बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥
तत्कथमवेदित्याह — अहं दृष्टेर्द्रष्टा आत्मा ब्रह्मास्मि भवामीति । ब्रह्मेति — यत्साक्षादपरोक्षात्सर्वान्तर आत्मा अशनायाद्यतीतो नेति नेत्यस्थूलमनण्वित्येवमादिलक्षणम् , तदेवाहमस्मि, नान्यः संसारी, यथा भवानाहेति । तस्मात् एवं विज्ञानात् तद्ब्रह्म सर्वमभवत् - अब्रह्माध्यारोपणापगमात् तत्कार्यस्यासर्वत्वस्य निवृत्त्या सर्वमभवत् । तस्माद्युक्तमेव मनुष्या मन्यन्ते — यद्ब्रह्मविद्यया सर्वं भविष्याम इति । यत्पृष्टम् — किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति, तन्निर्णीतम् — ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवदिति ॥

वाक्यान्तरमाकाङ्क्षापूर्वकमादत्ते —

तत्कथमिति ।

तदक्षराणि व्याचष्टे —

दृष्टेरिति ।

इतिपदमवेदित्यनेन संबध्यते ।

ब्रह्मशब्दं व्याचष्टे —

ब्रह्मेतीति ।

ब्रह्माहम्पदार्थयोर्मिथो विशेषणविशेष्यभावमभिप्रेत्य वाक्यार्थमाह —

तदेवेति ।

आचार्योपदिष्टेऽर्थे स्वस्य निश्चयं दर्शयति —

यथेति ।

इतिशब्दो वाक्यार्थज्ञानसमाप्त्यर्थः ।

इदानीं फलवाक्यं व्याचष्टे —

तस्मादिति ।

सर्वभावमेव व्याकरोति —

अब्रह्मेति ।

ब्रह्मैवाविद्यया संसरति विद्ययां च मुच्यत इति पक्षस्य निर्दोषत्वमुपसम्हरति —

तस्माद्युक्तमिति ।

वृत्तं कीर्तयति —

यत्पृष्टमिति ।