बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥
ननु एवं सत्यन्यास्वपि कर्मफलप्राप्तिषु देवानां विघ्नकरणं पेयपानसमम् ; हन्त तर्ह्यविस्रम्भोऽभ्युदयनिःश्रेयससाधनानुष्ठानेषु ; तथा ईश्वरस्याचिन्त्यशक्तित्वाद्विघ्नकरणे प्रभुत्वम् ; तथा कालकर्ममन्त्रौषधितपसाम् ; एषां हि फलसम्पत्तिविपत्तिहेतुत्वं शास्त्रे लोके च प्रसिद्धम् ; अतोऽप्यनाश्वासः शास्त्रार्थानुष्ठाने । न ; सर्वपदार्थानां नियतनिमित्तोपादानात् जगद्वैचित्र्यदर्शनाच्च, स्वभावपक्षे च तदुभयानुपपत्तेः, सुखदुःखादिफलनिमित्तं कर्मेत्येतस्मिन्पक्षे स्थिते वेदस्मृतिन्यायलोकपरिगृहीते, देवेश्वरकालास्तावन्न कर्मफलविपर्यासकर्तारः, कर्मणां काङ्क्षितकारकत्वात् — कर्म हि शुभाशुभं पुरुषाणां देवकालेश्वरादिकारकमनपेक्ष्य नात्मानं प्रति लभते, लब्धात्मकमपि फलदानेऽसमर्थम् , क्रियाया हि कारकाद्यनेकनिमित्तोपादानस्वाभाव्यात् ; तस्मात् क्रियानुगुणा हि देवेश्वरादय इति कर्मसु तावन्न फलप्राप्तिं प्रत्यविस्रम्भः । कर्मणामपि एषाम् वशानुगत्वं क्वचित् , स्वसामर्थ्यस्याप्रणोद्यत्वात् । कर्मकालदैवद्रव्यादिस्वभावानां गुणप्रधानभावस्त्वनियतो दुर्विज्ञेयश्चेति तत्कृतो मोहो लोकस्य — कर्मैव कारकं नान्यत्फलप्राप्ताविति केचित् ; दैवमेवेत्यपरे ; काल इत्येके ; द्रव्यादिस्वभाव इति केचित् ; सर्व एते संहता एवेत्यपरे । तत्र कर्मणः प्राधान्यमङ्गीकृत्य वेदस्मृतिवादाः — ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’ (बृ. उ. ३ । २ । १३) इत्यादयः । यद्यपि एषां स्वविषये कस्यचित्प्राधान्योद्भवः इतरेषां तत्कालीनप्राधान्यशक्तिस्तम्भः, तथापि न कर्मणः फलप्राप्तिं प्रति अनैकान्तिकत्वम् , शास्त्रन्यायनिर्धारितत्वात्कर्मप्राधान्यस्य ॥

सामर्थ्याच्चेद्विद्याफलप्राप्तौ तेषां विघ्नकरणं तर्हि कर्मफलप्राप्तावपि स्यादित्यतिप्रसंगं शङ्कते —

नन्विति ।

भवतु तेषां सर्वत्र विघ्नाचरणमित्यत आह —

हन्तेति ।

अविस्रम्भो विश्वासाभावः ।

सामर्थ्याद्विघ्नकर्तृत्वेऽतिप्रसक्त्यन्तरमाह —

तथेति ।

अतिप्रसंगान्तरमाह —

तथा कालेति ।

विघ्नकरणे प्रभुत्वमिति पूर्वेण संबन्धः ।

ईश्वरादीनां यथोक्तकार्यकरत्वे प्रमाणमाह —

एषां हीति ।

“एष ह्येव साधु कर्म कारयति” । “कर्म हैव तदूचतुरि”(बृ. उ. ३ । २ । १३) त्यादिवाक्यं शास्त्रशब्दार्थः ।

देवादीनां विघ्नकर्तृत्ववदीश्वरादीनामपि तत्संभवाद्वेदार्थानुष्ठाने विश्वासाभावात्तदप्रमाण्यं प्राप्तमिति फलितमाह —

