बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तदेतद्ब्रह्म क्षत्रं विट्शूद्रस्तदग्निनैव देवेषु ब्रह्माभवद्ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यः शूद्रेण शूद्रस्तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येष्वेताभ्यां हि रूपाभ्यां ब्रह्माभवत् । अथ यो ह वा अस्माल्लोकात्स्वं लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाननूक्तोऽन्यद्वा कर्माकृतं यदिह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवात्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते । अस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते ॥ १५ ॥
अत्र तु परमात्मलोकमग्नौ ब्राह्मणे चेच्छन्तीति केचित् । तदसत् , अविद्याधिकारे कर्माधिकारार्थं वर्णविभागस्य प्रस्तुतत्वात् , परेण च विशेषणात् ; यदि ह्यत्र लोकशब्देन पर एवात्मोच्येत, परेण विशेषणमनर्थकं स्यात् — ‘स्वं लोकमदृष्ट्वा’ इति ; स्वलोकव्यतिरिक्तश्चेदग्न्यधीनतया प्रार्थ्यमानः प्रकृतो लोकः, ततः स्वमिति युक्तं विशेषणम् , प्रकृतपरलोकनिवृत्त्यर्थत्वात् ; स्वत्वेन च अव्यभिचारात्परमात्मलोकस्य, अविद्याकृतानां च स्वत्वव्यभिचारात् — ब्रवीति च कर्मकृतानां व्यभिचारम् — ‘क्षीयत एव’ इति ॥

अग्नौ हुत्वा ब्राह्मणे च दत्त्वा परमात्मलक्षणं लोकमाप्तुमिच्छन्तीति भर्तृप्रपञ्चव्याख्यानमनुवदति —

अत्रेति ।

सप्तमी तस्मादित्यादिवाक्यविषया ।

प्रक्रमालोचनायां कर्मफलमिह लोकशब्दार्थो न परमात्मा प्रक्रमभङ्गप्रसंगादिति दूषयति —

तदसदिति ।

कर्माधिकारार्थं कर्मसु प्रवृत्तिसिद्ध्यर्थमिति यावत् ।

वाक्यशेषगतविशेषणवशादपि कर्मफलस्यैवात्र लोकशब्दवाच्यत्वमित्याह —

परेण चेति ।

तदेव प्रपञ्चयति —

यदि हीति ।

परपक्षे स्वमिति विशेषणं व्यावर्त्याभावान्न घटते चेत्त्वत्पक्षेऽपि कथं तदुपपत्तिरित्याशङ्क्याऽऽह —

स्वलोकेति ।

परशब्दोऽनात्मविषयः ।

ननु प्रकृते वाक्ये लोकशब्देन परमात्मा नोच्यते चेदुत्तरवाक्येऽपि तेन नासावुच्येत विशेषाभावादित्याशङ्क्य विशेषणसामर्थ्यान्नैवमित्याह —

स्वत्वेन चेति ।

कर्मफलविषयत्वेनापि विशेषणस्य नेतुं शक्यत्वान्न विशेषसिद्धिरित्याशङ्क्याऽऽह —

अविद्येति ।

तेषां स्वरूपव्यभिचारे वाक्यशेषं प्रमाणयति —

ब्रवीति चेति ।