बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
आत्मैवेदमग्र आसीदेक एव सोऽकामयत जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेत्येतावान्वै कामो नेच्छंश्चनातो भूयो विन्देत्तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते तस्यो कृत्स्नता मन एवास्यात्मा वाग्जाया प्राणः प्रजा चक्षुर्मानुषं वित्तं चक्षुषा हि तद्विन्दते श्रोत्रं देवं श्रोत्रेण हि तच्छृणोत्यात्मैवास्य कर्मात्मना हि कर्म करोति स एष पाङ्क्तो यज्ञः पाङ्क्तः पशुः पाङ्क्तः पुरुषः पाङ्क्तमिदं सर्वं यदिदं किञ्च तदिदं सर्वमाप्नोति य एवं वेद ॥ १७ ॥
आत्मैवेदमग्र आसीत् । आत्मैव — स्वाभाविकः अविद्वान् कार्यकरणसङ्घातलक्षणो वर्णी अग्रे प्राग्दारसम्बन्धात् आत्मेत्यभिधीयते ; तस्मादात्मनः पृथग्भूतं काम्यमानं जायादिभेदरूपं नासीत् ; स एवैक आसीत् — जायाद्येषणाबीजभूताविद्यावानेक एवासीत् । स्वाभाविक्या स्वात्मनि कर्त्रादिकारकक्रियाफलात्मकताध्यारोपलक्षणया अविद्यावासनया वासितः सः अकामयत कामितवान् । कथम् ? जाया कर्माधिकारहेतुभूता मे मम कर्तुः स्यात् ; तया विना अहमनधिकृत एव कर्मणि ; अतः कर्माधिकारसम्पत्तये भवेज्जाया ; अथाहं प्रजायेय प्रजारूपेणाहमेवोत्पद्येय ; अथ वित्तं मे स्यात् कर्मसाधनं गवादिलक्षणम् ; अथाहमभ्युदयनिःश्रेयससाधनं कर्म कुर्वीय — येनाहमनृणी भूत्वा देवादीनां लोकान्प्राप्नुयाम् , तत्कर्म कुर्वीय, काम्यानि च पुत्रवित्तस्वर्गादिसाधनानि एतावान्वै कामः एतावद्विषयपरिच्छिन्न इत्यर्थः ; एतावानेव हि कामयितव्यो विषयः - यदुत जायापुत्रवित्तकर्माणि साधनलक्षणैषणा, लोकाश्च त्रयः — मनुष्यलोकः पितृलोको देवलोक इति — फलभूताः साधनैषणायाश्चास्याः ; तदर्था हि जायापुत्रवित्तकर्मलक्षणा साधनैषणा ; तस्मात् सा एकैव एषणा, या लोकैषणा ; सा एकैव सती एषणा साधनापेक्षेति द्विधा ; अतोऽवधारयिष्यति ‘उभे ह्येते एषणे एव’ (बृ. उ. ३ । ५ । १) इति । फलार्थत्वात्सर्वारम्भस्य लोकैषणा अर्थप्राप्ता उक्तैवेति — एतावान्वै एतावानेव काम इति अवध्रियते ; भोजनेऽभिहिते तृप्तिर्न हि पृथगभिधेया, तदर्थत्वाद्भोजनस्य । ते एते एषणे साध्यसाधनलक्षणे कामः, येन प्रयुक्तः अविद्वान् अवश एव कोशकारवत् आत्मानं वेष्टयति — कर्ममार्ग एवात्मानं प्रणिदधत् बहिर्मुखीभूतः न स्वं लोकं प्रतिजानाति ; तथा च तैत्तिरीयके — ‘अग्निमुग्धो हैव धूमतान्तः स्वं लोकं न प्रतिजानाति’ (तै. ब्रा. ३ । १० । ११) इति । कथं पुनरेतावत्त्वमवधार्यते कामानाम् , अनन्तत्वात् ; अनन्ता हि कामाः — इत्येतदाशङ्क्य हेतुमाह — यस्मात् — न - इच्छन् - चन — इच्छन्नपि, अतः अस्मात्फलसाधनलक्षणात् , भूयः अधिकतरम् , न विन्देत् न लभेत ; न हि लोके फलसाधनव्यतिरिक्तं दृष्टमदृष्टं वा लब्धव्यमस्ति ; लब्धव्यविषयो हि कामः ; तस्य चैतद्व्यतिरेकेणाभावाद्युक्तं वक्तुम् — एतावान्वै काम इति । एतदुक्तं भवति — दृष्टार्थमदृष्टार्थं वा साध्यसाधनलक्षणम् अविद्यावत्पुरुषाधिकारविषयम् एषणाद्वयं कामः ; अतोऽस्माद्विदुषा व्युत्थातव्यमिति । यस्मात् एवमविद्वाननात्मकामी पूर्वः कामयामास, तथा