बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
ब्रह्म वा इदमग्र आसीदेकमेव तदेकं सन्न व्यभवत् । तच्छ्रेयोरूपमत्यसृजत क्षत्रं यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति । तस्मात्क्षत्रात्परं नास्ति तस्माद्ब्रह्मणः क्षत्रियमधस्तादुपास्ते राजसूये क्षत्र एव तद्यशो दधाति सैषा क्षत्रस्य योनिर्यद्ब्रह्म । तस्माद्यद्यपि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिं य उ एनं हिनस्ति स्वां स योनिमृच्छति स पापीयान्भवति यथा श्रेयां सं हिंसित्वा ॥ ११ ॥
ब्रह्म वा इदमग्र आसीत् — यदग्निं सृष्ट्वा अग्निरूपापन्नं ब्रह्म — ब्राह्मणजात्यभिमानात् ब्रह्मेत्यभिधीयते — वै, इदं क्षत्रादिजातम् , ब्रह्मैव, अभिन्नमासीत् , एकमेव - न आसीत्क्षत्रादिभेदः । तत् ब्रह्मैकं क्षत्रादिपरिपालयित्रादिशून्यं सत् , न व्यभवत् न विभूतवत् कर्मणे नालमासीदित्यर्थः । ततस्तद्ब्रह्म — ब्राह्मणोऽस्मि ममेत्थं कर्तव्यमिति ब्राह्मणजातिनिमित्तं कर्म चिकीर्षुः आत्मनः कर्मकर्तृत्वविभूत्यै, श्रेयोरूपं प्रशस्तरूपम् , अति असृजत अतिशयेन असृजत सृष्टवत् । किं पुनस्तत् , यत्सृष्टम् ? क्षत्रं क्षत्रियजातिः ; तद्व्यक्तिभेदेन प्रदर्शयति — यान्येतानि प्रसिद्धानि लोके, देवत्रा देवेषु, क्षत्त्राणीति — जात्याख्यायां पक्षे बहुवचनस्मरणात् व्यक्तिबहुत्वाद्वा भेदोपचारेण — बहुवचनम् । कानि पुनस्तानीत्याह — तत्राभिषिक्ता एव विशेषतो निर्दिश्यन्ते — इन्द्रो देवानां राजा, वरुणो यादसाम् , सोमो ब्राह्मणानाम् , रुद्रः पशूनाम् , पर्जन्यो विद्युदादीनाम् , यमः पितॄणाम् , मृत्युः रोगादीनाम् , ईशानो भासाम् — इत्येवमादीनि देवेषु क्षत्राणि । तदनु इन्द्रादिक्षत्रदेवताधिष्ठितानि मनुष्यक्षत्राणि सोमसूर्यवंश्यानि पुरूरवःप्रभृतीनि सृष्टान्येव द्रष्टव्यानि ; तदर्थ एव हि देवक्षत्रसर्गः प्रस्तुतः । यस्मात् ब्रह्मणा अतिशयेन सृष्टं क्षत्रम् , तस्मात्क्षत्रात्परं नास्ति ब्राह्मणजातेरपि नियन्तृ ; तस्माद्ब्राह्मणः कारणभूतोऽपि क्षत्रियस्य क्षत्रियम् अधस्तात् व्यवस्थितः सन् उपरि स्थितम् उपास्ते — क्व ? राजसूये । क्षत्र एव तत् आत्मीयं यशः ख्यातिरूपम् — ब्रह्मेति — दधाति स्थापयति ; राजसूयाभिषिक्तेन आसन्द्यां स्थितेन राज्ञा आमन्त्रितो ब्रह्मन्निति ऋत्विक् पुनस्तं प्रत्याह — त्वं राजन्ब्रह्मासीति ; तदेतदभिधीयते — क्षत्र एव तद्यशो दधातीति । सैषा प्रकृता क्षत्रस्य योनिरेव, यद्ब्रह्म । तस्मात् यद्यपि राजा परमतां राजसूयाभिषेकगुणं गच्छति आप्नोति — ब्रह्मैव ब्राह्मणजातिमेव, अन्ततः अन्ते कर्मपरिसमाप्तौ, उपनिश्रयति आश्रयति स्वां योनिम् — पुरोहितं पुरो निधत्त इत्यर्थः । यस्तु पुनर्बलाभिमानात् स्वां योनिं ब्राह्मणजातिं ब्राह्मणम् — य उ एनम् — हिनस्ति हिंसति न्यग्भावेन पश्यति, स्वामात्मीयामेव स योनिमृच्छति — स्वं प्रसवं विच्छिनत्ति विनाशयति । स एतत्कृत्वा पापीयान् पापतरो भवति ; पूर्वमपि क्षत्रियः पाप एव क्रूरत्वात् , आत्मप्रसवहिंसया सुतराम् ; यथा लोके श्रेयांसं प्रशस्ततरं हिंसित्वा परिभूय पापतरो भवति, तद्वत् ॥

