ननु चातुर्वर्ण्ये सृष्टे तावतैव कर्मानुष्ठानसिद्धेरलं धर्मसृष्ट्येत्यत आह —
स चतुर इति ।
अनियताशङ्क्या नियामकाभावे तस्यानियतत्वसंभावनयेति यावत् । तच्छब्दः स्रष्टृब्रह्मविषयः ।
कुतो धर्मस्य सर्वनियन्तृत्वं क्षत्त्रस्यैव तत्प्रसिद्धेरित्याह —
तत्कथमिति ।
अनुभवमनुसृत्य परिहरति —
उच्यत इत्यादिना ।
तदेवोदाहरति —
यथेति ।
राज्ञा स्पर्धमान इति शेषः ।
धर्मस्योत्कृष्टत्वेन नियन्तृत्वे सत्यादभिन्नत्वं हेत्वन्तरमाह —
यो वा इति ।
कथं धर्मस्य सत्यत्वं स हि पुरुषधर्मो वचनधर्मः सत्यत्वमित्यवान्तरभेदादित्याशङ्क्याऽऽह —
स एवेति ।
यथोक्ते विवेके लोकप्रसिद्धिं प्रमाणयति —
यस्मादिति ।
उभयशब्दो धर्मसत्यविषययोः धर्मं वदतीत्येतदेव विभजते —
प्रसिद्धमिति ।
यथा शास्त्रानुसारेण वदन्तं धर्मं वदतीति वदन्ति तथा पूर्वोक्तवदनवैपरीत्येन धर्मं वदन्तं सत्यं वदतीत्याहुरिति योजना ।
धर्ममेव व्याचष्टे —
लौकिकमिति ।
सत्यं वदतीत्येतदेव स्फुटयति —
शास्त्रादिति ।
कार्यकारणभावेनानयोरेकत्वमुपसम्हरति —
एतदिति ।
शास्त्रार्थसंशये शिष्टव्यवहारान्निश्चयो यथा याववराहादिशब्देषु, धर्मसंशये तु शास्त्रार्थवशान्निर्णयो यथा चैत्यवन्दनादिव्युदासेनाग्निहोत्रादौ । अतो हेतुहेतुमद्भावादुभयोरैक्यमिति भावः ।
धर्मस्य सत्यादभेदे फलितमाह —
तस्मादिति ।
तस्य सर्वनियन्तृत्वेऽपि प्रकृते किमायातं तदाह —
तस्मात्स इति ।
तर्हि यथोक्तधर्मवशादेव कर्मानुष्ठानसिद्धेर्वर्णाश्रमाभिमानस्याकिञ्चित्करत्वमित्याशङ्क्याऽऽह —
अत इति ।
धार्मिकत्वाद्यभिमानो ब्राह्मण्याद्यभिमानं पुरोधायानुष्ठापकश्चेत्तदभिमानोऽपि तथैवाभिमानान्तरं पुरस्कृत्यानुष्ठापयेदित्याशङ्क्याऽऽह —
तानि चेति ।
न खल्वविदुषो धार्मिकस्य ब्राह्मण्यादिषु निमित्तेषु सत्सु कर्मप्रवृत्तौ निमित्तान्तरमपेक्ष्यते प्रमाणाभावादित्यर्थः ॥१४॥