बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥
अर्थवाद इति चेत् , न, सर्वशाखोपनिषदामर्थवादत्वप्रसङ्गात् ; एतावन्मात्रार्थत्वोपक्षीणा हि सर्वशाखोपनिषदः । प्रत्यक्षप्रमितात्मविषयत्वात् अस्त्येवेति चेत् , न, उक्तपरिहारत्वात् — अविद्याशोकमोहभयादिदोषनिवृत्तेः प्रत्यक्षत्वादिति चोक्तः परिहारः । तस्मात् आद्यः अन्त्यः सन्ततः असन्ततश्चेत्यचोद्यमेतत् , अविद्यादिदोषनिवृत्तिफलावसानत्वाद्विद्यायाः — य एव अविद्यादिदोषनिवृत्तिफलकृत्प्रत्ययः आद्यः अन्त्यः सन्ततः असन्ततो वा, स एव विद्येत्यभ्युपगमात् न चोद्यस्यावतारगन्धोऽप्यस्ति । यत्तूक्तं विपरीतप्रत्ययतत्कार्ययोश्च दर्शनादिति, न, तच्छेषस्थितिहेतुत्वात् — येन कर्मणा शरीरमारब्धं तत् , विपरीतप्रत्ययदोषनिमित्तत्वात् तस्य तथाभूतस्यैव विपरीतप्रत्ययदोषसंयुक्तस्य फलदाने सामर्थ्यमिति, यावत् शरीरपातः तावत्फलोपभोगाङ्गतया विपरीतप्रत्ययं रागादिदोषं च तावन्मात्रमाक्षिपत्येव — मुक्तेषुवत् प्रवृत्तफलत्वात् तद्धेतुकस्य कर्मणः । तेन न तस्य निवर्तिका विद्या, अविरोधात् ; किं तर्हि स्वाश्रयादेव स्वात्मविरोधि अविद्याकार्यं यदुत्पित्सु तन्निरुणद्धि, अनागतत्वात् ; अतीतं हि इतरत् । किञ्च न च विपरीतप्रत्ययो विद्यावत उत्पद्यते, निर्विषयत्वात् — अनवधृतविषयविशेषस्वरूपं हि सामान्यमात्रमाश्रित्य विपरीतप्रत्यय उत्पद्यमान उत्पद्यते, यथा शुक्तिकायां रजतमिति ; स च विषयविशेषावधारणवतो अशेषविपरीतप्रत्ययाशयस्योपमर्दितत्वात् न पूर्ववत्सम्भवति, शुक्तिकादौ सम्यक्प्रत्ययोत्पत्तौ पुनरदर्शनात् । क्वचित्तु विद्यायाः पूर्वोत्पन्नविपरीतप्रत्ययजनितसंस्कारेभ्यो विपरीतप्रत्ययावभासाः स्मृतयो जायमाना विपरीतप्रत्ययभ्रान्तिम् अकस्मात् कुर्वन्ति — यथा विज्ञातदिग्विभागस्याप्यकस्माद्दिग्विपर्ययविभ्रमः । सम्यग्ज्ञानवतोऽपि चेत् पूर्ववद्विपरीतप्रत्यय उत्पद्यते, सम्यग्ज्ञानेऽप्यविस्रम्भाच्छास्त्रार्थविज्ञानादौ प्रवृत्तिरसमञ्जसा स्यात् , सर्वं च प्रमाणमप्रमाणं सम्पद्येत, प्रमाणाप्रमाणयोर्विशेषानुपपत्तेः । एतेन सम्यग्ज्ञानानन्तरमेव शरीरपाताभावः कस्मादित्येतत्परिहृतम् । ज्ञानोत्पत्तेः प्राक् ऊर्ध्वं तत्कालजन्मान्तरसञ्चितानां च कर्मणामप्रवृत्तफलानां विनाशः सिद्धो भवति फलप्राप्तिविघ्ननिषेधश्रुतेरेव ; ‘क्षीयन्ते चास्य कर्माणि’ (मु. उ. २ । २ । ८) ‘तस्य तावदेव चिरम्’ (छा. उ. ६ । १४ । २) ‘सर्वे पाप्मानः प्रदूयन्ते’ (छा. उ. ५ । २४ । ३) ‘तं विदित्वा न लिप्यते कर्मणा पापकेन’ (बृ. उ. ४ । ४ । २३) ‘एतमु हैवैते न तरतः’ (बृ. उ. ४ । ४ । २२) ‘नैनं कृताकृते तपतः’ (बृ. उ. ४ । ४ । २२) ‘एतं ह वाव न तपति’ (तै. उ. २ । ९ । १) ‘न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १) इत्यादिश्रुतिभ्यश्च ; ‘ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते’ (भ. गी. ४ । ३७) इत्यादिस्मृतिभ्यश्च ॥

