बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते तेन देवानां लोकोऽथ यदनुब्रूते तेन ऋषीणामथ यत्पितृभ्यो निपृणाति यत्प्रजामिच्छते तेन पितृणामथ यन्मनुष्यान्वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयांस्या पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोको यथा ह वै स्वाय लोकायारिष्टिमिच्छेदेवं हैवंविदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति तद्वा एतद्विदितं मीमांसितम् ॥ १६ ॥
अथो इत्ययं वाक्योपन्यासार्थः । अयं यः प्रकृतो गृही कर्माधिकृतः अविद्वान् शरीरेन्द्रियसङ्घातादिविशिष्टः पिण्ड आत्मेत्युच्यते, सर्वेषां देवादीनां पिपीलिकान्तानां भूतानां लोको भोग्य आत्मेत्यर्थः, सर्वेषां वर्णाश्रमादिविहितैः कर्मभिरुपकारित्वात् । कैः पुनः कर्मविशेषैरुपकुर्वन्केषां भूतविशेषाणां लोकः इत्युच्यते — स गृही यज्जुहोति यद्यजतेयागो देवतामुद्दिश्य स्वत्वपरित्यागः, स एव आसेचनाधिको होमः — तेन होमयागलक्षणेन कर्मणा अवश्यकर्तव्यत्वेन देवानां पशुवत्परतन्त्रत्वेन प्रतिबद्ध इति लोकः ; अथ यदनुब्रूते स्वाध्यायमधीते अहरहः तेन ऋषीणां लोकः ; अथ यत्पितृभ्यो निपृणाति प्रयच्छति पिण्डोदकादि, यच्च प्रजामिच्छते प्रजार्थमुद्यमं करोति — इच्छा च उत्पत्त्युपलक्षणार्था — प्रजां चोत्पादयतीत्यर्थः, तेन कर्मणा अवश्यकर्तव्यत्वेन पितृणां लोकः पितॄणां भोग्यत्वेन परतन्त्रो लोकः ; अथ यन्मनुष्यान्वासयते भूम्युदकादिदानेन गृहे, यच्च तेभ्यो वसद्भ्योऽवसद्भ्यो वा अर्थिभ्यः अशनं ददाति, तेन मनुष्याणाम् ; अथ यत्पशुभ्यस्तृणोदकं विन्दति लम्भयति, तेन पशूनाम् ; यदस्य गृहेषु श्वापदा वयांसि च पिपीलिकाभिः सह कणबलिभाण्डक्षालनाद्युपजीवन्ति, तेन तेषां लोकः । यस्मादयमेतानि कर्माणि कुर्वन्नुपकरोति देवादिभ्यः, तस्मात् , यथा ह वै लोके स्वाय लोकाय स्वस्मै देहाय अरिष्ठिम् अविनाशं स्वत्वभावाप्रच्युतिम् इच्छेत् स्वत्वभावप्रच्युतिभयात्पोषणरक्षणादिभिः सर्वतः परिपालयेत् ; एवं ह, एवंविदे — सर्वभूतभोग्योऽहम् अनेन प्रकारेण मया अवश्यमृणिवत्प्रतिकर्तव्यम् — इत्येवमात्मानं परिकल्पितवते, सर्वाणि भूतानि देवादीनि यथोक्तानि, अरिष्ठिमविनाशम् इच्छन्ति स्वत्वाप्रच्युत्यै सर्वतः संरक्षन्ति कुटुम्बिन इव पशून् — ‘तस्मादेषां तन्न प्रियम्’ (बृ. उ. १ । ४ । १०) इत्युक्तम् । तद्वा एतत् तदेतत् यथोक्तानां कर्मणामृणवदवश्यकर्तव्यत्वं पञ्चमहायज्ञप्रकरणे विदितं कर्तव्यतया मीमांसितं विचारितं च अवदानप्रकरणे ॥

अपिपर्यायस्याथोशब्दस्यासंगतिमाशङ्क्य व्याकरोति —

अथो इतीति ।

परस्यापि प्रकृतत्वात्ततो विशिनष्टि —

गृहीति ।

गृहित्वे हेतुरविद्वानित्यादि ।

इतरपर्युदासार्थं कर्माधिकृत इत्युक्तम् । कथमुक्तस्याऽऽत्मनः सर्वभोग्यतेत्याशङ्क्याऽऽह —

सर्वेषामिति ।

तदेव प्रश्नद्वारा प्रकटयति —

कैः पुनरिति ।

यजतिजुहोत्योस्त्यागर्थत्वेनाविशेषात्पुनरुक्तिमाशङ्क्य यजतिचोदनाद्रव्यदेवताक्रियासमुदाये कृतार्थत्वादिति न्यायेनाऽऽह —

याग इति ।

आसेचनं प्रक्षेपः । उक्तञ्च – जुहोतिरासेचनावधिकः स्यादिति जै० सू० ४–२–२८ ।

यथोक्तसोमादिभिर्देवादीन्प्रत्युपकुर्वतो गृहिणौ विद्यया प्रतिबन्धसंभवात्तदुपकारित्वव्यावृत्तिरित्याशङ्क्याऽऽह —

यस्मादिति ।

पूर्वेषामथशब्दानामभिप्रेतमर्थमनूद्य समनन्तरवाक्यमनूद्य तदर्थमाह —

तस्मादिति ।

देवादीनां कर्माधिकारिणि कर्तृत्वादिपरिपालनमेव परिरक्षणमिति विवक्षित्वा पूर्वोक्तं स्मारयति —

तस्मादिति ।

यथोक्तं कर्म कुर्वन्यद्यपि देवादीन्प्रत्युपकरोति तथाऽपि न तत्कर्तृत्वमावश्यकं मानाभावादित्याशङ्क्याऽऽह —

तद्वा इति ।

भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञो ब्रह्मयज्ञश्चेत्येवं पञ्चमहायज्ञाः ।

ननु श्रुतमपि विचारं विना नानुष्ठेयं न हि रुद्ररोदनादि श्रुतमित्येवानुष्ठीयते तत्राऽऽह —

मीमांसितमिति ।

’तदेतदवदयते तद्यजते स यदग्नौ जुहोती’त्याद्यवधानप्रकरणम् । ‘ऋणं ह वाव जायते जायमानो योऽस्ती’त्यादिनाऽर्थवादेनेति शेषः ।