बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स नैव व्यभवत्स शौद्रं वर्णममृजत पूषणमियं वै पूषेयं हीदं सर्वं पुष्यति यदिदं किञ्च ॥ १३ ॥
सः परिचारकाभावात्पुनरपि नैव व्यभवत् ; स शौद्रं वर्णमसृजत — शूद्र एव शौद्रः, स्वार्थेऽणि वृद्धिः । कः पुनरसौ शौद्रो वर्णः, यः सृष्टः ? पूषणम् — पुष्यतीति पूषा । कः पुनरसौ पूषेति विशेषतस्तन्निर्दिशति — इयं पृथिवी पूषा ; स्वयमेव निर्वचनमाह — इयं हि इदं सर्वं पुष्यति यदिदं किञ्च ॥

कर्तृपालयितृधनार्जयितॄणां सृष्टत्वात्कृतं वर्णान्तरसृष्ट्येत्याशङ्क्याऽऽह —

स परिचारकेति ।

शौद्रं वर्णमसृजतेत्यत्रौकारो वृद्धिः ।

पुष्यतीति पुषेत्युक्तत्वात्प्रश्नस्यानवकाशत्वमाशङ्क्याऽऽह —

विशेषत इति ।

पूषशब्दस्यार्थान्तरे प्रसिद्धत्वात्कथं पृथिव्यां वृत्तिरित्याशङ्क्याऽऽह —

स्वयमेवेति ॥१३॥