तासामर्थवादत्वेनाविवक्षितत्वं शङ्कते —

अर्थवाद इति चेदिति ।

अतिप्रसंगेन दूषयति —

न सर्वेति ।

यथोक्तश्रुतीनामर्थवादत्वेऽपि कथं सर्वशाखोपनिषदां तत्त्वप्रसक्तिरित्याशङ्क्याऽऽह —

एतावदिति ।

एतावन्मात्रार्थत्वमात्मज्ञानात्तदज्ञाननिवृत्तिरित्येतावन्मात्रस्यार्थस्य सद्भावः ।

अहन्धीगम्ये प्रतीचि तासां प्रवृत्तेः संवादविसंवादाभ्यां मानत्वायोगादस्त्येवार्थवादतेति प्रसंगस्येष्टत्वं शङ्कते —

प्रत्यक्षेति ।

प्रमातुरहन्धीगम्यता नाऽऽत्मनस्तत्साक्षिणस्तस्य वेदान्ता ब्रह्मत्वं बोधयन्तीति न संवादादिशङ्केत्याह —

नोक्तेति ।

विद्वदनुभवमाश्रित्यापि फलश्रुतेरर्थवादत्वं समाहितमित्याह —

अविद्येति ।

आत्मज्ञानस्य तदज्ञाननिवर्तकत्वे स्थिते परमतस्य निरवकाशत्वं फलतीत्याह —

तस्मादिति ।

चोद्यस्यानवकाशत्वमेव विशदयति —

अविद्यादीति ।

ज्ञानसन्ततेरन्त्यज्ञानस्य वाऽज्ञानध्वंसित्वासिद्धेराद्यमेव ज्ञानं तथेत्युक्तं संप्रति परोक्तमनुवदति —

यत्तूक्तमिति ।

दर्शनान्नाऽऽद्यं ज्ञानमज्ञानध्वंसीतिइ शेषः ।

प्रारब्धकर्मशेषस्य विद्वद्देहस्थितिहेतुत्वाद्विदुषाऽपि यावदारब्धक्षयं रागाद्याभासाविरोधात्तत्क्षये च देहाभासजगदाभासयोरभावान्नाऽऽद्यज्ञानस्याज्ञाननिवर्तकत्वानुपपत्तिरित्युत्तरमाह —

न तच्छेषेति ।

तदेव पेरपञ्चयति —

येनेत्यादिना ।

यच्छब्दस्याऽऽक्षिपतीत्यनेन संबन्धः ।

आक्षेपकत्वनियमं साधयति —

विपरीतेति ।

मिथ्याज्ञानेन रागादिदोषेण च निमित्तेन प्रवृत्तत्वादिति यावत् । तथाभूतस्येत्यस्य विवरणं विपरीतप्रत्ययेत्यादि । कर्मैव षष्ठ्या विशेष्यते । तावन्मात्रं प्रतिभासमात्रशरीरम् ।

प्रारब्धकर्मणोऽप्यज्ञानजन्यत्वेन ज्ञाननिवर्त्यत्वान्न ज्ञानिनस्ततो देहाभासादि संभवतीत्याशङ्क्याऽऽह —

मुक्तेषुवदिति ।

यथा प्रवृत्तवेगस्येष्वादेर्वेगक्षयादेवाप्रतिबद्धस्य क्षयस्तथा भोगादेवाऽऽरब्धक्षयो ‘भोगेन त्वितरे क्षपयित्वा संपद्यत’ इति न्यायान्न ज्ञानादित्यर्थः । तद्धेतुकस्य विपरीतप्रत्ययादिप्रतिभासकार्यजनकस्येति यावत् ।

ननु ज्ञानमनारब्धकर्मवदारब्धमपि कर्म कर्मत्वाविशेषान्निवर्तयिष्यति नेत्याह —

तेनेति ।

अविद्यालेशेन सहाऽऽरब्धस्य कर्मणो विद्या निवर्तिका न भवतीत्यत्र हेतुमाह —

अविरोधादिति ।

न हि ज्ञानादारब्धं कर्म क्षीयते तदविरोधित्वादविद्यालेशाच्च तदवस्थितेरन्यथा जीवन्मुक्तिशास्त्रविरोधादिति भावः ।

