ज्ञानस्यानन्तरफलत्वात्तत्फले देवादीनां न विघ्नकर्तृतेत्युक्तमुपेत्य स्वयूथ्यः शङ्कते —
एवं तर्हीति ।
ज्ञानस्यान्तरफलत्वे न तदज्ञानं निवर्तयेदज्ञानमिव तत्त्वज्ञानमपि ब्रह्मास्मीति ज्ञानसन्तत्यभावात् । न चाऽऽद्यमेव ज्ञानमज्ञानध्वंसि प्रागिवोर्ध्वमपि रागादेस्तत्कार्यस्य च दृष्टत्वात् । अतो देहपातकालीनं ज्ञानमज्ञानं निवर्तयतीति कुतो जीवन्मुक्तिरित्यर्थः ।
अन्त्यज्ञानस्याज्ञाननिवर्तकत्वं तत्सन्ततेर्वा प्रथमे तस्यान्त्यत्वादात्मविषयत्वाद्वा तद्ध्वंसितेति विकल्प्योभयत्र दृष्टान्तभावं मत्वा द्वितीये दोषान्तरमाह —
न प्रथमेनेति ।
तदेवानुमानेन स्फोरयति —
यदि हीति ।
कल्पान्तरं शङ्कयति —
एवं तर्हीति ।
अविच्छिन्ना ज्ञानसन्ततिरज्ञानं निवर्तयतीत्येदद्दूषयति —
नेत्यादिना ।
जीवनादिहेतुकः प्रत्ययो बुभुक्षितोऽहं भोक्ष्येऽहमित्यादिलक्षणः । तस्य बुभुक्षाद्युपप्लुतस्य ब्रह्मास्मीत्यविच्छिन्नप्रत्ययसन्ततेश्च विरुद्धतया यौगपद्यायोगे हेतुमाह —
विरोधादिति ।
प्रत्ययसन्ततिमुपपादयन्नाशङ्कते —
अथेति ।
उक्तरीत्या प्रत्ययसन्ततिमुपेत्य दूषयति —
नेत्यादिना ।
तमेव दोषं विशदयति —
इयतामिति ।
शास्त्रार्थो ज्ञानसन्ततिरज्ञानं निवर्तयतीत्येवमात्मकः ।
आत्मेत्येवोपासीतेति श्रुतेरात्मज्ञानसन्ततिमात्रसद्भावे ततो विद्याद्वाराऽविद्याध्वस्तिरिति शास्त्रार्थनिश्चयसिद्धिरित्याह —
सन्ततीति ।
आत्मधीसन्ततेः सत्त्वेऽपि न साऽऽत्मविषयत्वाद्विद्याद्वाराऽविद्यां निवर्तयति । आद्य द्वित्रिक्षणस्थात्मधीसन्ततौ व्यभिचारादिति परिहरति —
नाद्यन्तयोरिति ।
पूर्वस्मिन्प्रत्यये नाविद्यानिवर्तकत्वमन्त्ये तु तथेत्युक्ते तस्यान्त्यत्वात्तथात्वं चेद्दृष्टान्ताभावः । आत्मविषयत्वात्तथात्वे प्रथमप्रत्यये व्यभिचारः स्यादित्युक्तौ दोषौ । आद्या सन्ततिर्नाविद्याध्वंसिनी । अन्त्या तु तथेत्यङ्गीकारेऽपि विशेषाभावादन्त्यत्वात्तस्या निवर्तकत्वे दृष्टान्ताभावः ।
आत्मविषयत्वात्तद्भावे त्वनैकान्तिकत्वमित्येतावेव दोषौ स्यातामित्युक्तं विवृणोति —
प्रथमेति ।
अन्त्यप्रत्ययस्य तत्सन्ततेश्चाविद्यानिवर्तकत्वाऽसंभवे प्रथमस्यापि रागाद्यनुवृत्त्या तदयोगाज्ज्ञानमज्ञानानिवर्तकमेवेति चोदयति —
एवं तर्हीति ।
श्रुतिविरोधेन परिहरति —
न तस्मादिति ।