ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥
यत्तु ऋणैः प्रतिबध्यत इति, तन्न अविद्यावद्विषयत्वात् — अविद्यावान्हि ऋणी, तस्य कर्तृत्वाद्युपपत्तेः, ‘यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्’ (बृ. उ. ४ । ३ । ३१) इति हि वक्ष्यति — अनन्यत् सद्वस्तु आत्माख्यं यत्राविद्यायां सत्यामन्यदिव स्यात् तिमिरकृतद्वितीयचन्द्रवत् तत्राविद्याकृतानेककारकापेक्षं दर्शनादिकर्म तत्कृतं फलं च दर्शयति, तत्रान्योऽन्यत्पश्येदित्यादिना ; यत्र पुनर्विद्यायां सत्यामविद्याकृतानेकत्वभ्रमप्रहाणम् , ‘तत्केन कं पश्येत्’ (बृ. उ. ४ । ३ । ३१) इति कर्मासम्भवं दर्शयति, तस्मादविद्यावद्विषय एव ऋणित्वम् , कर्मसम्भवात् , नेतरत्र । एतच्चोत्तरत्र व्याचिख्यासिष्यमाणैरेव वाक्यैर्विस्तरेण प्रदर्शयिष्यामः ॥