आरब्धस्य कर्मणो ज्ञानानिवर्त्यत्वे ज्ञानं कर्मनिवर्तकमिति कथं प्रसिद्धिरित्याह —

किं तर्हीति ।

प्रसिद्धिविषयमाह —

स्वाश्रयादिति ।

ज्ञानाविरोधियदज्ञानकार्यमनारब्धं कर्म ज्ञानाश्रयप्रमात्राद्याश्रयादज्ञानात्फलात्मना जन्माभिमुखं तन्निवर्तकं ज्ञानमिति प्रसिद्धिरविरुद्धेत्यर्थः ।

विमतं न ज्ञाननिवर्त्य कर्मत्वादारब्धकर्मवदित्यनुमानादनारब्धमपि कर्म न ज्ञाननिरस्यमित्याशङ्क्याऽऽह —

अनागतत्वादिति ।

अनारब्धं कर्म फलरूपेणाप्रवृत्तत्वात्प्रवृत्तेन ज्ञानेन निवर्त्यम् । आरब्धं तु कर्म फलरूपेण जातत्वात्तद्भोगादृते न निवृत्तिमर्हति । अनुमानं त्वागमापबाधितमप्रमाणमित्यर्थः ।

नन्वनारब्धकर्मनिवृत्तावपि विदुषश्चेदारब्धकर्म न निवर्तते तथा च यथापूर्वं विपरीतप्रत्ययादिप्रवृत्तेर्विद्वदविद्वद्विशेषो न स्यादत आह —

किञ्चेति ।

हेतुसिद्ध्यर्थं विपरीतप्रत्ययविषयं विशदयति —

अनवधृतेति ।

संप्रति विद्वद्विषये विषयाभावाद्विपरीतप्रत्ययस्यानुत्पत्तिमुपन्यस्यति —

स चेति ।

आशयस्यागृहीतविशेषस्य सामान्यमात्रस्यालम्बनस्येति यावत् । आश्रयस्येति पाठेऽप्ययमेवार्थः ।

विदुषो विपरीतप्रत्ययादिप्रतिभासेऽपि न यथापूर्वं तत्सत्त्वं यस्य तु यथापूर्वं संसारित्वमित्यादिन्यायविरोधादिति मत्वोक्तम् —

न पूर्ववदिति ।

तत्रानुभवं प्रमाणयति —

शुक्तिकादाविति ।

यथाऽज्ञानवतो विपरीतप्रत्ययभावोऽनुभूयते तथा तद्वतोऽपि क्वचिद्विपरीतप्रत्यायो दृश्यते । तथा च कथं तवानुभवविरोधो न प्रसरेदित्याशङ्क्य परोक्षज्ञानवति विपरीतप्रत्ययसत्त्वेऽपि नापरोक्षज्ञानवति तद्दार्ढ्यमित्यभिप्रेत्याऽऽह —

क्वचित्त्विति ।

परोक्षज्ञानाधारः सप्तम्यर्थः । पञ्चमी त्वपरोक्षज्ञानार्था । अकस्मादित्यज्ञानातिरिक्तक्लृप्तसामग्र्यभावोक्तिः ।

विदुषो मिथ्याज्ञानाभावमुक्त्वा विपक्षे दोषमाह —

सम्यगिति ।

तत्पूर्वकमनुष्ठानमादिशब्दार्थः ।

सम्यग्ज्ञानाविस्रम्भे दोषान्तरमाह —

सर्वञ्चेति ।

ज्ञानादज्ञानध्वंसे तदुत्थमिथ्याज्ञानस्य सविषयस्य बाधितत्वान्न विदुषो रागादिरित्युपपाद्य ज्ञानान्मोक्षे तज्जन्ममात्रेण शरीरं स्थितिहेत्वभावात्पतेदिति सद्योमुक्तिपक्षं प्रत्याह —

एतेनेति ।

प्रवृत्तफलस्य कर्मणो भोगादृते क्षयो नास्तीत्युक्तेन न्यायेनेति यावत् ।

आरब्धकर्मणा देहस्थितिमुक्त्वेतरेषां ज्ञाननिवर्त्यत्वमुपसम्हरति —

ज्ञानोत्पत्तेरिति ।

तस्य ह न देवाश्च नेति विदुषो विद्यफलप्राप्तौ विघ्ननिषेधश्रुत्यनुपपत्त्या यथोक्तोऽर्थोभातीत्यर्थः ।

न केवलं श्रुतार्थापत्त्या यथोक्तार्थसिद्धिः किन्तु श्रुतिस्मृतिभ्यामपीत्याह —

क्षीयन्ते चेत्यादिना ।