आप्राप्तप्रतिषेधायोगमभिप्रेत्य चोदयति —
ब्रह्मविद्येति ।
शङ्कानिमित्तं दर्शयन्नुत्तरमाह —
उच्यत इति ।
अधमर्णानिवोत्तमर्णा देवादयो मर्त्यान्प्रति विघ्नं कुर्वन्तीति शेषः ।
कथं देवादीन्प्रति मर्त्यानामृणित्वं तत्राऽऽह —
ब्रह्मचर्येणेति ।
यथा पशुरेवं स देवानामिति मनुष्याणां पशुसादृश्यश्रवणाच्च तेषां पारतन्त्र्याद्देवादयस्तान्प्रति विघ्नं कुर्वन्तीत्याह —
पश्विति ।
’अथो अयं वा आत्मा सर्वेषां लोकः’ इति च सर्वप्राणिभोग्यत्वश्रुतेश्च सर्वे तद्विघ्नकरा भवन्तीत्याह —
अथो इति ।
लोकश्रुत्यभिप्रेतमर्थं प्रकटयति —
आत्मन इति ।
यथाऽधमर्णान्प्रत्युत्तमर्णा विघ्नमाचरन्ति तथा देवादयः स्वास्थितिपरिरक्षणार्थं परतन्त्रान्कर्मिणः प्रत्यमतत्वप्राप्तिमुद्दिश्य विघ्नं कुर्वन्तीति तेषां तान्प्रति विघ्नकर्तृत्वशङ्का सावकाशैवेत्यर्थः ।
पशुनिदर्शनेन विवक्षितमर्थं विवृणोति —
स्वपशूनिति ।
पशुस्थानीयानां मनुष्याणां देवादिभी रक्ष्यत्वे हेतुमाह —
महत्तरामिति ।
इतश्च देवादीनां मनुष्यान्प्रति विघ्नकर्तृत्वममृतत्वप्राप्तौ संभावितमित्याह —
तस्मादिति ।
ततश्च तेषां तान्प्रति विघ्नकर्तृत्वं भातीत्याह —
यथेति ।
स्वलोको देहः । एवंवित्त्वं सर्वभूतभोज्योऽहमिति कल्पनावत्त्वम् । क्रियापदानुषङ्गार्थश्चकारः ।
ब्रह्मवित्त्वेऽपि मनुष्याणां देवादिपारतन्त्र्याविघातात्किमिति ते विघ्नमाचरन्तीत्याशङ्क्याऽऽह —
ब्रह्मवित्त्व इति ।
देवादीनां मनुष्यान्प्रति विघ्नकर्तृत्वे शङ्कामुपपादितामुपसंहरति —
तस्मादिति ।
न केवलमुक्तहेतुबलादेव किन्तु सामर्थ्याच्चेत्याह —
प्रभाववन्तश्चेति ।