बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथो अयं वा आत्मा । अत्र अविद्वान्वर्णाश्रमाद्यभिमानो धर्मेण नियम्यमानो देवादिकर्मकर्तव्यतया पशुवत्परतन्त्र इत्युक्तम् । कानि पुनस्तानि कर्माणि, यत्कर्तव्यतया पशुवत्परतन्त्रो भवति ; के वा ते देवादयः, येषां कर्मभिः पशुवदुपकरोति — इति तदुभयं प्रपञ्चयति —

कण्डिकान्तरमवतार्य वृत्तमनूद्याऽऽकाङ्क्षापूर्वकं तात्पर्यमाह —

अथो इत्यादिना ।

अत्रेत्यविद्यावस्था पूर्वग्रन्थो वा दृश्यते ।