बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥
तद्यथेहैव तावत् — अथ यः कश्चिदब्रह्मवित् , अन्यामात्मनो व्यतिरिक्तां यां काञ्चिद्देवताम् , उपास्ते स्तुतिनमस्कारयागबल्युपहारप्रणिधानध्यानादिना उप आस्ते तस्या गुणभावमुपगम्य आस्ते — अन्योऽसावनात्मा मत्तः पृथक् , अन्योऽहमस्म्यधिकृतः, मया अस्मै ऋणिवत्प्रतिकर्तव्यम् — इत्येवंप्रत्ययः सन्नुपास्ते, न स इत्थंप्रत्ययः वेद विजानाति तत्त्वम् । न स केवलमेवंभूतः अविद्वान् अविद्यादोषवानेव, किं तर्हि, यथा पशुः गवादिः वाहनदोहनाद्युपकारैरुपभुज्यते, एवं सः इज्याद्यनेकोपकारैरुपभोक्तव्यत्वात् एकैकेन देवादीनाम् ; अतः पशुरिव सर्वार्थेषु कर्मस्वधिकृत इत्यर्थः । एतस्य हि अविदुषो वर्णाश्रमादिप्रविभागवतोऽधिकृतस्य कर्मणो विद्यासहितस्य केवलस्य च शास्त्रोक्तस्य कार्यं मनुष्यत्वादिको ब्रह्मान्त उत्कर्षः ; शास्त्रोक्तविपरीतस्य च स्वाभाविकस्य कार्यं मनुष्यत्वादिक एव स्थावरान्तोऽपकर्षः ; यथा चैतत् तथा ‘अथ त्रयो वाव लोकाः’ (बृ. उ. १ । ५ । १६) इत्यादिना वक्ष्यामः कृत्स्नेनैवाध्यायशेषेण । विद्यायाश्च कार्यं सर्वात्मभावापत्तिरित्येतत् सङ्क्षेपतो दर्शितम् । सर्वा हि इयमुपनिषत् विद्याविद्याविभागप्रदर्शनेनैवोपक्षीणा । यथा च एषोऽर्थः कृत्स्नस्य शास्त्रस्य तथा प्रदर्शयिष्यामः ॥

तदक्षराणि व्याकरोति —

अथेत्यादिना ।

विद्यासूत्रानन्तर्यमविद्यासूत्रस्याथशब्दार्थः । यागो गन्धपुष्पादिना पूजा । बल्युपहारो नैवेद्यसमर्पणम् । प्रणिधानमैकाग्र्यम् । ध्यानं तत्रैवानन्तरितप्रत्ययप्रवाहकरणम् । आदिपदं प्रदक्षिणादिग्रहणार्थम् ।

भेददर्शनमत्रोपासनं न शास्त्रीयमित्यभिप्रेत्यैतदेव विवृणोति —

अन्योऽसाविति ।

तस्य प्रदक्षिणादिग्रहणार्थम् ।

भेददर्शनमत्रोपासनं न शास्त्रीयमित्यभिप्रेत्यैतदेव विवृणोति —

अन्योऽसाविति ।

तस्य मूलमाह —

न स इति ।

वाक्यान्तरमवतार्य व्याचष्टे —

न स केवलमिति ।

सोऽविद्वानेवमुक्तदृष्टान्तवशात्पशुरिव देवानां भवति तेषां मध्ये तस्यैकैकेन बहुभिरुपकारैर्भोग्यत्वादिति योजना ।

पशुसाम्ये सिद्धमर्थं कथयति —

अत इति ।

अथानेनाविद्यासूत्रेण किं कृतं भवतीत्यपेक्षायामविद्यायाः संसारहेतुत्वं सूचितमिति वक्तुमविद्याकार्य कर्मफलं संक्षिपति —

एतस्येत्यादिना ।

कर्मसहायभूता विद्या देवताध्यानात्मिका । शास्त्रीयवत्स्वाभाविककर्मणोऽपि द्वैविध्यं सूचयितुं चशब्दः । तत्र तु सहकारिणीविद्या नग्नस्त्रीदर्शनादिरूपेति भेदः ।

कथं यथोक्तं कर्मफलमविद्यावतः स्यादित्याशङ्क्याऽऽह —

यथा चेति ।

सूत्रद्वैविध्यसिद्ध्यर्थं विद्यासूत्रार्थमनुक्रामति —

विद्यायाश्चेति ।

सूत्रान्तराशङ्कां वारयति —

सर्वा हीति ।

कथमेतदवगम्यते तत्राऽऽह —

यथेति ।