नित्यदृष्टिस्वभावमात्मपदार्थं परिशोध्य श्रुत्यक्षराणि योजयति —
तद्ब्रह्मेति ।
वाक्यशेषविरोधं चोदयति —
नन्विति ।
किं कर्मत्वेनाऽऽत्मनो ज्ञानं विरुद्ध्यते किं वा साक्षित्वेनेति वाच्यं नाऽऽद्योऽनभ्युपगामदित्याह —
नेति ।
न द्वितीय इत्याह —
एवमिति ।
तदेव स्पष्टयति —
एवं दृष्टेरिति ।
तर्हि तद्विषयं ज्ञानान्तरमपेक्षितव्यमिति कुतो विरोधो न प्रसरतीत्याशङ्क्याऽऽह —
अन्यज्ञानेति ।
न विप्रतिषेध इति पूर्वेण संबन्धः संगृहीतमर्थं विवृणोति —
नचेति ।
नित्यैव स्वरूपभूतेति शेषः । विज्ञातत्वं वाक्यीयबुद्धिवृत्तिव्याप्यत्वम् । अन्यां दृष्टिं स्फुरणलक्षणाम् ।
आत्मविषयस्फुरणाकाङ्क्षाभावं प्रतिपादयति —
निवर्तते हीति ।
आत्मनि स्फुरणरूपे स्फुरणस्यान्यस्यासंभवेऽपि कुतस्तदाकाङ्क्षोपशान्तिरित्याशङ्क्याऽऽह —
न हीति ।
किञ्च द्रष्टरि दृश्याऽदृश्या वा दृष्टिरपेक्ष्यते नाऽऽद्य इत्याह —
नचेति ।
आदित्यप्रकाश्यस्य रूपादेस्तत्प्रकाशकत्वाभावादिति भावः ।
न द्वितीय इत्याह —
नचेति ।
आत्मनो वृत्तिव्याप्यत्वेऽपि स्फुरणव्याप्यत्वाङ्गीकरणान्न वाक्यशेषविरोधोऽस्तीत्युपसंहरति —
तस्मादिति ।