तद्धैतदित्यादिवाक्यमवतार्य व्याकरोति —
अस्या इति ।
मन्त्रोदाहरणश्रुतिमेव प्रश्नद्वारा व्याचष्टे —
कथमित्यादिना ।
ज्ञानान्मुक्तिरित्यस्यार्थवादोऽयमिति द्योतयितुं किलेत्युक्तम् । आदिपदं समस्तवामदेवसूक्तग्रहणार्थम् ।
तत्रावान्तरविभागमाह —
तदेतदिति ।
शतृप्रत्ययप्रयोगप्राप्तमर्थं कथयति —
पश्यन्निति ।
“लक्षणहेत्वोः क्रियायाः” इति हेतौ शतृप्रत्ययविधानान्नैरन्तर्ये च सति हेतुत्वसंभवात्प्रकृते च प्रत्ययबलाद्ब्रह्मविद्यामोक्षयोर्नैरन्तर्यप्रतीतेस्तया साधनान्तरानपेक्षया लभ्यं मोक्षं दर्शयति श्रुतिरित्यर्थः ।
अत्रोदाहरणमाह —
भुञ्जान इति ।
भुजिक्रियामात्रसाध्या हि तृप्तिरत्र प्रतीयते तथा पश्यन्नित्यादावपि ब्रह्मविद्यामात्रसाध्या मुक्तिर्भातीत्यर्थः ।
तद्धैतदित्यादि व्याख्याय तदिदमित्यद्यवतारयितुं शङ्कते —
सेयमिति ।
ऐदंयुगीनानां कलिकालवर्तिनामिति यावत् ।
उत्तरवाक्यमुत्तरत्वेनावतार्य व्याकरोति —
तद्व्युत्थापनायेति ।
तस्य ताटस्थ्यं वारयति —
यत्सर्वभूतेति ।
प्रविष्टे प्रमाणमुक्तं स्मारयति —
दृष्टीति ।
व्यावृत्तं बाह्येषु विषयेषूत्सुकं साभिलाषं मनो यस्य स तथोक्तः । एवंशब्दार्थमेवाऽऽह अहमिति ।
तदेवं ज्ञानं विवृणोति —
अपोह्येति ।
यद्वा मनुष्योऽहमित्यादिज्ञाने परिपन्थिनि कथं ब्रह्माहमिति ज्ञानमित्याशङ्क्याऽह —
अपोह्येति ।
अहमित्यात्मज्ञानं सदा सिद्धमिति न तदर्थं प्रयतितव्यमित्याशङ्क्याऽऽह —
संसारेति ।
केवलमित्यद्वितीयत्वमुच्यते ।
ज्ञानमुक्त्वा तत्फलमाह —
सोऽविद्येति ।
यत्तु देवादीनां महावीर्यत्वाद्ब्रह्मविद्यया मुक्तिः सिद्ध्यति नास्मदादीनामल्पवीर्यत्वादिति तत्राऽऽह —
नहीति ।
श्रेयांसि बहुविघ्नानीति प्रसिद्धिमाश्रित्य शङ्कते —
वार्तमानिकेष्विति ।
शङ्कोत्तरत्वेनोत्तरवाक्यमादाय व्याकरोति —
अत आहेत्यादिना ।
यथोक्तेनान्वयादिना प्रकारेण ब्रह्मविज्ञातुरिति संबन्धः ।
अपिशब्दार्थं कथयति —
किमुतेति ।
अल्पवीर्यास्तत्र विघ्नकरणे पर्याप्ता नेति किमुत वाच्यमिति योजना ।