बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तदेतद्ब्रह्म क्षत्रं विट्शूद्रस्तदग्निनैव देवेषु ब्रह्माभवद्ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शूद्रेण शूद्रस्तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येष्वेताभ्यां हि रूपाभ्यां ब्रह्माभवत् । अथ यो ह वा अस्माल्लोकात्स्वं लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाननूक्तोऽन्यद्वा कर्माकृतं यदिह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवात्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते । अस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते ॥ १५ ॥
ब्रह्मणा सृष्टा वर्णाः कर्मार्थम् ; तच्च कर्म धर्माख्यं सर्वानेव कर्तव्यतया नियन्तृ पुरुषार्थसाधनं च ; तस्मात्ते नैव चेत्कर्मणा स्वो लोकः परमात्माख्यः अविदितोऽपि प्राप्यते, किं तस्यैव पदनीयत्वेन क्रियत इत्यत आह — अथेति, पूर्वपक्षविनिवृत्त्यर्थः ; यः कश्चित् , ह वै अस्मात् सांसारिकात्पिण्डग्रहणलक्षणात् अविद्याकामकर्महेतुकात् अग्न्यधीनकर्माभिमानतया वा ब्राह्मणजातिमात्रकर्माभिमानतया वा आगन्तुकादस्वभूताल्लोकात् , स्वं लोकमात्माख्यम् आत्मत्वेनाव्यभिचारित्वात् , अदृष्ट्वा — अहं ब्रह्मास्मीति, प्रैति म्रियते ; स यद्यपि स्वो लोकः, अविदितः अविद्यया व्यवहितः अस्व इवाज्ञातः, एनम् — सङ्ख्यापूरण इव लौकिकः आत्मानम् — न भुनक्ति न पालयति शोकमोहभयादिदोषापनयेन यथा लोके च वेदः अननूक्तः अनधीतः कर्माद्यवबोधकत्वेन न भुनक्ति, अन्यद्वा लौकिकं कृष्यादि कर्म अकृतं स्वात्मना अनभिव्यञ्जितम् आत्मीयफलप्रदानेन न भुनक्ति, एवमात्मा स्वो लोकः स्वेनैव नित्यात्मस्वरूपेणानभिव्यञ्जितः अविद्यादिप्रहाणेन न भुनक्त्येव । ननु किं स्वलोकदर्शननिमित्तपरिपालनेन ? कर्मणः फलप्राप्तिध्रौव्यात् इष्टफलनिमित्तस्य च कर्मणो बाहुल्यात् तन्निमित्तं पालनमक्षयं भविष्यति — तन्न, कृतस्य क्षयवत्त्वादित्येतदाह — यत् इह वै संसारे अद्भुतवत् कश्चिन्महात्मापि अनेवंवित् स्वं लोकं यथोक्तेन विधिना अविद्वान् महत् बहु अश्वमेधादि पुण्यं कर्म इष्टफलमेव नैरन्तर्येण करोति — अनेनैवानन्त्यं मम भविष्यतीति, तत्कर्म ह अस्य अविद्यावतः अविद्याजनितकामहेतुत्वात् स्वप्नदर्शनविभ्रमोद्भूतविभूतवत् अन्ततः अन्ते फलोपभोगस्य क्षीयत एव ; तत्कारणयोरविद्याकामयोश्चलत्वात् कृतक्षयध्रौव्योपपत्तिः । तस्मान्न पुण्यकर्मफलपालनानन्त्याशा अस्त्येव । अत आत्मानमेव स्वं लोकम् — आत्मानमिति स्वं लोकमित्यस्मिन्नर्थे, स्वं लोकमिति प्रकृतत्वात् इह च स्वशब्दस्याप्रयोगात् — उपासीत । स य आत्मानमेव लोकमुपास्ते — तस्य किमित्युच्यते — न हास्य कर्म क्षीयते, कर्माभावादेव — इति नित्यानुवादः ; यथा अविदुषः कर्मक्षयलक्षणं संसारदुःखं सन्ततमेव, न तथा तदस्य विद्यत इत्यर्थः — ‘मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन’ (मो. ध. १७८ । २) इति यद्वत् ॥