पूर्वतरोऽपि ; एषा लोकस्थितिः ; प्रजापतेश्चैवमेष सर्ग आसीत् — सोऽबिभेदविद्यया, ततः कामप्रयुक्तः एकाक्यरममाणोऽरत्युपघाताय स्त्रियमैच्छत् , तां समभवत् , ततः सर्गोऽयमासीदिति हि उक्तम् — तस्मात् तत्सृष्टौ एतर्हि एतस्मिन्नपि काले एकाकी सन् प्राग्दारक्रियातः कामयते — जाया मे स्यात् , अथ प्रजायेय, अथ वित्तं मे स्यात् , अथ कर्म कुर्वीयेत्युक्तार्थं वाक्यम् । सः — एवं कामयमानः सम्पादयंश्च जायादीन् यावत् सः एतेषां यथोक्तानां जायादीनाम् एकैकमपि न प्राप्नोति, अकृत्स्नः असम्पूर्णोऽहम् इत्येव तावत् आत्मानं मन्यते ; पारिशेष्यात्समस्तानेवैतान्सम्पादयति यदा, तदा तस्य कृत्स्नता । यदा तु न शक्नोति कृत्स्नतां सम्पादयितुं तदा अस्य कृत्स्नत्वसम्पादनाय आह — तस्यो तस्य अकृत्स्नत्वाभिमानिनः कृत्स्नतेयम् एवं भवति ; कथम् ? अयं कार्यकरणसङ्घातः प्रविभज्यते ; तत्र मनोऽनुवृत्ति हि इतरत्सर्वं कार्यकरणजातमिति मनः प्रधानत्वात् आत्मेव आत्मा — यथा जायादीनां कुटुम्बपतिरात्मेव तदनुकारित्वाज्जायादिचतुष्टयस्य, एवमिहापि मन आत्मा परिकल्प्यते कृत्स्नतायै । तथा वाग्जाया मनोऽनुवृत्तित्वसामान्याद्वाचः । वागिति शब्दश्चोदनादिलक्षणो मनसा श्रोत्रद्वारेण गृह्यते अवधार्यते प्रयुज्यते चेति मनसो जायेव वाक् । ताभ्यां च वाङ्मनसाभ्यां जायापतिस्थानीयाभ्यां प्रसूयते प्राणः कर्मार्थमिति प्राणः प्रजेव । तत्र प्राणचेष्टादिलक्षणं कर्म चक्षुर्दृष्टवित्तसाध्यं भवतीति चक्षुर्मानुषं वित्तम् ; तत् द्विविधं वित्तम् — मानुषम् इतरच्च ; अतो विशिनष्टि इतरवित्तनिवृत्त्यर्थं मानुषमिति ; गवादि हि मनुष्यसम्बन्धिवित्तं चक्षुर्ग्राह्यं कर्मसाधनम् ; तस्मात्तत्स्थानीयम् , तेन सम्बन्धात् चक्षुर्मानुषं वित्तम् ; चक्षुषा हि यस्मात् तन्मानुषं वित्तं विन्दते गवाद्युपलभत इत्यर्थः । किं पुनरितरद्वित्तम् ? श्रोत्रं दैवम् — देवविषयत्वाद्विज्ञानस्य विज्ञानं दैवं वित्तम् ; तदिह श्रोत्रमेव सम्पत्तिविषयम् ; कस्मात् ? श्रोत्रेण हि यस्मात् तत् दैवं वित्तं विज्ञानं शृणोति ; अतः श्रोत्राधीनत्वाद्विज्ञानस्य श्रोत्रमेव तदिति । किं पुनरेतैरात्मादिवित्तान्तैरिह निर्वर्त्यं कर्मेत्युच्यते — आत्मैव — आत्मेति शरीरमुच्यते ; कथं पुनरात्मा कर्मस्थानीयः ? अस्य कर्महेतुत्वात् । कथं कर्महेतुत्वम् ? आत्मना हि शरीरेण यतः कर्म करोति । तस्य अकृत्स्नत्वाभिमानिन एवं कृत्स्नता सम्पन्ना — यथा बाह्या जायादिलक्षणा एवम् । तस्मात्स एष पाङ्क्तः पञ्चभिर्निर्वृत्तः पाङ्क्तः यज्ञः दर्शनमात्रनिर्वृत्तः अकर्मिणोऽपि । कथं पुनरस्य पञ्चत्वसम्पत्तिमात्रेण यज्ञत्वम् ? उच्यते — यस्मात् बाह्योऽपि यज्ञः पशुपुरुषसाध्यः, स च पशुः पुरुषश्च पाङ्क्तः एव, यथोक्तमनआदिपञ्चत्वयोगात् ; तदाह — पाङ्क्तः पशुः गवादिः, पाङ्क्तः पुरुषः — पशुत्वेऽपि अधिकृतत्वेनास्य विशेषः पुरुषस्येति पृथक्पुरुषग्रहणम् । किं बहुना पाङ्क्तमिदं सर्वं कर्मसाधनं फलं च, यदिदं किञ्च यत्किञ्चिदिदं सर्वम् । एवं पाङ्क्तं यज्ञमात्मानं यः सम्पादयति सः तदिदं सर्वं जगत् आत्मत्वेन आप्नोति — य एवं वेद ॥

