बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥
तत् तत्र, यो यो देवानां प्रत्यबुध्यत प्रतिबुद्धवानात्मानं यथोक्तेन विधिना, स एव प्रतिबुद्ध आत्मा तत् ब्रह्म अभवत् ; तथा ऋषीणाम् , तथा मनुष्याणां च मध्ये । देवानामित्यादि लोकदृष्ट्यपेक्षया न ब्रह्मत्वबुद्ध्योच्यते ; पुरः पुरुष आविशदिति सर्वत्र ब्रह्मैवानुप्रविष्टमित्यवोचाम ; अतः शरीराद्युपाधिजनितलोकदृष्ट्यपेक्षया देवानामित्याद्युच्यते ; परमार्थतस्तु तत्र तत्र ब्रह्मैवाग्र आसीत् प्राक्प्रतिबोधात् देवादिशरीरेषु अन्यथैव विभाव्यमानम् , तदात्मानमेवावेत् , तथैव च सर्वमभवत् ॥

यथाऽग्निहोत्रादि मनुष्यत्वादिजातिमन्तमर्थित्वादिविशेषणवन्तं चाधिकारिणमपेक्षते न तथा ज्ञानमिति वक्तुं तद्यो यो देवानामित्यादिवाक्यं तदक्षराणि व्याचष्टे —

तत्तत्रेति ।

यथोक्तेन विधिनाऽन्वयादिकृतपदार्थपरिशोधनादिनेत्यर्थः । ज्ञानादेव मुक्तिर्न साधनान्तरादित्येवकारार्थः ।

विवक्षितमधिकार्यनियमं प्रकटयति —

तथेत्यादिना ।

यो यः प्रत्यबुध्यत स एव तदभवदिति पूर्वेण संबन्धः ।

ब्रह्मैवाविद्यया संसरति मुच्यते च विद्ययेत्युक्तत्वाद्देवादीनां विद्याविद्याभ्यां बन्धमोक्षोक्तिस्तद्विरुद्धेत्याशङ्क्याऽऽह —

देवानामित्यादीति ।

तत्त्वदृष्ट्यैव भेदवचने का हानिरित्याशङ्क्याऽऽह —

पुर इति ।

आविद्यकं भेदमनूद्य तत्तदात्मना स्थितब्रह्मचैतन्यस्यैव विद्याविद्याभ्यां बन्धमोक्षोक्तेर्न पूर्वापरविरोधोऽस्तीति फलितमाह —

अत इति ।

अविद्यादृष्टिमनूद्य तत्त्वदृष्टिमन्वाचष्टे —

परमार्थतस्त्विति ।

प्रबोधात्प्रागपि तत्र तत्र देवादिशरीरेषु परमार्थतो ब्रह्मैवाऽऽसीच्चेदौपदेशिकं ज्ञानमनर्थकमित्याशङ्क्याऽऽह —

अन्यथैवेति ।

नानाजीववादस्य तु नावकाशः प्रक्रमविरोधादित्याशयेनाऽऽह —

तदिति ।

तथैवेत्युत्पन्नज्ञानानुसारित्वपरामर्शः ।