बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःपञ्चमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
यत्सप्तान्नानि मेधया तपसाजनयत्पिता । एकमस्य साधारणं द्वे देवानभाजयत् । त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत् । तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदा । यो वैतामक्षितिं वेद सोऽन्नमत्ति प्रतीकेन । स देवानपिगच्छति स ऊर्जमुपजीवतीति श्लोकाः ॥ १ ॥
यत्सप्तान्नानि मेधया । अविद्या प्रस्तुता ; तत्र अविद्वान् अन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति ; सः वर्णाश्रमाभिमानः कर्मकर्तव्यतया नियतो जुहोत्यादिकर्मभिः कामप्रयुक्तो देवादीनामुपकुर्वन् सर्वेषां भूतानां लोक इत्युक्तम् । यथा च स्वकर्मभिरेकैकेन सर्वैर्भूतैरसौ लोको भोज्यत्वेन सृष्टः, एवमसावपि जुहोत्यादिपाङ्क्तकर्मभिः सर्वाणि भूतानि सर्वं च जगत् आत्मभोज्यत्वेनासृजत ; एवम् एकैकः स्वकर्मविद्यानुरूप्येण सर्वस्य जगतो भोक्ता भोज्यं च, सर्वस्य सर्वः कर्ता कार्यं चेत्यर्थः ; एतदेव च विद्याप्रकरणे मधुविद्यायां वक्ष्यामः — सर्वं सर्वस्य कार्यं मध्विति आत्मैकत्वविज्ञानार्थम् । यदसौ जुहोत्यादिना पाङ्क्तेन काम्येन कर्मणा आत्मभोज्यत्वेन जगदसृजत विज्ञानेन च, तज्जगत्सर्वं सप्तधा प्रविभज्यमानं कार्यकारणत्वेन सप्तान्नान्युच्यन्ते, भोज्यत्वात् ; तेनासौ पिता तेषामन्नानाम् । एतेषामन्नानां सविनियोगानां सूत्रभूताः सङ्क्षेपतः प्रकाशकत्वात् इमे मन्त्राः ॥

ब्राह्मणान्तरमवतार्य संगतिं वक्तुं वृत्तं कीर्तयति —

यत्सप्तान्नानीत्यादिना ।

तत्रेत्यतिक्रान्तब्राह्मणोक्तिः । उपास्तिशब्दितं भेददर्शनमविद्याकार्यमनेनानूद्य न स वेदेति तद्धेतुरविद्या पूर्वत्र प्रस्तुतेति योजना ।

अथो अयमित्यत्रोक्तमनुवदति —

सवर्णाश्रमाभिमान इति ।

आत्मैवेदमग्र आसीदित्यादावुक्तं स्मारयति —

कामप्रयुक्त इति ।

वृत्तमनूद्योत्तरग्रन्थमवतारयितुमपेक्षितं पूरयति —

यथा चेति ।

गृहिणो जगतश्च परस्परं स्वकर्मोपार्जितत्वमेष्टव्यमन्यथाऽन्योन्यमुपकारकत्वायोगादित्यर्थः ।

ननु सूत्रस्यैव जगत्कर्तृत्वं ज्ञानक्रियातिशयवत्त्वान्नेतरेषां तदभावादत आह —

एवमिति ।

पूर्वकल्पीयविहितप्रतिषिद्धज्ञानकर्मानुष्ठाता सर्वो जन्तुरुत्तरसर्गस्य पितृत्वेनात्र विवक्षितो न तु प्रजापतिरेवेत्युक्तमर्थं संक्षिप्याऽऽह —

सर्वस्येति ।

सर्वस्य मिथो हेतुहेतुमत्त्वे प्रमाणमाह —

एतदेवेति ।

सर्वस्यान्योन्यकार्यकारणत्वोक्त्या कल्पितत्ववचनं कुत्रोपयुज्यते तत्राऽऽह —

आत्मैकत्वेति ।

एवं भूमिकां कृत्वोत्तरब्राह्मणतात्पर्यमाह —

यदसाविति ।

उच्यन्ते ध्यानार्थमिति शेषः ।

अन्यत्वे हेतुः —

भोज्यत्वादिति ।

तेन ज्ञानकर्मभ्यां जनकत्वेनेति यावत् ।

ब्राह्मणमवतार्य मन्त्रमवतारयति —

एतेषामिति ॥१॥