पुनरुक्तिवैयर्थ्यमाशङ्क्योक्तम् —
उत्तरार्थ इति ।
पूर्वत्र देवेषु दर्शितस्य वर्णविभागस्य मनुष्येषूत्तरग्रन्थेन योजनार्थ इति यावत् ।
सृष्टवर्णचतुष्टयनिविष्टमवान्तरविभागमभिधातुमारभते —
यत्तदिति ।
नान्येन देवान्तररूपेण क्षत्त्रादिविकारमन्तरेणेति यावत् । विकारान्तरमग्निब्राह्मणलक्षणम् ।
क्षत्त्रियेणेत्यत्र विवक्षितमर्थमाह —
इन्द्रादिदेवताधिष्ठित इति ।
वैश्येनेति वस्वाद्यधिष्ठितत्वमुच्यते । शूद्रेणेति पूषाधिष्ठितत्वम् ।
अग्न्यादिभावमापन्नस्य क्षत्त्रादिभावो न तु क्षत्त्रादिभावमापन्नस्याग्न्यादिभाव इत्येतावन्मात्रेण ब्रह्मणोविकृतत्वाविकृतत्वमग्निब्राह्मणस्तुत्यर्थमुक्तमित्यभिप्रेत्य तस्मादित्यादि व्याचष्टे —
यस्मादिति ।
यथोक्तप्रार्थनाया न्याय्यत्वं साधयति —
तदर्थमेवेति ।
कर्मफलदानार्थमिति यावत् ।
मनुष्याणां मध्ये कमपि मनुष्यमवलम्ब्य कर्मफलभोगापेक्षायामधिकरणसंप्रदानभावेनावस्थिताग्नीन्द्रादिनिमित्तक्रियापेक्षा नास्ति किन्तु ब्राह्मणजातिप्राप्तिमात्रेण तत्संबद्धं जप्यादिकर्मावश्यम्भावीति । तन्मात्रेण पुरुषार्थः सिध्यतीति प्रतीकग्रहणपूर्वकमाह —
मनुष्याणामिति ।
कुत्र तर्हि यथोक्तक्रियापेक्षेति तत्राऽऽह —
यत्र त्विति ।
देवानां मध्येऽग्निसंबद्धमेव कर्म कृत्वा पुरुषार्थलाभो मनुष्याणां मध्ये तु ब्राह्मण्यप्रयुक्तजप्यादिमात्रेण तत्प्राप्तिरित्यत्र प्रमाणमाह —
स्मृतेश्चेति ।
जप्यग्रहणं जातिमात्रप्रयुक्तकर्मोपलक्षणार्थम् । अन्यदग्निसंबद्धं कर्म ।
कोऽयं ब्राह्मणो नाम तत्राऽऽह —
मैत्र इति ।
सर्वेषु भूतेष्वभयप्रदो विशिष्टजातिमानिति यावत् ।
ननु यथोक्तस्मृतेर्ब्राह्मण्यप्रतिलम्भमात्रादभ्युदयलाभेऽपि कुतस्ततो निःश्रेयससिद्धिस्तत्राऽऽह —
पारिव्राज्येति ।
’ब्राह्मणा व्युत्थायाथ भिक्षाचर्यञ्चरन्ती’ति ब्राह्मणस्य पारिव्राज्यं श्रूयते । तच्च ‘संन्यासाद्ब्रह्मणः स्थान’मिति ब्रह्मलोकसाधनं मन्यते । अतश्च ब्राह्मणजातिनिमित्तं लोकमिच्छन्तीति युक्तमित्यर्थः ।
ब्राह्मणे मनुष्येष्वित्यस्यार्थमुपसम्हरति —
तस्मादिति ।
हेतुवाक्यमादाय व्याचष्टे —
यस्मादिति ।
हिशब्दार्थो यस्मादित्युक्तः यत्स्रष्टृ ब्रह्म तदेताभ्यां यस्मत्साक्षादभवत्तस्मादग्नावेवेत्यादि युक्तमिति योजना ।