उत्तरवाक्यव्यावर्त्यं पूर्वपक्षमाह —

ब्रह्मणेति ।

अत्पुनरचेतनमकिञ्चित्करमित्याशङ्क्याऽऽह —

तच्चेति ।

सर्वैरेव वणैः स्वस्य कर्तव्यतया तान्प्रति नियन्तृ भूत्वेति योजना ।

तस्य पुमर्थोपायत्वप्रसिद्धिमादाय फलितमाह —

तस्मादिति ।

अविदितोऽपीति च्छेदः ।

देवतागुणवत्कर्म मुक्तिहेतुरिति पक्षं प्रतिक्षेप्तुमुत्तरं वाक्यमुत्थापयति —

अत आहेति ।

झानादेव मुक्तिर्न कर्मणेत्यागमप्रसिद्धमिति निपातयोरर्थः ।

तत्र निमित्तमुपादानञ्चेति द्वयं संक्षिपति —

अविद्येति ।

निमित्तं निवृणोति —

अग्न्यधीनेति ।

आत्माख्यस्य लोकस्य सत्त्वे हेतुमाह —

आत्मत्वेनेति ।

अहं ब्रह्मास्मीत्यदृष्ट्वेति संबन्धः । यः परमात्मानमविदित्वेव म्रियते तमेनं परमात्मा न पालयतीति योजना ।

परमात्मनः स्वरूपत्वादविदितस्यापि पालयितृत्वं स्यादित्याशङ्क्याऽऽह —

स यद्यपीति ।

लोकशब्दादुपरिष्टात्तथाऽपीति द्रष्टव्यम् । अविदित इत्यस्य व्याख्यानमविद्ययेत्यादि ।

परमात्माख्यो लोको नाज्ञातो भुनक्तीत्यत्र कर्मफलभूतं लोकं वैधर्म्यदृष्टान्ततया दर्शयति —

अस्व इवेति ।

अज्ञातस्यापालयितृत्वे साधर्म्यदृष्टान्तमाह —

संक्येति ।

यथा लौकिको दशमो दशमोऽस्मीत्यज्ञातो न शोकादिनिवर्तनेनाऽऽत्मानं भुनक्ति तथा परमात्माऽपीत्यर्थः ।

तत्रैव श्रुत्युक्तं दृष्टान्तद्वयं व्याचष्टे —

यथा चेत्यादिना ।

अविद्यादीत्यादिशब्देन तदुत्थं सर्वं संगृह्यते ।

यदिहेत्यादिवाक्यापोह्यं चोद्यमुत्थापयति —

नन्विति ।

नन्वनिष्टफलनिमित्तस्यापि कर्मणः फलप्राप्तिध्रौव्यात्कथं कर्मणा मोक्षः सेत्स्यति तत्राऽऽह —

इष्टेति ।

बाहुल्यमश्वमेधादिकर्मणो महत्तरत्वं तद्धि दुरितमभिभूय मोक्षमेव संपादयिष्यतीत्यर्थः ।

यत्कृतकं तदनित्यमिति न्यायमाश्रित्य परिहरति —

तन्नेत्यादिना ।

सप्तम्यर्थः संसारः इहेतिनिपातार्थं सूचयति —

अद्भुतवदिति ।

अनेवंवित्त्वं व्याकरोति —

स्वं लोकमिति ।

यथोक्तो विधिरन्वयव्यतिरेकादिः पुण्यकर्मच्छिद्रेषु दुरितप्रसक्तिं निवारयति —

नैरन्तर्येणेति ।

तथा पुण्यं संचिन्वतोऽभिप्रायमाह —

अनेनेति ।

प्रक्रान्तयच्छब्दापेक्षितं कथयति —

तत्कर्मेति ।

प्रागुक्तन्यायद्योती हेति निपातः ।

कारणरूपेण कार्यस्य द्रुवत्वमाशङ्क्याऽऽह —

तत्कारणयोरिति ।

मुक्तेरनित्यत्वदोषसमाधिस्तर्हि केन प्रकारेण स्यादित्याशङ्क्याऽऽह —

अत इति ।

आत्मशब्दार्थमाह —

स्वं लोकमिति ।

तदेव स्फुटयति —

आत्मानमितीति ।

आत्मशब्दस्य प्रकृतस्वलोकविषयत्वे हेत्वन्तरमाह —

इह चेति ।

प्रयोगे तु पुनरुक्तिभयादर्थान्तरविषयत्वमपि स्यादित्यर्थः ।

विद्याफलमाकाङ्क्षाद्वारा निक्षिपति —

स य इति ।

कर्मफलस्य क्षयित्वमुक्त्वा कर्मणोऽक्षयत्वं वदतो व्याहतिमाशङ्क्याऽऽह —

कर्मेति ।

वाक्यस्य विवक्षितमर्थं वैधर्म्यदृष्टान्तेन व्याचष्टे —

यथेति ।

अविदुष इति च्छेदः ।

कर्मक्षयेऽपि वा विदुषो दुःखाभावे दृष्टान्तमाह —

मिथिलायामिति ।