बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥
तस्मात् — यत्प्रविष्टं स्रष्टृ ब्रह्म, तद्ब्रह्म, वै - शब्दोऽवधारणार्थः, इदं शरीरस्थं यद्गृह्यते, अग्रे प्राक्प्रतिबोधादपि, ब्रह्मैवासीत् , सर्वं च इदम् ; किन्त्वप्रतिबोधात् ‘अब्रह्मास्मि असर्वं च’ इत्यात्मन्यध्यारोपात् ‘कर्ताहं क्रियावान्फलानां च भोक्ता सुखी दुःखी संसारी’ इति च अध्यारोपयति ; परमार्थस्तु ब्रह्मैव तद्विलक्षणं सर्वं च । तत् कथञ्चिदाचार्येण दयालुना प्रतिबोधितम् ‘नासि संसारी’ इति आत्मानमेवावेत्स्वाभाविकम् ; अविद्याध्यारोपितविशेषवर्जितमिति एव - शब्दस्यार्थः ॥

परपक्षं निराकृत्य स्वपक्षं दर्शयति —

तस्मादिति ।

तद्व्यतिरेकेण जगन्नास्तीति सूचयति —

वैशब्द इति ।

तत्पदार्थमुक्त्वा त्वम्पदार्थं कथयति —

इदमिति ।

तयोर्वस्तुतो भेदं शङ्कित्वा पदान्तरं व्याचष्टे —

प्रागिति ।

तस्यापरिच्छिन्नत्वमाह —

सर्वं चेति ।

कथं तर्हि विपरीतधीरित्याशङ्क्याऽऽह —

किन्त्विति ।

यथाप्रतिभासं कर्तृत्वादेर्वास्तवत्वमाशङ्क्य शास्त्रविरोधान्मैवमित्याह —

परमार्थतस्त्विति ।

तद्विलक्षणमध्यस्तसमस्तसंसाररहितमिति यावत् ।

किमु तद्ब्रह्मेति चोद्यं परिहृत्य किं तदवेदिति चोद्यन्तरं प्रत्याह —

तत्कथञ्चिदिति ।

पूर्ववाक्योक्तमविद्याविशिष्टमधिकारित्वेन व्यवस्थितं ब्रह्म नासि संसारीत्याचार्येण दयावता कथञ्चिद्बोधितमात्मानमेवावेदिति संबन्धः ।

आत्मैव प्रमेयस्तज्ञानमेव प्रमाणमित्येवमर्थत्वमेवकारस्य विवक्षन्नाह —

अविद्येति ।