बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥
तद्ब्रह्म आत्मानमेव नित्यदृग्रूपमध्यारोपितानित्यदृष्ट्यादिवर्जितमेव अवेत् विदितवत् । ननु विप्रतिषिद्धम् — ‘न विज्ञातेर्विज्ञातारं विजानीयाः’ (बृ. उ. ३ । ४ । २) इति श्रुतेः — विज्ञातुर्विज्ञानम् । न, एवं विज्ञानान्न विप्रतिषेधः ; एवं दृष्टेर्द्रष्टेति विज्ञायत एव ; अन्यज्ञानानपेक्षत्वाच्च — न च द्रष्टुर्नित्यैव दृष्टिरित्येवं विज्ञाते द्रष्टृविषयां दृष्टिमन्यामाकाङ्क्षते ; निवर्तते हि द्रष्टृविषयदृष्ट्याकाङ्क्षा तदसम्भवादेव ; न ह्यविद्यमाने विषये आकाङ्क्षा कस्यचिदुपजायते ; न च दृश्या दृष्टिर्द्रष्टारं विषयीकर्तुमुत्सहते, यतस्तामाकाङ्क्षेत ; न च स्वरूपविषयाकाङ्क्षा स्वस्यैव ; तस्मात् अज्ञानाध्यारोपणनिवृत्तिरेव आत्मानमेवावेदित्युक्तम् , नात्मनो विषयीकरणम् ॥

नित्यदृष्टिस्वभावमात्मपदार्थं परिशोध्य श्रुत्यक्षराणि योजयति —

तद्ब्रह्मेति ।

वाक्यशेषविरोधं चोदयति —

नन्विति ।

किं कर्मत्वेनाऽऽत्मनो ज्ञानं विरुद्ध्यते किं वा साक्षित्वेनेति वाच्यं नाऽऽद्योऽनभ्युपगामदित्याह —

नेति ।

न द्वितीय इत्याह —

एवमिति ।

तदेव स्पष्टयति —

एवं दृष्टेरिति ।

तर्हि तद्विषयं ज्ञानान्तरमपेक्षितव्यमिति कुतो विरोधो न प्रसरतीत्याशङ्क्याऽऽह —

अन्यज्ञानेति ।

न विप्रतिषेध इति पूर्वेण संबन्धः संगृहीतमर्थं विवृणोति —

नचेति ।

नित्यैव स्वरूपभूतेति शेषः । विज्ञातत्वं वाक्यीयबुद्धिवृत्तिव्याप्यत्वम् । अन्यां दृष्टिं स्फुरणलक्षणाम् ।

आत्मविषयस्फुरणाकाङ्क्षाभावं प्रतिपादयति —

निवर्तते हीति ।

आत्मनि स्फुरणरूपे स्फुरणस्यान्यस्यासंभवेऽपि कुतस्तदाकाङ्क्षोपशान्तिरित्याशङ्क्याऽऽह —

न हीति ।

किञ्च द्रष्टरि दृश्याऽदृश्या वा दृष्टिरपेक्ष्यते नाऽऽद्य इत्याह —

नचेति ।

आदित्यप्रकाश्यस्य रूपादेस्तत्प्रकाशकत्वाभावादिति भावः ।

न द्वितीय इत्याह —

नचेति ।

आत्मनो वृत्तिव्याप्यत्वेऽपि स्फुरणव्याप्यत्वाङ्गीकरणान्न वाक्यशेषविरोधोऽस्तीत्युपसंहरति —

तस्मादिति ।