आत्मैवेत्यादिना ; जायादीति ; स्वाभाविक्येति ; कथमिति ; तयेति ; येनेति ; काम्यानि चेति ; साधनलक्षणेति ; तदर्था हीति ; सैकेति ; अत इति ; फलार्थत्वादिति ; भोजन इति ; ते एते इति ; कर्ममार्ग इति ; कथमित्यादिना ; न हीति ; लब्धव्येति ; एतदुक्तमिति ; यस्मादिति ; प्रजापतेश्चेति ; सोऽबिभेदित्यादिना ; तस्मादिति ; स एवमिति ; पारशेष्यादिति ; यदेत्यादिना ; कथमिति ; अयमिति ; तत्रेति ; यथेति ; मन इति ; वागितीति ; ताभ्याञ्चेति ; तत्रेति ; तद्विविधमिति ; गवादीति ; तेन संबन्धादिति ; चक्षुषा हीति ; किं पुनरिति ; देवेति ; कस्मादित्यादिना ; किं पुनरित्यादिना ; कथं पुनरिति ; तस्येति ; तस्मादिति ; पशुत्वेऽपीति ; किं बहुनेति ; एवमिति ; य एवं वेदेति ;

एवं तात्पर्यमुक्त्वा प्रतीकमादय पदानि व्याकरोति —

आत्मैवेत्यादिना ।

वर्णी द्विजत्वद्योतको ब्रह्मचारीति यावत् ।

कथं तर्हि हेत्वभावे तस्य कामित्वमपि स्यादित्याशङ्क्याऽऽह —

जायादीति ।

सशब्दं व्याकुर्वन्नुत्तरवाक्यमादयावशिष्टं व्याचष्टे —

स्वाभाविक्येति ।

कामनाप्रकारं प्रश्नपूर्वकं प्रकटयति —

कथमिति ।

कर्माधिकारहेतुत्वं तस्याः साधयति —

तयेति ।

प्रजां प्रति जायाया हेतुत्वद्योतकोऽथशब्दः । प्रजाया मानुषवित्तान्तर्भावमभ्युपेत्य द्वितीयोऽथशब्दः । तृतीयस्तु वित्तस्य कर्मानुष्ठानहेतुत्वविवक्षयेति विभागः ।

