मनुष्याणामविद्यावतां देवपशुत्वे स्थिते फलितमाह —
यस्मादिति ।
तत्र प्रमाणत्वेनोत्तरं वाक्यमुत्थापयति —
एतदिति ।
किमिदमविद्यावतो देवादिपालनमित्याशङ्क्य वाक्यतात्पर्यमाह —
इम इन्द्रादय इति ।
अभिसन्धिरविद्यावतः पुरुषस्येति शेषः ।
एकस्मिन्नेवेत्यादिवाक्यमादाय व्याचष्टे —
तत्रेति ।
मनुष्याणां पशुभावाद्व्युत्थानमप्रियं देवानामिति स्थिते तदुपायमपि तत्त्वज्ञानं तेषां देवा विद्विषन्तीत्याह —
तस्मादिति ।
तत्त्वविद्यया दौलभ्यं कथञ्चनेत्युक्तम् ।
मनुष्याणामुत्कर्षं देवा न मृष्यन्तीत्यत्र प्रमाणमाह —
तथा चेति ।
तेषां ब्रह्मविद्यया कैवल्यप्राप्तिः सुतरामनिष्टेति भावः ।
देवादीनां मनुष्येषु ब्रह्मज्ञानस्याप्रियत्वेऽपि किं स्यादित्याशङ्क्याऽऽह —
अत इति ।
तेषां विघ्नमारचयतामभिप्रायमाह —
अस्मदिति ।
तर्हि देवादिभिरुपहतानां मनुष्याणां मुमुक्षैव न संपद्येतेत्याशङ्क्याऽऽह —
यं त्विति ।
उक्तं हि –
“न देवा दण्डमादाय रक्षन्ति पशुपालवत् ।
यं हि रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥”(विदुरनीति ३-४०) इति ।
तर्हि किमिति सर्वानेव देवा नानुगृह्णन्तीत्याशङ्क्याऽऽह —
विपरीतमिति ।
देवतापराङ्मुखममुमोचयिषितमिति यावत् ।
संप्रति देवाप्रियवाक्येन ध्वनितमर्थमाह —
तस्मादिति ।
अविद्वत्सु मनुष्येषु देवादीनां स्वातन्त्र्यं तच्छब्दार्थः श्रद्धादिप्रधानस्तदाराधनपरः सन्देवादीनां प्रियः स्यात्तद्विपक्षस्य मुमुक्षावैफल्यादित्यर्थः ।
तत्प्रीत्विषयश्च तत्प्रसादासादितवैआग्यः सर्वाणि कर्माणि संन्यस्य विद्याप्रापकश्रवणादिकं प्रत्येकाग्रमनाः स्यादित्याह —
अप्रमादीति ।
श्रवणादिकमनुतिष्ठन्नपि वर्णाश्रमाचारपरो भवेदन्यथा विद्यालक्षणे फले प्रतिबन्धसंभवादित्याशयेनाऽऽह —
विद्यां प्रतीति ।
भयादिनिमित्ता ध्वनेर्विकृतिः काकुरुच्यते । यथाऽऽह –
’काकुः स्त्रियां विकारो यः शोकभीत्यादिभिध्वनेः’ इति ।
तया काक्वा काण्वश्रुतेः स्वरकम्पेन भयमुपलक्ष्य देवादिभजने कल्प्यते तात्पर्यमित्याह —
काक्वेति ॥१०॥