ब्रह्मकण्डिकामित्थं व्याख्याय ब्रह्म वा इदमित्यादिवाक्यस्यातीतेन संबन्धं वक्तुं वृत्तं कीर्तयति —

सूत्रित इति ।

शास्त्रार्थशब्दो ब्रह्मविद्याविषयः ।

तदाहुरित्यादिनोक्तमनुवदति —

तस्य चेति ।

अर्थवादस्तद्यो यो देवानामित्यदिः । संबन्धो ज्ञानस्य सर्वापत्तिफलेन साध्यसाधनत्वमधिकारिणाऽऽश्रयाश्रयित्वमैक्येन विषयविषयित्वमिति विभागः ।

अविद्यासूत्रे वृत्तं कथयति —

अविद्यायाश्चेति ।

संसारस्याधिकारः प्रवृत्तिरुत्पत्तिरिति यावत् ।

यथा पशुरित्यादिनोक्तमनुभाषते —

तत्रेति ।

अविद्याधिकारः सप्तम्यर्थः ।

तत्राविद्याकार्यं प्रपञ्चयितुमध्यायशेषप्रवृत्तिरिति मन्वानोऽविद्याविवर्तचातुर्वर्ण्यसृष्टिप्रकटनार्थं तदेतद्ब्रह्मेत्यस्मात्प्राक्तनं वाक्यमित्याकाङ्क्षापूर्वकमाह —

किं पुनरिति ।

ब्रह्म वा इदमित्यादिवाक्यमिदमा परामृश्यते ।

वर्णानेव विशिनष्टि —

यन्निमित्तेति ।

यैर्निमित्तैर्ब्राह्मण्यादिभिः संबद्धेषु कर्मस्वयमविद्वानधिकृतः पशुरिव संसरतीति पशुनिदर्शनश्रुतौ प्रसिद्धं तानि निमित्तानि दर्शयितुमुत्तरं वाक्यं प्रवृत्तमित्यर्थः ।

अथेत्यभ्यमन्थदित्यत्रानुग्राहकदेवतासर्गं प्रक्रम्याग्नेरेव सृष्टिरुक्ता नेन्द्रादीनामत्र त्वविद्यां प्रस्तुत्य तेषां सोच्यते तत्र कः श्रुतेरभिप्रायस्तत्राऽऽह —

एतस्येति ।

पूर्वमग्निसर्गानन्तरमिन्द्रादिसर्गो वाच्योऽपि नोक्तः फलाभावात् । इह त्वविदुषस्तत्कार्यवर्णाद्यभिमानिनः कर्माधिकृतिरित्येतस्यार्थस्य प्रदर्शनार्थं तदाविद्यत्वविवक्षया स व्युत्पाद्यत इत्यर्थः ।

अग्निसर्गोऽपि तर्हि तद्वदत्रैव वाच्यो विशेषाभावादित्याशङ्क्याऽऽह —

अग्नेस्त्विति ।

प्रजापतेः सृष्टिपूर्तये चेदग्निसृष्टिस्तत्रोक्ता हतेन्द्रादिसर्गोऽपि तत्रैव वाच्योऽन्यथा तदपूर्तेरित्याशङ्क्याऽऽह —

