बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥
ब्रह्मणि साधकत्वकल्पनास्मदादिष्विव, अपेशला — ‘तदात्मानमेवावेत्तस्मात्तत्सर्वमभवत्’ इति — इति चेत् , न, शास्त्रोपालम्भात् ; न ह्यस्मत्कल्पनेयम् ; शास्त्रकृता तु ; तस्माच्छास्त्रस्यायमुपालम्भः ; न च ब्रह्मण इष्टं चिकीर्षुणा शास्त्रार्थविपरीतकल्पनया स्वार्थपरित्यागः कार्यः । न चैतावत्येवाक्षमा युक्ता भवतः ; सर्वं हि नानात्वं ब्रह्मणि कल्पितमेव ‘एकधैवानुद्रष्टव्यम्’ (बृ. उ. ४ । ४ । २०) ‘नेह नानास्ति किञ्चन’ (बृ. उ. ४ । ४ । १९) ‘यत्र हि द्वैतमिव भवति’ (बृ. उ. ४ । ५ । १५) ‘एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्यादिवाक्यशतेभ्यः, सर्वो हि लोकव्यवहारो ब्रह्मण्येव कल्पितो न परमार्थः सन् — इत्यत्यल्पमिदमुच्यते — इयमेव कल्पनापेशलेति ॥

जीवपरयोरत्यन्तभेदस्य भेदाभेदयोश्चायोगात्परमेव ब्रह्म ब्रह्मशब्दवाच्यं न जीवस्तद्भावीत्युक्तं संप्रत्यत्यन्ताभेदपक्षे दोषमाशङ्कते —

ब्रह्मणीति ।

तदात्मानमेवावेदिति ज्ञातृत्वं ब्रह्मण्युच्यते तदयुक्तं तस्य ज्ञानमूर्तित्वादत एव न तत्कर्मत्वमपि । न च स्वकर्तृकर्मज्ञानान्मुक्तिः परस्य क्रियाकारकफलविलक्षणत्वादतो न परं ब्रह्म ब्रह्मशब्दितमित्यर्थः ।

शास्त्रं ब्रह्मणि साधकत्वादि दर्शयति तच्चापौरुषेयमदोषान्नोपालम्भार्हं तथा च तस्मिन्नविद्यं साधकत्वाद्यविरुद्धमिति समाधत्ते —

न शास्त्रेति ।

स चायुक्तस्तस्यापौरुषेयत्वेनासंभावितदोषत्वादिति शेषः ।

ननु ब्रह्मणो नित्यमुक्तत्वपरिरक्षणार्थं शास्त्रमप्युपालभ्यते । नेत्याह —

न चेति ।

शास्त्राद्धि ब्रह्मणो नित्यमुक्तत्वं गम्यते साधकत्वादिति च तस्य तेनैवोच्यते न चार्धजरतीयमुचितं तथा च वास्तवं नित्यमुक्तत्वं कल्पितमितरदित्यास्थेयम् । यदि तस्य नित्यमुक्तत्वार्थं सर्वथैव साधकत्वादि नेष्यते तदा स्वार्थपरित्यागः स्यात्साधकत्वादिना विनाऽभ्युदयनिःश्रेयसयोरसंभवात् । न च ब्रह्मणोऽन्यश्चेतनोऽचेतनो वाऽस्ति ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) ‘ब्रह्मैवेदं सर्वम्’ इत्यादिश्रुतेस्तस्माद्यथोका व्यवस्थाऽऽस्थेयेत्यर्थः ।

किञ्च सर्वस्यापि संसारस्य ब्रह्मण्यविद्ययाऽध्यासात्तदन्तर्भूतं साधकत्वाद्यपि तत्राध्यस्तमित्यभ्युपगमे काऽनुपपत्तिरित्याह —

न चेति ।

तस्य तस्मिन्कल्पितत्वं कुतोऽवगतमित्याशङ्क्याऽऽह —

एकधेति ।

उक्तश्रुतितात्पर्यं संकलयति —

सर्वो हीति ।

सर्वस्य द्वैतव्यवहारस्य ब्रह्मणि कल्पितत्वे प्रकृतचोद्यस्याऽऽभासत्वं फलतीत्याह —

अत्यल्पमिति ।