बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत् । अहं ब्रह्मास्मीति । तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यनृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति । तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशते । आत्मा ह्येषां स भवति अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान्भुनक्त्येकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ १० ॥
यस्मादेवम् , तस्मादविद्यावन्तं पुरुषं प्रति देवा ईशत एव विघ्नं कर्तुम् अनुग्रहं च इत्येतद्दर्शयति — यथा ह वै लोके, बहवो गोऽश्वादयः पशवः मनुष्यं स्वामिनमात्मनः अधिष्ठातारं भुञ्ज्युः पालयेयुः, एवं बहुपशुस्थानीयः एकैकः अविद्वान्पुरुषः देवान् — देवानिति पित्राद्युपलक्षणार्थम् — भुनक्ति पालयतीति — इमे इन्द्रादयः अन्ये मत्तो ममेशितारः भृत्य इवाहमेषां स्तुतिनमस्कारेज्यादिना आराधनं कृत्वा अभ्युदयं निःश्रेयसं च तत्प्रत्तं फलं प्राप्स्यामीत्येवमभिसन्धिः । तत्र लोके बहुपशुमतो यथा एकस्मिन्नेव पशावादीयमाने व्याघ्रादिना अपह्रियमाणे महदप्रियं भवति, तथा बहुपशुस्थानीय एकस्मिन्पुरुषे पशुभावात् व्युत्तिष्ठति, अप्रियं भवतीति — किं चित्रम् — देवानाम् , बहुपश्वपहरण इव कुटुम्बिनः । तस्मादेषां तन्न प्रियम् ; किं तत् ? यदेतद्ब्रह्मात्मतत्त्वं कथञ्चन मनुष्या विद्युः विजानीयुः । तथा च स्मरणमनुगीतासु भगवतो व्यासस्य — ‘क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः । न चैतदिष्टं देवानां मर्त्यैरुपरिवर्तनम्’ (अश्व. १९ । ६१) इति । अतो देवाः पशूनिव व्याघ्रादिभ्यः, ब्रह्मविज्ञानाद्विघ्नमाचिकीर्षन्ति — अस्मदुपभोग्यत्वान्मा व्युत्तिष्ठेयुरिति । यं तु मुमोचयिषन्ति, तं श्रद्धादिभिर्योक्ष्यन्ति, विपरीतमश्रद्धादिभिः । तस्मान्मुमुक्षुर्देवाराधनपरः श्रद्धाभक्तिपरः प्रणेयोऽप्रमादी स्यात् विद्याप्राप्तिं प्रति विद्यां प्रतीति वा काक्वैतत्प्रदर्शितं भवति देवाप्रियवाक्येन ॥

मनुष्याणामविद्यावतां देवपशुत्वे स्थिते फलितमाह —

यस्मादिति ।

तत्र प्रमाणत्वेनोत्तरं वाक्यमुत्थापयति —

एतदिति ।

किमिदमविद्यावतो देवादिपालनमित्याशङ्क्य वाक्यतात्पर्यमाह —

इम इन्द्रादय इति ।

अभिसन्धिरविद्यावतः पुरुषस्येति शेषः ।

एकस्मिन्नेवेत्यादिवाक्यमादाय व्याचष्टे —

तत्रेति ।

मनुष्याणां पशुभावाद्व्युत्थानमप्रियं देवानामिति स्थिते तदुपायमपि तत्त्वज्ञानं तेषां देवा विद्विषन्तीत्याह —

तस्मादिति ।

तत्त्वविद्यया दौलभ्यं कथञ्चनेत्युक्तम् ।

मनुष्याणामुत्कर्षं देवा न मृष्यन्तीत्यत्र प्रमाणमाह —

तथा चेति ।

तेषां ब्रह्मविद्यया कैवल्यप्राप्तिः सुतरामनिष्टेति भावः ।

देवादीनां मनुष्येषु ब्रह्मज्ञानस्याप्रियत्वेऽपि किं स्यादित्याशङ्क्याऽऽह —

अत इति ।

तेषां विघ्नमारचयतामभिप्रायमाह —

अस्मदिति ।

तर्हि देवादिभिरुपहतानां मनुष्याणां मुमुक्षैव न संपद्येतेत्याशङ्क्याऽऽह —

यं त्विति ।

उक्तं हि –
“न देवा दण्डमादाय रक्षन्ति पशुपालवत् ।
यं हि रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥”(विदुरनीति ३-४०)
इति ।

तर्हि किमिति सर्वानेव देवा नानुगृह्णन्तीत्याशङ्क्याऽऽह —

विपरीतमिति ।

देवतापराङ्मुखममुमोचयिषितमिति यावत् ।

संप्रति देवाप्रियवाक्येन ध्वनितमर्थमाह —

तस्मादिति ।

अविद्वत्सु मनुष्येषु देवादीनां स्वातन्त्र्यं तच्छब्दार्थः श्रद्धादिप्रधानस्तदाराधनपरः सन्देवादीनां प्रियः स्यात्तद्विपक्षस्य मुमुक्षावैफल्यादित्यर्थः ।

तत्प्रीत्विषयश्च तत्प्रसादासादितवैआग्यः सर्वाणि कर्माणि संन्यस्य विद्याप्रापकश्रवणादिकं प्रत्येकाग्रमनाः स्यादित्याह —

अप्रमादीति ।

श्रवणादिकमनुतिष्ठन्नपि वर्णाश्रमाचारपरो भवेदन्यथा विद्यालक्षणे फले प्रतिबन्धसंभवादित्याशयेनाऽऽह —

विद्यां प्रतीति ।

भयादिनिमित्ता ध्वनेर्विकृतिः काकुरुच्यते । यथाऽऽह –
’काकुः स्त्रियां विकारो यः शोकभीत्यादिभिध्वनेः’ इति ।

तया काक्वा काण्वश्रुतेः स्वरकम्पेन भयमुपलक्ष्य देवादिभजने कल्प्यते तात्पर्यमित्याह —

काक्वेति ॥१०॥