्वन्तरमाह —

संसारेति ।

जीवस्य स्वगतदुःखध्वंसे दुःखं मे मा भूदित्यर्थित्वेन प्रवृत्तिर्दृष्टा नेशस्य साऽस्ति दुःखाभावादतो भेदस्तयोरित्यर्थः ।

इतश्चेश्वरस्य न प्रवृत्तिर्हेतुफलयोरभावादित्याह —

अवाकीति ।

मिथो भेदे श्रौतं लिङ्गान्तरमाह —

सोऽन्वेष्टव्य इति ।

तत्रैव लिङ्गान्तरमाह —

मुमुक्षोश्चेति ।

गतिर्देवयानाख्या तस्या मार्गविशेषोऽर्चिरादिर्देशो गन्तव्यं ब्रह्म तेषामुपदेशा”स्तेऽर्चिषमभिसंभवन्ती”त्यादयस्तथाऽपि कथं भेदसिद्धिस्तत्राऽऽह —

असतीति ।

मा भूद्गतिरित्याशङ्क्याऽऽह —

तदभावे चेति ।

कथं तर्हि गत्यादिकमुपपद्यते तत्राऽऽह —

भिन्नस्येति ।

जीवेश्वरयोर्मिथो भेदे हेत्वन्तरमाह —

कर्मेति ।

भेदे सत्युपपन्ना भवन्तीति शेषः ।

तदेव स्फुटयति —

भिन्नश्चेदिति ।

तद्भेदे प्रामाणिकेऽपि कथं ब्रह्मभाविपुरुषकल्पनेत्याशङ्क्योपसंहरति —

तस्मादिति ।

ब्रह्मभाविनो जीवस्य ब्रह्मशब्दवाच्यत्वे ब्रह्मोपदेश्याऽनर्थक्यप्रसंगान्नैवमिति दूषयति —

नेत्यादिना ।

प्रसंगमेव प्रकटयति —

संसारी चेदिति ।

विधिशेषत्वेन ब्रह्मोपदेशोऽर्थवानिति चेत्तत्र किं कर्मविधिशेषत्वेनोपास्तिविधिशेषत्वेन वा तदर्थवत्त्वमिति विकल्याऽऽद्यं दूषयति —

तद्विज्ञानस्येति ।

अविनियोगाद्विनियोजकश्रुत्याद्यभावादिति शेषः ।

कल्पान्तरमादत्ते —

संसारिण इति ।

उपदेशस्य ज्ञानार्थत्वात्तदनपेक्षत्वाच्च संपत्तेस्तस्य कथं तादर्थ्यमित्याशङ्क्याऽऽह —

अनिर्ज्ञाते हीति ।

व्यतिरेकमुक्त्वाऽन्वयमाचष्टे —

निर्ज्ञातेति ।

पदयोः सामानाधिकरण्येन जीवब्रह्मणोरभेदावगमान्न संपत्पक्षः संभवतीति समाधत्ते —

नेत्यादिना ।

कथमेकत्वे गम्यमानेऽपि संपदोऽनुपपत्तिरित्याशङ्क्याऽऽह —

अन्यस्य हीति ।

एकत्वे हेत्वन्तरमाह —

इदमिति ।

एकत्वे फलितमाह —

तस्मादिति ।

किञ्च संपत्तिपक्षे तदापत्तिः फलमन्यद्वेति विकल्प्य द्वितीयं प्रत्याह —

न चेति ।

आद्यं दूषयति —

संपत्तिश्चेदिति ।

’तं यथा यथे’त्यादिवाक्यमाश्रित्य शङ्कते —

वचनादिति ।

संपत्तेरमानत्वान्न तद्बलादन्यस्यान्यत्वमित्याह – श्रुतिश्च न पूर्वसिद्धसूत्रादिभावाभिधायिनी तत्सादृश्याप्त्या तद्भावोपचारादतो ब्रह्मभावः स्वतः सिद्धो न साम्पादिक इत्याह —

