बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥
न, अविद्यापगममात्रत्वाद्ब्रह्मप्राप्तिफलस्य — यदुक्तं ब्रह्मप्राप्तिफलं प्रति देवा विघ्नं कुर्युरिति, तत्र न देवानां विघ्नकरणे सामर्थ्यम् ; कस्मात् ? विद्याकालानन्तरितत्वाद्ब्रह्मप्राप्तिफलस्य ; कथम् ; यथा लोके द्रष्टुश्चक्षुष आलोकेन संयोगो यत्कालः, तत्काल एव रूपाभिव्यक्तिः, एवमात्मविषयं विज्ञानं यत्कालम् , तत्काल एव तद्विषयाज्ञानतिरोभावः स्यात् ; अतो ब्रह्मविद्यायां सत्याम् अविद्याकार्यानुपपत्तेः, प्रदीप इव तमःकार्यस्य, केन कस्य विघ्नं कुर्युर्देवाः — यत्र आत्मत्वमेव देवानां ब्रह्मविदः । तदेतदाह — आत्मा स्वरूपं ध्येयं यत्तत्सर्वशास्त्रैर्विज्ञेयं ब्रह्म, हि यस्मात् , एषां देवानाम् , स ब्रह्मवित् , भवति ब्रह्मविद्यासमकालमेव — अविद्यामात्रव्यवधानापगमात् शुक्तिकाया इव रजताभासायाः शुक्तिकात्वमित्यवोचाम । अतो नात्मनः प्रतिकूलत्वे देवानां प्रयत्नः सम्भवति । यस्य हि अनात्मभूतं फलं देशकालनिमित्तान्तरितम् , तत्रानात्मविषये सफलः प्रयत्नो विघ्नाचरणाय देवानाम् ; न त्विह विद्यासमकाल आत्मभूते देशकालनिमित्तानन्तरिते, अवसरानुपपत्तेः ॥

कर्मफले देवादीनां विघ्नकर्तृत्वं प्रसंगागतं निराकृत्य विद्याफले तेषां तदाशङ्कितं निराकरोति नाविद्येति । तत्र नञर्थमुक्त्वानुवादपूर्वकं विशदयति —

यदुक्तमिति ।

तत्र प्रश्नपूर्वकं पूर्वोक्तं हेतुं स्फुटयति —

कस्मादिति ।

आत्मनो ब्रह्मत्वप्राप्तिरूपाया मुक्तेरज्ञानध्वस्तिमात्रत्वात्तस्याश्च ज्ञानेन तुल्यकालत्वात्तस्मिन्सति तस्य फलस्याऽऽवश्यकत्वाद्देवादीनां विघ्नाचरणे नावकाशोऽस्तीत्यर्थः ।

उक्तमेवार्थमाकाङ्क्षापूर्वकं दृष्टान्तेन समर्थयते —

कथमित्यादिना ।

ब्रह्मविद्यातत्फलयोः समानकालत्वे फलितमाह —

अत इति ।

देवादीनां ब्रह्मविद्याफले विघ्नकर्तृत्वाभावे हेत्वन्तरमाह —

यत्रेति ।

यस्यां विद्यायां सत्यां ब्रह्मविदो देवादीनामात्मत्वमेव तस्यां सत्यां कथं ते तस्य विघ्नमाचरेयुः । स्वविषये तेषां प्रातिकूल्याचरणानुपपत्तेरित्यर्थः ।

उक्तेऽर्थे समनन्तरवाक्यमुत्थाप्य व्याचष्टे —

तदेतदाहेति ।

कथं ब्रह्मविद्यासमकालमेव ब्रह्मविद्देवादीनामात्मा भवति तत्राऽऽह —

अविद्यामात्रेति ।

यथेदं रजतमिति रजताकारायाः शुक्तिकायाः शुक्तिकात्वमविद्यामात्रव्यवहितं तथा ब्रह्मविदोऽपि सर्वात्मत्वे तन्मात्रव्यवधानात्तस्याश्च विद्योदये नान्तरीयकत्वेन निवृत्तेर्युक्तं विद्यातत्फलयोः स्मानकालत्वम् । उक्तं चैतत्प्रतिवचनदशायामित्यर्थः ।

उक्तस्य हेतोरपेक्षितं वदन्ब्रह्मविदो देवाद्यात्मत्वे फलितमाह —

अत इति ।

कैवल्ये तेषां विघ्नाकर्तृत्वे कुत्र तत्कर्तृतेत्याशङ्क्याऽऽह —

यस्य हीति ।

तेषां निरङ्कुशप्रसरत्वं वारयति —

नत्विति ।

सफलः प्रयत्न इति पूर्वेणसंबन्धः ।

तस्य निरवकाशत्वादिति हेतुमाह —

अवसरेति ।