बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥
ब्रह्मविद्याफलप्राप्तौ विघ्नकरणे देवादय ईशत इति का शङ्केति — उच्यते — देवादीन्प्रति ऋणवत्त्वान्मर्त्यानाम् ; ‘ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः’ (तै. सं. ६ । ३ । १०) इति हि जायमानमेव ऋणवन्तं पुरुषं दर्शयति श्रुतिः ; पशुनिदर्शनाच्च ‘अथो अयं वा...’ (बृ. उ. १ । ४ । १६) इत्यादिलोकश्रुतेश्च आत्मनो वृत्तिपरिपिपालयिषया अधमर्णानिव देवाः परतन्त्रान्मनुष्यान्प्रति अमृतत्वप्राप्तिं प्रति विघ्नं कुर्युरिति न्याय्यैवैषा शङ्का । स्वपशून् स्वशरीराणीव च रक्षन्ति देवाः ; महत्तरां हि वृत्तिं कर्माधीनां दर्शयिष्यति देवादीनां बहुपशुसमतयैकैकस्य पुरुषस्य ; ‘तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः’ इति हि वक्ष्यति, ‘यथा ह वै स्वाय लोकायारिष्टिमिच्छेदेवं हैवंविदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति’ (बृ. उ. १ । ४ । १६) इति च ; ब्रह्मवित्त्वे पारार्थ्यनिवृत्तेः न स्वलोकत्वं पशुत्वं चेत्यभिप्रायो अप्रियारिष्टिवचनाभ्यामवगम्यते ; तस्माद्ब्रह्मविदो ब्रह्मविद्याफलप्राप्तिं प्रति कुर्युरेव विघ्नं देवाः । प्रभाववन्तश्च हि ते ॥

आप्राप्तप्रतिषेधायोगमभिप्रेत्य चोदयति —

ब्रह्मविद्येति ।

शङ्कानिमित्तं दर्शयन्नुत्तरमाह —

उच्यत इति ।

अधमर्णानिवोत्तमर्णा देवादयो मर्त्यान्प्रति विघ्नं कुर्वन्तीति शेषः ।

कथं देवादीन्प्रति मर्त्यानामृणित्वं तत्राऽऽह —

ब्रह्मचर्येणेति ।

यथा पशुरेवं स देवानामिति मनुष्याणां पशुसादृश्यश्रवणाच्च तेषां पारतन्त्र्याद्देवादयस्तान्प्रति विघ्नं कुर्वन्तीत्याह —

पश्विति ।

’अथो अयं वा आत्मा सर्वेषां लोकः’ इति च सर्वप्राणिभोग्यत्वश्रुतेश्च सर्वे तद्विघ्नकरा भवन्तीत्याह —

अथो इति ।

लोकश्रुत्यभिप्रेतमर्थं प्रकटयति —

आत्मन इति ।

यथाऽधमर्णान्प्रत्युत्तमर्णा विघ्नमाचरन्ति तथा देवादयः स्वास्थितिपरिरक्षणार्थं परतन्त्रान्कर्मिणः प्रत्यमतत्वप्राप्तिमुद्दिश्य विघ्नं कुर्वन्तीति तेषां तान्प्रति विघ्नकर्तृत्वशङ्का सावकाशैवेत्यर्थः ।

पशुनिदर्शनेन विवक्षितमर्थं विवृणोति —

स्वपशूनिति ।

पशुस्थानीयानां मनुष्याणां देवादिभी रक्ष्यत्वे हेतुमाह —

महत्तरामिति ।

इतश्च देवादीनां मनुष्यान्प्रति विघ्नकर्तृत्वममृतत्वप्राप्तौ संभावितमित्याह —

तस्मादिति ।

ततश्च तेषां तान्प्रति विघ्नकर्तृत्वं भातीत्याह —

यथेति ।

स्वलोको देहः । एवंवित्त्वं सर्वभूतभोज्योऽहमिति कल्पनावत्त्वम् । क्रियापदानुषङ्गार्थश्चकारः ।

ब्रह्मवित्त्वेऽपि मनुष्याणां देवादिपारतन्त्र्याविघातात्किमिति ते विघ्नमाचरन्तीत्याशङ्क्याऽऽह —

ब्रह्मवित्त्व इति ।

देवादीनां मनुष्यान्प्रति विघ्नकर्तृत्वे शङ्कामुपपादितामुपसंहरति —

तस्मादिति ।

न केवलमुक्तहेतुबलादेव किन्तु सामर्थ्याच्चेत्याह —

प्रभाववन्तश्चेति ।