अयञ्चेति ।

तर्हि तत्रोक्तस्य कस्मादत्रोक्तिः पुनरुक्तेरित्याशङ्क्यैतस्यैवार्थस्येत्यत्रोक्तं स्मारयति —

इह त्विति ।

संगतिमुक्त्वा वाक्यमादाय व्याचष्टे —

ब्रह्मेति ।

अग्रे क्षात्रादिसर्गात्पूर्वमिति यावत् ।

वैशब्दस्यावधारणार्थत्वं वदन्वाक्यार्थोक्तिपूर्वकमेकमित्यस्यार्थमाह —

इदमिति ।

द्वितीयमेवकारं व्याचष्टे —

नाऽऽसीदिति ।

कथं तर्हि तस्य कर्मानुष्ठानसामर्थ्यसिद्धिरित्याशङ्क्य समनन्तरवाक्यं व्याचष्टे —

तत इति ।

तदेवसृष्टमाकाङ्क्षाद्वारा स्पष्टयति —

किं पुनरिति ।

एका चेत्क्षत्रजातिः सृष्टा कथं तर्हि यान्येतानीति बहूक्तिरित्याशङ्क्याऽऽह –

तद्व्यक्तिभेदेनेति ।

क्षत्रजातेरेकत्वात्कथं क्षत्राणीति बहुवचनमित्याशङ्क्य ‘जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्’(प.सू१-२-५८) इति स्मृतिमाश्रित्याऽऽह —

जातीति ।

बहूक्तेगत्यन्तरमाह —

व्यक्तीति ।

तासां बहुत्वाज्जातेश्च तदभेदात्तत्रापि भेदमुपचर्य बहूक्तिरित्यर्थः । क्षत्राणीति बहुवचनमिति यावत् ।

तेषां विशेषतो ग्रहणं क्षत्रस्योत्तमत्वं ख्यापयितुमिति मन्वानः सन्नाह —

कानि पुनरित्यादिना ।

ननु किमिति देवेषु क्षत्त्रसृष्टिरुच्यते ब्राह्मणस्य कर्मानुष्ठानसामर्थ्यसिद्ध्यर्थं मनुष्येष्वेव तत्सृष्टिरुपदेष्टव्येत्याशङ्क्याऽऽह —

तदन्विति ।

तथाऽपि विवक्षिता सृष्टिर्मुखतो वक्तव्येत्याशङ्क्योपोद्घातोऽयमित्याह —

तदर्थ इति ।

तस्मादित्यादि व्याचष्टे —

यस्मादिति ।

क्षत्रस्य नियन्तृत्ववदुत्कर्षे हेत्वन्तरमाह —

तस्मादिति ।

ब्रह्मेति प्रसिद्धं ब्राह्मण्याख्यमिति यावत् ।

उक्तम्मेव प्रपञ्चयति —

राजसूयेति ।

आसन्द्यां मञ्चिकायाम् ।

क्षत्रे स्वकीयं यशः समर्पयतो ब्राह्मणस्य निष्कर्षमाशङ्क्याऽऽह —

सैषेति ।

तयोर्ब्राह्मणत्वस्य तुल्यत्वात्कुतोऽवान्तरभेदः क्षत्त्रमपि क्रतुकाले ब्राह्मण्यं प्राप्नोतीत्याशङ्क्याऽऽह —

तस्मादिति ।

क्षत्त्रस्य ब्रह्माभिभवे दोषश्रवणाच्च तस्य तदपेक्षया तद्गुणत्वमित्याह —

यस्त्विति ।

प्रमादादपीति वक्तुमुशब्दः । य उ एनं हिनस्तीति प्रतीकग्रहणं यस्तु पुनरित्यादिव्याख्यानमिति भेदः ।

ईयसुनस्तरबर्थस्य प्रयोगे हेतुमाह —

पूर्वमपीति ।

ब्राह्मणाभिभवे पापीयस्त्वमित्येतदुदाहरणेन बुद्धावारोपयति —

यथेति ॥११॥