बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तदेतद्ब्रह्म क्षत्रं विट्शूद्रस्तदग्निनैव देवेषु ब्रह्माभवद्ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शूद्रेण शूद्रस्तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येष्वेताभ्यां हि रूपाभ्यां ब्रह्माभवत् । अथ यो ह वा अस्माल्लोकात्स्वं लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाननूक्तोऽन्यद्वा कर्माकृतं यदिह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवात्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते । अस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते ॥ १५ ॥
स्वात्मलोकोपासकस्य विदुषो विद्यासंयोगात् कर्मैव न क्षीयत इत्यपरे वर्णयन्ति ; लोकशब्दार्थं च कर्मसमवायिनं द्विधा परिकल्पयन्ति किल — एको व्याकृतावस्थः कर्माश्रयो लोको हैरण्यगर्भाख्यः, तं कर्मसमवायिनं लोकं व्याकृतं परिच्छिन्नं य उपास्ते, तस्य किल परिच्छिन्नकर्मात्मदर्शिनः कर्म क्षीयते ; तमेव कर्मसमवायिनं लोकमव्याकृतावस्थं कारणरूपमापाद्य यस्तूपास्ते, तस्यापरिच्छिन्नकर्मात्मदर्शित्वात्तस्य कर्म न क्षीयत इति । भवतीयं शोभना कल्पना, न तु श्रौती, स्वलोकशब्देन प्रकृतस्य परमात्मनोऽभिहितत्वात् , स्वं लोकमिति प्रस्तुत्य स्वशब्दं विहाय आत्मशब्दप्रक्षेपेण पुनस्तस्यैव प्रतिनिर्देशात् — आत्मानमेव लोकमुपासीतेति ; तत्र कर्मसमवायिलोककल्पनाया अनवसर एव । परेण च केवलविद्याविषयेण विशेषणात् — ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४ । ४ । २२) इति ; पुत्रकर्मापरविद्याकृतेभ्यो हि लोकेभ्यो विशिनष्टि — अयमात्मा नो लोक इति, ‘न हास्य केनचन कर्मणा लोको मीयत एषोऽस्य परमो लोकः’ (कौ. उ. ३ । १) इति च । तैः सविशेषणैः अस्यैकवाक्यता युक्ता, इहापि स्वं लोकमिति विशेषणदर्शनात् । अस्मात्कामयत इत्ययुक्तमिति चेत् — इह स्वो लोकः परमात्मा ; तदुपासनात्स एव भवतीति स्थिते, यद्यत्कामयते तत्तदस्मादात्मनः सृजत इति

आत्मानमित्यादि केवलज्ञानान्मुक्तिरित्येवम्परतया व्याख्यातं संप्रति तत्र भर्तृप्रपञ्चव्याख्यामुत्थापयति —

स्वात्मेति ।

आत्मलोकोपासकस्य कर्माभावे कथं तदक्षयवाचोयुक्तिरित्याशङ्क्य कर्माभावस्यासिद्धिमभिसन्धाय कर्मसाध्यं लोकं व्याकृताव्याकृतरूपेण भिनत्ति —

लोकशब्दार्थञ्चेति ।

औत्प्रेक्षिकी कल्पना न तु श्रौतीति वक्तुं किलेत्युक्तम् । तत्राऽऽद्यं लोकशब्दार्थमनूद्य तदुपासकस्य दोषमाह —

एक इति ।

परिच्छिन्नः कर्मात्मा तत्साध्यो व्याकृतावस्थो लोकस्तस्मिन्नहङ्ग्रहोपासकस्येति यावत् । किलशब्दस्तु पूर्ववत् ।

द्वितीयं लोकशब्दार्थमनूद्य तदुपासकस्य लाभं दर्शयति —

तमेवेति ।

यथा कुण्डलादेरन्तर्बहिरन्वेषणे सुवर्णातिरिक्तरूपानुपलम्भात्तद्रूपेणास्य नित्यत्वं तथा कर्मसाध्यं हिरण्यमर्गादिलोकं कार्यत्वादव्याकृतं कारणमेवेत्यङ्गीकृत्य यस्तस्मिन्नहम्बुद्ध्योपास्ये तस्यापरिच्छिन्नकर्मसाध्यलोकात्मोपासकत्वाद्ब्रह्मवित्त्वं कर्मित्वं च घटते तस्य खल्वात्मैव कर्म तेन तस्य तन्न क्षीयते । यः पुनरद्वैतावस्थामुपास्ते तस्याऽऽत्मैव कर्म भवतीति हि भर्तृप्रपञ्चैरुक्तमित्यर्थः ।

आत्मानमित्यादिसमुच्चयपरमिति प्राप्तं पक्षं प्रत्याह —

भवतीति ।

श्रौतत्वाभावे हेतुमाह —

स्वलोकेति ।

स्वं लोकमदृष्ट्वेत्यत्र स्वलोकशब्देन परस्य प्रकृतस्याऽत्मानमेवेत्यत्र प्रकृतहानाप्रकृतप्रक्रियापरिहारार्थमुक्तत्वान्नात्र लोकद्वैविद्यकल्पना युक्तेत्यर्थः ।

लोकशब्देनात्र परमात्मपरिग्रहे हेत्वन्तरमाह —

स्वं लोकमितीति ।

यथा लोकस्य स्वशब्दार्थो विशेषणं तथाऽऽत्मानमित्यत्र स्वशब्दपर्यायात्मशब्दार्थस्तस्य विशेषणं दृश्यते न च कर्मफलस्य मुक्त्यमात्मत्वमतो लोकशब्दोऽत्र परमात्मैवेत्यर्थः ।

प्रकरणाद्विशेषणाच्च सिद्धमर्थं दर्शयति —

तत्रेति ।

परस्यैव लोकशब्दार्थत्वे हेत्वन्तरमाह —

परेणेति ।

उक्तमेव प्रपञ्चयति —

पुत्रेति ।

अथ परेषु वाक्येषु परमात्मा लोकशब्दार्थः प्रकृते तु कर्मफलमिति व्यवस्थेति चेन्नैवमेकवाक्यत्वसंभवे तद्भेदस्यान्याय्यत्वादित्याह —

तैरिति ।

एकवाक्यत्वसंभावनामेव दर्शयति —

इहापीति ।

यथोत्तरत्राऽऽत्मादिशब्देन लोको विशेषिस्तथाऽऽत्मानमित्यत्राप्यात्मशब्देन विशेष्यते । पूर्ववाक्ये च स्वं लोकमदृष्ट्वेति स्वशब्देनाऽऽत्मवाचिना तस्य विशेषणं दृश्यते । तथा च पूर्वापरालोचनायामेकवाक्यत्वसिद्धिरित्यर्थः ।

प्रकरणेन तस्य लोकशब्दार्थत्वमयुक्तं लिङ्गविरोधादिति चोदयति —

अस्मादिति ।

तदेव विवृणोति —

इहेत्यादिना ।