तत्राऽऽद्यमन्त्रभागमादाय व्याचष्टे —
यत्सप्तान्नानीति ।
अजनयदिति क्रियाया विशेषणं यदिति पदम् । तथा च तद्युक्तं पितृत्वादिति शेषः । ग्रन्थार्थधारणशक्तिर्मेधा । कृच्छ्रचान्द्रायणादि तपः ।
ते कस्मादत्र न गृह्यते तत्राऽऽह —
ज्ञानकर्मणी इति ।
तयोः प्रकृतत्वं प्रकटयति —
पाङ्क्तं हीति ।
इतरयोरप्रकृतत्वं हेतूकृतमनूद्य फलितमाह —
तस्मादिति ।
ज्ञानकर्मणोः प्रकृतत्वमुक्तं हेतुमादाय वाक्यं पूरयति —
अत इति ।
यत्सप्तान्नानीत्यादिमन्त्रभागं व्याख्याय ब्राह्मणवाक्यसमुदायतात्पर्यमाह —
तत्रेति ।
मन्त्रब्राह्मणात्मको ग्रन्थः सप्तम्यर्थः ।
मेधया हीत्यादिब्राह्मणमाकाङ्क्षापूर्वकमुत्थापयति —
तत्र यदिति ।
प्रकृतमन्त्रसमुदायः सप्तम्या परामृश्यते ।
व्याख्यानमेव संगृह्णाति —
प्रसिद्धो हीति ।
न केवलं हिशब्दान्मन्त्रस्य प्रसिद्धार्थत्वं किन्तु मन्त्रस्वरूपालोचनायामपि तत्सिध्यतीत्याह —
यदिति ।
मन्त्रार्थस्य प्रसिद्धत्वे मन्त्रस्यानुगुणत्वं हेतूकृत्य फलितमाह —
अत इति ।