विज्ञानस्येति ।

अथान्यस्यान्यभावे यथोक्तं वचनमेव शक्त्याध्यायकमित्याशङ्क्याऽह —

न चेति ।

ब्रह्मोपदेशानर्थक्यप्रसंगान्न ब्रह्मभाविपुरुषकल्पनेत्युक्त्वा तत्रैव हेत्वन्तरमाह —

स एष इति ।

ब्रह्मोपदेशस्य संपच्छेषत्वे दोषान्तरमाह —

इष्टार्थेति ।

तदेव विवृण्वन्निष्टमर्थमाचष्टे —

सैन्धवेति ।

यथोक्तं वस्तु तात्पर्यगम्यमस्यामुपनिषदीत्यत्र हेतुमाह —

काण्डद्वयेऽपीति ।

मधुकाण्डावसानगतमवधारणं दर्शयति —

इत्यनुशासनमिति ।

मुनिकाण्डान्ते व्यवस्थितमुदाहरति —

एतावदिति ।

न केवलमुपदेशस्य संपच्छेषत्वे बृहदारण्यकविरोधः किन्तु सर्वोपनिषद्विरोधोऽस्तीत्याह —

तथेति ।

इष्टमर्थमित्थमुक्त्वा तद्बाधनं निगमयति —

तत्रेति ।

ननु बृहदारण्यके ब्रह्मकण्डिकायां जीवपरयोर्भेदोऽभिप्रेत उपसंहारे त्वभेद इति व्यवस्थायां तद्विरोधः शक्यः समाधातुमित्यत आह —

तथा चेति ।

ब्रह्मभाविपुरुषकल्पनायामुपदेशानर्थक्यमिष्टार्थबाधश्चेत्युक्तमिदानीं ब्रह्मेत्यादिवाक्ये ब्रह्मशब्देन परस्याग्रहणे तद्विद्याया ब्रह्मविद्येति संज्ञानुपपत्तिं दोषान्तरमाह —

व्यपदेशानुपपत्तेश्चेति ।

अत्रोक्तब्रह्मशब्दार्थाद्वेदितुर्जीवादन्यस्तदात्मानमित्यत्राऽऽत्मशब्देन परो गृह्यते तद्विद्या च ब्रह्मविद्येति संज्ञासिद्धिरिति शङ्कते —

आत्मेतीति ।

वाक्यशेषविरोधान्नैवमित्याह —

नाहमिति ।

तदेव प्रपञ्चयति —

अन्यश्चेति ।

यथोक्तावगमे फलितमाह —

तथा च सतीति ।

अत्यन्तभेदे व्यपदेशानुपपत्तिं विशदयति —

संसारीति ।

जीवब्रह्मणोर्भेदाभेदोपगमादभेदेन ब्रह्मविद्येति व्यपदेशः सेत्स्यतीत्याशङ्क्याऽऽह —

न चेति ।

स्यातां वा ब्रह्मात्मनोर्भेदाभेदौ तथाऽपि भिन्नाभिन्नविद्यायां ब्रह्मविद्येति नियतो व्यपदेशो न स्यादित्याह —

न चेति ।

निमित्तं विषयः ।

भिन्नाभिन्नविषया विद्या ब्रह्मविषयापि भवत्येवेति व्यपदेशसिद्धिमाशङ्क्याऽऽह —

तदेति ।

उभयात्मकत्वाद्वस्तुनस्तद्विद्याऽपि तथेति विकल्पोपपत्तिमाशङ्क्याऽऽह —

न चेति ।

अस्तु तर्हि वस्तु ब्रह्म वाऽब्रह्म वा वैकल्पिकमित्याशङ्क्याऽऽह —

श्रोतुरिति ।

संशयितमपि ज्ञानं वाक्यादुत्पद्यते चेत्तावतैव पुरुषार्थः श्रोतुः सिद्ध्यतीत्याशङ्क्याऽऽह —

निश्चितञ्चेति ।

श्रोतुर्निश्चितज्ञानस्य फलवत्त्वेऽपि वक्तुः संशयितमर्थं वदतो न काचन हानिरित्याशङ्क्याऽऽह —

अत इति ।

निश्चितस्यैव ज्ञानस्य पुमर्थसाधनत्वं न संशयितस्येत्यतःशब्दार्थः ।