अतोऽपीति ।

किमिदमवैदिकस्य चोद्यं किं वा वैदिकस्येति विकल्प्याऽऽद्यं दूषयति —

नेत्यादिना ।

दध्याद्युत्पिपादयिषया दुग्धाद्यादानदर्शनात्प्राणिनां सुखदुःखादितारतम्यदृष्टेः स्वभाववादे च नियतनिमित्तादानवैचित्र्यदर्शनयोरनुपपत्तेस्तदयोगात्कर्मफलं जगदेष्टव्यमित्यर्थः ।

द्वितीयं प्रत्याह —

सुखेति ।

’कर्म हैव’ इत्याद्या श्रुतिः । ‘कर्मणा बद्ध्यते जन्तुः’ इत्याद्या स्मृतिः । जगद्वैचित्र्यानुपपत्तिश्च न्यायः ।

कथमेतावता देवादीनां कर्मफले विघ्नकर्तृत्वाभावस्तत्राऽऽह —

कर्मणामिति ।

कथं हेतुसिद्धिरित्याशङ्क्य कर्मणः स्वोत्पत्तौ देवाद्यपेक्षां व्यतिरेकमुखेन दर्शयति —

कर्म हीति ।

स्वफलेऽपि तस्य तत्सापेक्षत्वमस्तीत्याह —

लब्धेति ।

निष्पन्नमिति कर्म पूर्वोक्तं कारकमनपेक्ष्य स्वफलदाने शक्तं न भवतीत्यर्थः ।

कर्मणः स्वोत्पत्तौ स्वफले च कारकसापेक्षत्वे हेतुमाह —

क्रियाया हीति ।

कारकादीनामनेकेषां निमित्तानामुपादानेन स्वभावो निष्पद्यते यस्याः सा तथोक्ता तस्या भावः कारकाद्यनेकनिमित्तोपादानस्वाभाव्यं तस्मादुभयत्र परतन्त्रं कर्मेत्यर्थः ।

देवादीनां कर्मापेक्षितकारकत्वे फलितमाह —

तस्मादिति ।

इतोऽपि कर्मफले नाविस्रम्भोऽस्तीत्याह —

कर्मणामिति ।

एषां देवादीनां क्वचिद्विघ्नलक्षणे कार्ये कर्मणां वशवर्तित्वम् एष्टव्यं प्राणिकर्मापेक्षामन्तरेण विघ्नकरणेऽतिप्रसंगादतोन्यत्रापि सर्वत्र तेषां तदपेक्षा वाच्येत्यर्थः ।

तत्र तेषां कर्मवशवर्तित्वे हेत्वन्तरमाह —

स्वसामर्थ्यस्येति ।

विघ्नलक्षणं हि कार्यं दुःखमुत्पादयति । न च दुःखमृते पापादुपपद्यते। दुःखविषये पापसामर्थ्यस्य शात्राधिगतस्याप्रत्याख्येयत्वात्तस्मात्प्राणिनामदृष्टवशादेव देवादयो विघ्नकरणमित्यर्थः ।

देवादीनां कर्मपारतन्त्र्ये कर्म तत्परतन्त्रं न स्यात्प्रधानगुणभाववैपरीत्यायोगादित्याशङ्क्याऽऽह —

कर्मेति ।

इतश्च नामीषां नियतो गुणप्रधानभावोऽस्तीत्याह —

दुर्विज्ञेयश्चेति ।

इतिशब्दो हेत्वर्थः । यथो गुणप्रधानकृतो मतिविभ्रमो लोकस्योपलभ्यते तस्मादसौ दुर्विज्ञेयो न नियतोऽस्तीति योजना ।

मतिविभ्रमे वादविप्रतिपत्तिं हेतुमाह —

कर्मैवेत्यादिना ।

कथं तर्हि निश्चयस्तत्राऽऽह —

तत्रेति ।

वेदवादानुदाहरति —

पुण्यो वा इति ।

आदिपदेन ‘धर्मरज्ज्वा व्रजेदूर्ध्वम्’ इत्यादयः स्मृतिवादा गृह्यन्ते ।

सूर्योदयदाहसेचनादौ कालज्वलनसलिलादेः प्राधान्यप्रसिद्धेर्न कर्मैव प्रधानमित्याशङ्क्याह —

यद्यपीति ।

अनैकान्तिकत्वमप्रधानत्वम् ।

तत्र हेतुमाह —

शास्त्रेति ।

श्रुतिस्मृतिलक्षणं शास्त्रमुदाहृतम् । जगद्वैचित्र्यानुपपत्तिर्न्यायः ।