प्रकृतमात्मशब्दार्थं विविच्य वक्तुं पृच्छति —
ब्रूहीति ।
स एष इह प्रविष्ट इत्यत्राऽऽत्मनो दर्शितत्वात्प्राणनादिलिङ्गस्य तस्य त्वयैवानुसन्धातुं सत्यत्वान्नास्ति वक्तव्यमित्याह —
नन्विति ।
आत्मानं प्रत्यक्षयितुं पृच्छतस्तत्परोक्षवचनमनुत्तरमिति शङ्कते —
नन्वसाविति ।
आत्मानञ्चेत्प्रत्यक्षयितुमिच्छसि तर्हि प्रत्यक्षमेव तं दर्शयामीत्याह —
एवं तर्हीति ।
नेदं प्रतिज्ञानुरूपं प्रतिवचनमिति चोदयति —
नन्वत्रेति ।
प्रत्यक्षत्वाद्दर्शनादिक्रियायास्तत्कर्तुः स्वरूपमपि तथेत्याशङ्क्याऽऽह —
न हीति ।
यदि दर्शनादिक्रियाकर्तृस्वरूपोक्तिमात्रेण जिज्ञासा नोपशाम्यति तर्हि दृष्ट्यादिसाक्षित्वेनाऽऽत्मोक्त्या तुष्यतु भवानित्याह —
एवं तर्हि दृष्टेरिति ।
पूर्वस्मात्प्रतिवचनादस्मिन्प्रतिवचने द्रष्टृविषयो विशेषो नास्तीति शङ्कते —
नन्विति ।
विशेषाभावं विशदयति —
यदीत्यादिना ।
घटस्य द्रष्टा दृष्टेर्द्रष्टेति विशेषे प्रतीयमाने तदभावोक्तिर्व्याहतेत्याशङ्क्याऽऽह —
द्रष्टव्य एवेति ।
तथा द्रष्टर्यपि विशेषो भविष्यतीत्याशङ्क्याऽऽह —
द्रष्टा त्विति ।
वृत्तिमदन्तःकरणावच्छिन्नः सविकारो घटद्रष्टा कूटस्थचिन्मात्रस्वभावः सन्निधिसत्तामात्रेण बुद्धितद्वृत्तीनां द्रष्टा दृष्टेर्द्रष्टेति विशेषमङ्गीकृत्य परिहरति —
नेत्यादिना ।
एतदेव स्फुटयति —
अस्तीति ।
सप्तमी द्रष्टारमधिकरोति ।
दृष्टेद्रष्टुस्तावदन्वयव्यतिरेकाभ्यां विशेषं विशदयति —
यो दृष्टेरिति ।
भवतु दृष्टिसद्भावे द्रष्टुः सदा तद्द्रष्टृत्वं तथाऽपि कथं कूटस्थदृष्टित्वमित्याशङ्क्याऽऽह —
तत्रेति ।
नित्यत्वमुपपादयति —
अनित्या चेदिति ।
उक्तपक्षपरामर्शार्था सप्तमी ।
कादाचित्के द्रष्टृदृश्यत्वे दृष्टान्तमाह —
यथेति ।
घटादिवद्दृष्टिरपि कदाचिदेव द्रष्ट्रा दृश्यते न सर्वदेत्यनिष्टापत्तिमाशङ्क्याऽऽह —
न चेति ।
विकार्णश्चित्तस्याद्रष्टृत्वं क्रमद्रष्टृत्वमन्यथाद्रष्टृत्वं च दृष्टं तत्साक्षिणो व्यावर्तमानं तस्य निर्विकारत्वं गमयतीति भावः ।
दृष्टिद्वयं प्रमाणाभावादश्लिष्टमिति शङ्कते —
किमिति ।
तदुभयमङ्गीकरोति —
बाढमिति ।
तत्रानित्यान् दृष्टिमनुभवेन साधयति —
प्रसिद्धेति ।
उक्तमर्थं युक्त्या व्यक्तीकरोति —
नित्यैवेति ।
संप्रति नित्यां दृष्टिं श्रुत्या समर्थयते —
द्रष्टुरिति ।
तत्रैवोपपत्तिमाह —
अनुमानाच्चेति ।
तदेव विवृणोति —
अन्धस्यापीति ।
जागरिते चक्षुरादिहीनस्यापि पुंसः स्वप्ने वासनामयघटादिविषया दृष्टिरुपलब्धा या च सा तस्मिन्काले चक्षुरादिजनितदृष्ट्यभावेऽपि स्वयमविनश्यन्त्यनुभूयते सा द्रष्टुः स्वभावभूता दृष्टिर्नित्यैष्टव्या । विमतं नित्यमव्यभिचारित्वात्परेष्टात्मवदिति प्रयोगोपपत्तिरित्यर्थः ।
नन्वात्मा दृष्टिस्तदभावश्चेत्कथं दृष्टेर्द्रष्टेत्युक्तमतमाह —
तथेति ।
नित्यत्वे हेतुः —
अविपरिलुप्तयेति ।
नित्यद्वयं परिहर्तुं स्वरूपभूतयेत्युक्तम् । तस्या दृष्ट्यन्तरापेक्षां वारयति —
स्वयमिति ।
उक्तमविपरिलुप्तत्वं व्यनक्ति —
इतरामिति ।
आत्मा दृष्टेर्द्रष्टेति स्थिते फलितमाह —
एवञ्चेति ।
अन्यश्चेतनोऽचेतनो वेति शेषः ।