बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते तेन देवानां लोकोऽथ यदनुब्रूते तेन ऋषीणामथ यत्पितृभ्यो निपृणाति यत्प्रजामिच्छते तेन पितृणामथ यन्मनुष्यान्वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयांस्या पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोको यथा ह वै स्वाय लोकायारिष्टिमिच्छेदेवं हैवंविदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति तद्वा एतद्विदितं मीमांसितम् ॥ १६ ॥
आत्मैवेदमग्र आसीत् । ब्रह्म विद्वांश्चेत् तस्मात्पशुभावात्कर्तव्यताबन्धनरूपात्प्रतिमुच्यते, केनायं कारितः कर्मबन्धनाधिकारे अवश इव प्रवर्तते, न पुनस्तद्विमोक्षणोपाये विद्याधिकार इति । ननूक्तं देवा रक्षन्तीति ; बाढम् — कर्माधिकारस्वगोचरारूढानेव तेऽपि रक्षन्ति, अन्यथा अकृताभ्यागमकृतनाशप्रसङ्गात् , न तु सामान्यं पुरुषमात्रं विशिष्टाधिकारानारूढम् ; तस्माद्भवितव्यं तेन, येन प्रेरितोऽवश एव बहिर्मुखो भवति स्वस्माल्लोकात् । नन्वविद्यया सा ; अविद्वान्हि बहिर्मुखीभूतः प्रवर्तते — सापि नैव प्रवर्तिका ; वस्तुस्वरूपावरणात्मिका हि सा ; प्रवर्तकबीजत्वं तु प्रतिपद्यते अन्धत्वमिव गर्तादिपतनप्रवृत्तिहेतुः । एतं तर्ह्युच्यतां किं तत् , यत्प्रवृत्तिहेतुरिति ; तदिहाभिधीयते — एषणा कामः सः, स्वाभाविक्यामविद्यायां वर्तमाना बालाः पराचः कामाननुयन्तीति काठकश्रुतौ, स्मृतौ च — ‘काम एष क्रोध एषः’ (भ. गी. ३ । ३७) इत्यादि, मानवे च — सर्वा प्रवृत्तिः कामहेतुक्येवेति । स एषोऽर्थः सविस्तरः प्रदर्श्यत इह आ अध्यायपरिसमाप्तेः ॥

वाक्यान्तरमादाय व्याख्यातुं पातनिकाङ्करोति —

आत्मैवेत्यादिना ।

कर्मैव बन्धनं तत्राधिकारोऽनुष्ठानं तस्मिन्निति यावत् । विद्याधिकारस्तदुपायै श्रवणादौ प्रवृत्तिस्तत्रेत्यर्थः ।

यथोक्ताधिकारिणो देवादिभी रक्षणं प्रवृत्तिमार्गे नियमेन प्रवर्तकमिति शङ्कते —

नन्विति ।

उक्तमङ्गीकरोति —

बाढमिति ।

तर्हि प्रवर्तकान्तरं न वक्तव्यं तत्राऽऽह —

कर्माधिकारेति ।

कर्मस्वधिकारेण स्वगोचरत्वं प्राप्तानेव देवादयोऽपि रक्षन्ति न सर्वाश्रमसाधारणं ब्रह्मचारिणमतोऽस्य कर्ममार्गे प्रवृत्तौ देवादिरक्षणस्याहेतुत्वाद्ब्रह्मचारिणो निवृत्तिं त्यक्त्वा प्रवृत्तिपक्षपाते कारणं वाच्यमित्यर्थः ।

मनुष्यमात्रं कर्मण्येव बलात्प्रवर्तयन्ति तेषामचिन्त्यशक्तित्वादित्याशङ्क्याऽऽह —

अन्यथेति ।

स्वगोचरारूढानेवेत्येवकारस्य व्यावर्त्यं कीर्तयति —

न त्विति ।

विशिष्टाधिकारो गृहस्थानुष्ठेयकर्मसु गृहस्थत्वेन स्वामित्वं तेन देवगोचरतामप्राप्तमित्यर्थः ।

देवादिरक्षणस्याकारणत्वे फलितमाह —

तस्मादिति ।

प्रत्यगविद्या यथोक्ताधिकारिणो नियमेन प्रवृत्त्यनुरागे हेतुरिति शङ्कते —

नन्विति ।

तदेव स्फुटयति —

अविद्वानिति ।

तस्याः स्वरूपेण प्रवर्तकत्वं दूषयति —

साऽपीति ।

अविद्यायस्तर्हि प्रवृत्त्यन्वयव्यतिरेकौ कथमित्याशङ्क्य कारणकारणत्वेनेत्याह —

प्रवर्तकेति ।

सत्यन्यस्मिन्कारणेऽकारणमेवाविद्या प्रवृत्तेरिति चेत्तत्राऽऽह —

एवं तर्हीति ।

उत्तरवाक्यमुत्तरत्वेनावतार्य तस्मिन्विवक्षितं प्रवर्तकं संक्षिपति —

तदिहाभिधीयत इति ।

तत्रार्थतः श्रुत्यन्तरं संवादयति —

स्वाभाविक्यामिति ।

तत्रैव भगवतः सम्मतिमाह —

स्मृतौ चेति ।

’अथ केन प्रयुक्तोऽयम्’ इत्यादिप्रश्नस्योत्तरम् –
‘काम एष क्रोध एष रजोगुणसमुद्भवः’(भ. गी. ३ । ३७) इत्यादि ।

’अकामतः क्रिया काचिद्दृश्यते नेह कस्यचित् ।
यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्’ ॥
इति वाक्यमाश्रित्याऽऽह —

मानवे चेति ।

दर्शितमिति शेषः ।

उक्तेऽर्थे तृतीयाध्यायशेषमपि प्रमाणयति —

स एषोऽर्थ इति ॥१६॥