कर्मानुष्ठानफलमाह —

येनेति ।

तत्किं नित्यनैमित्तिककर्मणामेवानुष्ठानं नेत्याह —

काम्यानि चेति ।

क्रियापदमनुक्रष्टुं चशब्दः कामशब्दस्य यथाश्रुतमर्थं गृहीत्वैतावानित्यादिवाक्यस्याभिप्रायमाह —

साधनलक्षणेति ।

अस्याः साधनैषणायाः फलभूता इति संबन्धः ।

द्वयोरेषणात्वमुक्त्वा लोकैषणां परिशिनष्टि —

तदर्था हीति ।

कथं तर्हि साधनैषणोक्तिरित्याशङ्क्याऽऽह —

सैकेति ।

एतेन वाक्यशेषोऽप्यनुगुणी भवतीत्याह —

अत इति ।

साधनवत्फलमपि काममात्रं चेत्कथं तर्हि श्रुत्या साधनमात्रमभिधायैतावानवध्रियते तत्राह —

फलार्थत्वादिति ।

उक्ते साधने साध्यमार्थिकमित्यत्र दृष्टान्तमाह —

भोजन इति ।

साधनोक्तौ साध्यस्यार्थादुक्तेरेतावानिति द्वयोरनुवादेऽपि कथमेषणार्थे कामशब्दस्तत्र प्रयुज्यते, न हि तौ पर्यायौ, न च तदवाच्यत्वे तयोरनर्थकतेत्याशङ्क्य पर्यायत्वमेषणाकामशब्दयोरुपेत्याह —

ते एते इति ।

चेष्टनमेव स्पष्टयति —

कर्ममार्ग इति ।

अग्निमुग्धोऽग्निरेव होमादिद्वारेण मम श्रेयःसाधनं नाऽऽत्मज्ञानमित्यभिमानवान्धूमतान्तो धूमेन ग्लानिमापन्नो धूमता वा ममान्ते देहावसाने भवतीति मन्यमानः ‘ते धूममभसंभवन्ती’ति श्रुतेः । स्वं लोकमात्मानम् ।

वाक्यान्तरमत्थाप्य व्याचष्टे —

कथमित्यादिना ।

तस्मादेतावत्त्वमवधार्यते तेषामिति शेषः ।

उक्तमेवार्थं लोकदृष्टिमवष्टभ्य स्पष्टयति —

न हीति ।

लब्धव्यान्तराभावेऽपि कामयितव्यान्तरं स्यादित्याशङ्क्याऽऽह –

लब्धव्येति ।

एतद्व्यतिरेकेण साध्यसाधनातिरेकेणेति यावत् ।

तयोर्द्वयोरपि कामत्वविधायिश्रुतेरभिप्रायमाह —

एतदुक्तमिति ।

कामस्यानर्थत्वात्साध्यसाधनयोश्च तावन्मात्रत्वात्सर्गादौ पुमर्थताविश्वासं त्यक्त्वा स्वप्नलाभतुल्याभ्यस्त्रिसृभ्योऽप्येषणाभ्यो व्युत्थानं संन्यासात्मकं कृत्वा काङ्क्षितमोक्षहेतुं ज्ञानमुद्धिश्य श्रवणाद्यावर्तयेदित्यर्थः ।

