अर्थवादस्थं लिङ्गं न प्रकरणाद्बलवदिति मत्वा समाधत्ते —
नेत्यादिना ।
स्तुतिमेव स्पष्टयति —
स्वस्मादेवेति ।
लोकाज्ज्ञातादिति शेषः ।
यथा छान्दोग्ये स्तुत्यर्थमात्मनः स्रष्टृत्वमुच्यते तथाऽत्राप्यात्मलोकं स्तोतुमेतत्फलवचनमित्याह —
आत्मत इति ।
भवतु वा मा भूदस्माद्ध्येवेत्यादिरर्थवादस्तथाऽपि तस्य सर्वात्मत्वप्रदर्शनार्थत्वाद्युक्तमत्र लोकशब्देन परमात्मग्रहणमित्याह —
सर्वात्मेति ।
तस्मात्तत्सर्वमभवदिति वाक्यं दृष्टान्तयति —
पूर्ववदिति ।
किञ्चाऽऽत्मशब्दस्य त्रिधापरिच्छेदशून्यार्थवाचिताया यच्चाऽऽप्नोतीत्यादिन्यायेन सिद्धत्वात्तत्समानाधिकरणलोकशब्दस्यापि तदर्थत्वात्परस्यैवात्र लोकत्वमित्याह —
यदि हीति ।
किञ्च यदि लोकशब्देन परं हित्वाऽर्थान्तरमुच्यते तदा सविशेषणं वाक्यं स्यादन्यथा स्वं लोकमिति प्रकृतपरमात्मलोकस्य त्वत्पक्षेऽन्तरोक्तब्रह्मलोकस्य च व्यावृत्त्ययोगात् । न चात्र सविशेषणं वाक्यं दृष्टमतः स्वं लोकमिति प्रकृतः परमात्मैवात्रापि लोक इत्याह —
अन्यथेति ।
विशेषणं विनैवास्मादित्यत्र परापराभ्यामर्थान्तरं किं न स्यादित्याशङ्क्याऽऽह —
न हीति ।
स्वं लोकमिति प्रकृते परमात्मन्यात्मानमेवेति विशेषिते चाव्याकृताख्या परापराभ्यामन्तरालावस्था न प्रतिपत्तुं शक्यते तस्याः श्रुतत्वाभावादित्यर्थः ॥१५॥