अपिपर्यायस्याथोशब्दस्यासंगतिमाशङ्क्य व्याकरोति —
अथो इतीति ।
परस्यापि प्रकृतत्वात्ततो विशिनष्टि —
गृहीति ।
गृहित्वे हेतुरविद्वानित्यादि ।
इतरपर्युदासार्थं कर्माधिकृत इत्युक्तम् । कथमुक्तस्याऽऽत्मनः सर्वभोग्यतेत्याशङ्क्याऽऽह —
सर्वेषामिति ।
तदेव प्रश्नद्वारा प्रकटयति —
कैः पुनरिति ।
यजतिजुहोत्योस्त्यागर्थत्वेनाविशेषात्पुनरुक्तिमाशङ्क्य यजतिचोदनाद्रव्यदेवताक्रियासमुदाये कृतार्थत्वादिति न्यायेनाऽऽह —
याग इति ।
आसेचनं प्रक्षेपः । उक्तञ्च – जुहोतिरासेचनावधिकः स्यादिति जै० सू० ४–२–२८ ।
यथोक्तसोमादिभिर्देवादीन्प्रत्युपकुर्वतो गृहिणौ विद्यया प्रतिबन्धसंभवात्तदुपकारित्वव्यावृत्तिरित्याशङ्क्याऽऽह —
यस्मादिति ।
पूर्वेषामथशब्दानामभिप्रेतमर्थमनूद्य समनन्तरवाक्यमनूद्य तदर्थमाह —
तस्मादिति ।
देवादीनां कर्माधिकारिणि कर्तृत्वादिपरिपालनमेव परिरक्षणमिति विवक्षित्वा पूर्वोक्तं स्मारयति —
तस्मादिति ।
यथोक्तं कर्म कुर्वन्यद्यपि देवादीन्प्रत्युपकरोति तथाऽपि न तत्कर्तृत्वमावश्यकं मानाभावादित्याशङ्क्याऽऽह —
तद्वा इति ।
भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञो ब्रह्मयज्ञश्चेत्येवं पञ्चमहायज्ञाः ।
ननु श्रुतमपि विचारं विना नानुष्ठेयं न हि रुद्ररोदनादि श्रुतमित्येवानुष्ठीयते तत्राऽऽह —
मीमांसितमिति ।
’तदेतदवदयते तद्यजते स यदग्नौ जुहोती’त्याद्यवधानप्रकरणम् । ‘ऋणं ह वाव जायते जायमानो योऽस्ती’त्यादिनाऽर्थवादेनेति शेषः ।