तस्मादपीत्यादि व्याचष्टे —

यस्मादिति ।

प्राकृतस्थितिरेषा न बुद्धिपूर्वकारिणामिदं वृत्तमित्याशङ्क्याऽऽह —

प्रजापतेश्चेति ।

तत्र हेतुत्वेन पूर्वोक्तं स्मारयति —

सोऽबिभेदित्यादिना ।

तत्रैव कार्यलिङ्गकानुमानं सूचयति —

तस्मादिति ।

स यावदित्यादिवाक्यमादाय व्याचष्टे —

स एवमिति ।

पूर्वः सशब्दो वाक्यप्रदर्शनार्थः । द्वितीयस्तु व्याख्यानमध्यपातीत्यविरोधः ।

अर्थसिद्धमर्थमाह —

पारशेष्यादिति ।

तस्य कृत्स्नतेत्येतदवतार्य व्याकरोति —

यदेत्यादिना ।

अकृत्स्नत्वाभिमानिनो विरद्धं कृत्स्नत्वमित्याह —

कथमिति ।

विरोधमन्तरेण कार्त्स्न्यार्थं विभागं दर्शयति —

अयमिति ।

विभागे प्रस्तुते मनसो यजमानत्वकल्पनायां निमित्तमाह —

तत्रेति ।

उक्तमेव व्यनक्ति —

यथेति ।

तथा मनसो यजमानत्वकल्पनावदित्यर्थः ।

वाचि जायात्वकल्पनायां निमित्तमाह —

मन इति ।

वाचो मनोऽनुवृत्तित्वं स्वरूपकथनपुरःसरं स्पोरयति —

वागितीति ।

प्राणस्य प्रजात्वकल्पनां साधयति —

ताभ्याञ्चेति ।

कथं पुनश्चक्षुर्मानुषं वित्तमित्युच्यते पशुहिरण्यादि तथेत्याशङ्क्याऽऽह —

तत्रेति ।

आत्मादित्रये सिद्धे सतीति यावत् । आदिपदेन कायचेष्टा गृह्यते ।

मानुषमिति विशेषणस्यार्थवत्त्वं समर्थयते —

तद्विविधमिति ।

संप्रति चक्षुशो मानुषवित्तत्वं प्रपञ्चयति —

गवादीति ।

तत्पदपरामृष्टमेवार्थं व्याचष्टे —

तेन संबन्धादिति ।

तत्स्थानीयं मानुषवित्तस्थानीयं तेन मानुषेण वित्तेनेत्येतत् ।

संबन्धमेव साधयति —

चक्षुषा हीति ।

तस्माच्चक्षुर्मानुषं वित्तमिति शेषः ।

आकाङ्क्षापूर्वकमुत्तरवाक्यमुपादत्ते —

किं पुनरिति ।

तद्व्याचष्टे —

देवेति ।

तत्र हेतुमाह —

कस्मादित्यादिना ।

यजमानादिनिर्वर्त्यं कर्म प्रश्नपूर्वकं विशदयति —

किं पुनरित्यादिना ।

इहेति संपत्तिपक्षोक्तिः ।

शरीरस्य कर्मत्वप्रसिद्धमिति शङ्कित्वा परिहरति —

कथं पुनरिति ।

अस्येति यजमानोक्तिः । हिशब्दार्थो यत इत्यनूद्यते ।

तस्य कृत्स्नतेत्युक्तमुपसंहरति —

तस्येति ।

उक्तरीत्या कृत्स्नत्वे सिद्धे फलितमाह —

तस्मादिति ।

अस्येति दर्शनोक्तिः । पशोः पुरुषस्य च पाङ्कत्वं तच्छब्दार्थः ।

पुरुषस्य पशुत्वाविशेषात्पृथग्ग्रहणमयुक्तमित्याशङ्क्याऽऽह —

पशुत्वेऽपीति ।

न केवलं पशुपुरुषयोरेव पाङ्कत्वं किन्तु सर्वस्येत्याह —

किं बहुनेति ।

तस्मादाध्यात्मिकस्य दर्शनस्य यज्ञत्वं पञ्चत्वयोगादविरुद्धमिति शेषः ।

संपत्तिफलं व्याकरोति —

एवमिति ।

व्याख्यातार्थवाक्यमनुवदन्ब्राह्मणमुपसंहरति —

य एवं वेदेति ।

साध्यं साधनं च पाङ्कं सूत्रात्मना ज्ञात्वा तच्चाऽऽत्मत्वेनानुसन्धानस्य तदाप्तिरेव फलं तत्क्रतुन्यायादित्यर्थः ॥१७॥